________________
चतुर्विंशतिजिनस्तुः ।
१५९
उत्पन्न इत्यर्थः । धराधीशः क्षितिपतिर्यः सिद्धार्थस्तस्या धानि गृहे । कथंभूते । क्षमालंकृतौ भवोऽलंकारभूते । अनवरतमजस्रम् । हे असङ्गमोद सङ्गमोदाभ्यां रहित ।.यद्वा सङ्गाद्यो मोदः स नास्ति यस्यासौ असङ्गमोदः । खतन्त्रसुख इत्यर्थः । हे अरत अनासक्तः । हे अरोदित रोदनहीन । शोकरहितेत्यर्थः । हे अनङ्गन अङ्गनारहित । हे आर्याव अर्यानवति यस्तदामन्त्रणम् । धाम्नि कथंभूते । लीलानां विलासानां पदे स्थाने । हे इत्यामन्त्रणे । भवान् कथंभूतः । क्षितामः क्षपितरोगः । हे हित हितकारिन् । पुनः कथंभूतः । अक्षोभवान् न भयान्वितः । हे वीर, भवान्मम निर्वाणशर्माणि वितरलिति संबन्धः ॥ समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपझेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम् । प्रवितरतु समीहितं साहतां संहतिर्भक्तिभाजां भवाम्भोधिसंभ्रान्तभव्या'चलीसेवितासदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्रपरेताहितारोचितम्९४ .. समवसरणं धर्मदेशनास्थानं यस्याः अत्र अस्मिन् अराराट् भृशमराजत सा अर्हता ततिर्भक्तिभाजां समीहितं वितरतु । समवसरणं कथंभूतम् । स्फुरत् केतुर्धर्मध्वजश्चक्रं धर्मचक्रं आनको देवदुन्दुभिः अनेकपद्मानि सुरकृतकमलानि इन्दुरुक्चामराणि चन्द्रावदातप्रकीर्णकानि उत्सर्पिणी सालत्रयी प्राकारत्रयं प्रधानावनमदशोकद्रुमः पृथिव्युत्सवभूतच्छायातपत्रत्रयं तस्य प्रभा कान्तिस्तया गुरु महाहम् । पुनः किंभूतम् । परेता अपगता अहिताः शत्रवो येषां तैरारोचितं शोभितम् । अथ वा परा प्रधाना इताहिता गतशत्रुरित्यहंतां संहतेर्विशेषणे । आरोचितं शोभितम् । संहतिः कथंभूता । भवाम्भोधौ संसारसमुद्रे संभ्रान्ता आकुलीभूता या भव्यावली तया सेविता । पुनः कथंभूता । सदवना सोपतापा च मदशोकाभ्यां पृथ्वी वितता च या न भवंति । ईक्षणानि चक्षुषि ज्ञानानि वा प्राति पूरयति सा । यशसा भातानि शोभिनानि पत्राणि वाहनानि प्रभजन्ते ये उर्वराराजः पृथ्वीपतयः परेताः पिशाचा अहयो नागास्तारा ज्योतिष्कास्तेषामुचितं योग्यम् । समवसरणविशेषणमिदम् ॥ परमततिमिरोग्रभानुप्रभा भूरिभङ्गेर्गभीरा भृशं विश्ववर्ये निकाय्ये वितीर्यात्तरामहति मतिमते हि ते शस्यमानस्य वासं सदा तन्वतीतापदानन्दधानस्य
सामानिनः ।.. जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जजनोत्तारनौ रतीतीर्थकृत महति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सा मानि नः ॥ ९५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org