________________
१५८
काव्यमाला
लयो यत्र सा । इना इभ्याः सूर्या वा तेषां राज्या नूता स्तुता । नूतान्नवीनानर्थान् दधातीति सा । इह पृथिव्याम् । ततं विपुलं हतं ध्वस्तं तमोऽज्ञानं पातकं पाप्मा यया सा । अपातः पतनरहितंः कामश्च यया । यद्वा पृथग्विशेषणम् । न विद्येते. पातकामौ यस्याः सा । शास्त्री शास्त्रसंबन्धिनी । नराणां शास्त्री शासिका । यद्वा शास्त्रीणामीशा खामिनी । त्रियो नार्यो नरा मास्तेषां हृदयं हरतीति । अयंशो रुणद्धीति । न बाधते इत्यबाधिका । वा समुच्चये । आदेया ग्राह्या । मनुज मानवमनु लक्ष्यीकृत्य जरां विस्रसां त्याजयन्ती विनाशयन्ती । जयन्ती केनाप्यपरिभूतखात् ॥ .
याता यां तारतेजाः सदसि सदसिभृत्कालकान्तालकान्ता
. पारिं पारिन्द्रराजं सुरवसुरवधूपूजितारं जितारम् । सा त्रासात्रायतां त्वामविषमविषभृद्भूषणाभीषणा भी
हीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहामदेहा ।। ९२ ॥ याता प्राप्ता देवी । तारमुज्वलं तेजो यस्याः सा । सदसि सभायम् । सन्तं शोभनमसिं बिभर्ति सा । कालाः कृष्णाः कान्ता रुचिरा अलकानामन्ताः प्रान्ता यस्याः सा । अपगता अरयो यस्मात्. तमप्रारिं पारिन्द्रराजमजगरेन्द्रम् । सुरवाः सुशब्दा या सुरवध्वो देवकान्तास्ताभिः पूजिता । अरं शीघ्रं जितमारमरिसमूहो येन । सा यच्छ. ब्दादिष्टा त्रासाद्भयात्रायतां रक्षताम् । त्वां भवन्तम् । अविषमाः सौम्या विषभृतः सर्पा भूषणं यस्याः सा । तथा अभीषणा अरौद्राकारा भिया भयेन हीना त्यक्ता । अहीनो नागपतिस्तस्याश्या प्रधाना पत्नी अग्र्यमहिषी । चिरोढेत्यर्थः । कुवलयानां वलयं समूहस्तद्वच्छयामो देहो यस्याः सा । अमदा मदरहिता ईहा चेष्टा यस्याः सा । या सदसिः पारिन्द्रराज प्राप्ता सा अहीनाय्यपत्नी त्रासात्रायतामिति संबन्धः ॥ नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे धरित्रीकृतावन वरतम संगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीशसिद्धार्थधाग्नि
क्षमालंकृतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव लीलापदे हे क्षितामो हिताक्षो
भवान् ।। ९३ ।। नमताममराणां शिरोरुहेभ्यः केशेभ्यः खस्ताः सामोदानां निर्निद्राणां विकसितानां मन्दाराणां या मालास्तासां रजसा परागेण रञ्जितांहे पाटलितचरण । धरित्र्या भुवः कृतावन विहितरक्षण । वरतम प्रधानतम । संगमनाम्नो देवस्य संबन्धिनी उदारा तारा उदितानङ्गा उद्गतमरा अथवा वरतमः संगमः समागमो यस्याः सा वरतमसंगमा उदारंतारा अदीनकनीनिका उदितानङ्गा उद्तस्मरा या नार्यावली नारीणां पतिस्तस्यालापेन जल्पितेन देहेन ईक्षितेन च न मोहितानि अक्षाणि इन्द्रियाणि यस्य स भवान् खम् मम वितरतु हे वीर 'जिन निर्वाणशर्माणि मोक्षसुखानि । जातावतारोऽवतीर्णः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org