________________
चतुर्विशतिजिनस्तुतिः।
१५७ मालामालानबाहुर्दधददधदरं यामुदारा मुदारा
ल्लीनालीनामिहाली मधुरमधुरसां सूचितोमाचितो मा। पातात्पातात्स पार्थो रुचिररुचिरदो देवराजीवराजी
पत्रापत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥ ८९ ॥ मा मां पातात् नरकादिपतनात्पाताद्रक्षतात् । स पार्श्वस्त्रयोविंशो जिनः । किविशिष्टः । मालां सजं दधत् दधानः । यां मालामलीनां भ्रमराणामाली पटली उदारा प्रचुरा मुदा हर्षेण आरात् अन्तिके अरमत्यर्थ लीना श्लिष्टा सती अदधत्पीतवती । किंभूताम् । मधुरो मधुर्मकरन्दरसो यस्याः सा ताम् । पार्श्वः किंभूतः । आलानववाहू यस्य सः । सुष्ठ उचिता या उमा कीर्तिस्तया चितो व्याप्तः । रुचिररुचयो रम्यकान्तयो रदा दन्ता यस्य सः । तथा यस्येयं यदीया तनुः शरीरं आपत्रा विपदो रक्षिका । किंभूता। देवानां संबन्धिनी या राजीवराजी वर्णाम्बुजश्रेणी सैव पत्रं वाहनं यस्याः सा । पार्श्वः किंभूतः । अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात्प्रौढो रखो देशनाध्वनिर्यस्य सः। नन्दकः समृद्धिजनकः नन्दयिता वा । नोदको नो । प्रेरको न भवतीत्यर्थः ॥
राजी राजीववका तरलतरलसत्केतुरङ्गत्तुरङ्ग_ व्यालव्यालमयोधाचितरचितरणे मीतिहृयातिहृद्या । सारा साराजिनानामलममलमतेर्बोधिका माधिकामा
दव्यादव्याधिकालाननजननजरात्रासमानासमाना ॥ ९० ॥ राजी श्रेणी राजीववत्कमलवद्वकं यस्याः सा । तथा तरलतरलसत्केतवः कम्पविराजमानध्वजा रङ्गतां चलतां तुरङ्गाणां व्यालानां दुष्टदन्तिनां व्यालमा अभिघटिताः कृताधिरोहणा वा ये योधाः सुभटास्तैराचित आकीर्णो रचितः कृतश्च यो रणः सङ्ग्रामखत्र या भीतिर्भयं तां हरतीति सा । या अतिहया अत्यन्तहृदयंगमा । सारा उत्कृष्टा । सा यच्छन्दनिर्दिष्टा । आरादूरादन्तिकाद्वा । जिनानां सर्वज्ञानाम् । अलमत्यर्थम् । अमला मतिर्यस्य तस्य बोधिका बोधजनका । मा माम् अधिको यो आमो रोगस्तस्मात् यद्वा आधिश्च कामश्च तस्मात् । व्याधिश्च कालाननं यममुखं मरणं च जननं च जरा च त्रासश्च मानव न विद्यन्ते व्याध्यादयो यस्यां सा । असमाना गुणैरसदृशा या जिनानां राजी.रणे भीतिहृत्सा अव्यादिति संबन्धः ॥ सद्योऽसद्योगभिवागमलगमलया जैनराजीनराजी
नूता नूतार्थधात्रीह ततहततमःपातकापातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाबाधिका वा
देया देयान्मुदं ते मनुजमनुजरां त्याजयन्ती जयन्ती ॥ ९१ ॥ जिनराजानां संबन्धिनी जैनराजी वाग्वाणी ते तुभ्यं मुदं देयात् । किं विशिष्टा । सद्यः शीघ्रं असन्तो ये योगा मनोवाकायव्यापारास्तान् भिनत्तीति सा । अमलानां गमानां
१४ का० स० गु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org