________________
१५४
काव्यमाला।
किंविशिष्टः । यातं तमो येभ्यस्ते याततमसो मुनयस्तेषां दयितोऽभीष्टः । मोक्षसुखप्राफ्कं चरणं चारित्रं खभिदधत्स्वाख्यन् । किंभूतम् । सुधियां मानसमनु लक्ष्यीकृत्य वस. त्तिष्ठत् । हे गमनयातत गमाः सदृशपायः नयाश्च नैगमादयस्वैरातत विस्तीर्ण । है मोदयितः प्रमोदकारक ॥
अधिगतगोधिका कनकरुक्तव गौर्युचिता
कमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती
कमलकरा जितामरसभास्यतु लोपकृतम् ॥ ८० ॥ गौरी देवी तव लोपकृतं विनाशकारकमस्यतु क्षिपतु । किंभूता । अधिगता प्राप्ता गोधिका देववाहनविशेषो यया सा । कनकवगुरदीप्तिर्यस्य वदनं मुखं दधती । किंभूतम् । मृगमदस्य कस्तूरिकाया ये पत्रभङ्गाः पत्रच्छेदास्तैरुपलक्षिता ये तिलकास्तैरु. चिता योग्या अङ्का लाञ्छनानि यस्य तदुचिताङ्कम् । अलकैश्चिकुरै राजते इत्येवंशीलमलकराजि तामरसभासि । अतुलमुपकृतं खकान्तिसंविभागादिना उपकारो यस्य तत् । कमलं करे यस्याः, कमलवद्वा करो यस्याः सा । जिता निष्प्रभीकृता रूपनेपथ्यप्रागल्भ्यादिभिरमराणां सभा यया सा ॥
स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं
ममायासं चारो दितमद नमेऽघानि लपितः । नमद्भव्यश्रेणीभवभयभिदा हृद्यवचसा
___ममायासंचारोदितमदनमेघानिल पितः ॥ ८१ ।। हे नमे नमिजिन, ममायासं वितन्वन्ति अघानि पापानि प्रविकिर निरसय । स्फुरन्ती या विद्युत् तद्वत्कान्तिर्यस्य तस्य संबोधनम् । हे चारो दर्शनीय । हे दितमद च्छिन्नमद । हे लपितः वादक । केषाम् । हृद्यवचसाम् । कथंभूतानाम् । नमद्भव्यश्रेणीभवभयभिदाम् । मायाया दम्भस्य संचारो यस्य स नैवंविधस्तस्य संबोधनम् । उदित उदयं प्राप्तो मदनः काम एव मेघो जीमूतस्तस्य संहारकत्वादनिलो वात इव तस्य संबोधनम् । हे पितः जनक इव हितकारक ॥
नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः
सदा नोदी नानामयमलमदारेरित तमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः
सदा नो दीनानामयमलमदारेरिततमः ॥ ८२ ॥ यो विश्वं इततमो गतमोहं प्रचक्रे स जिनेन्द्रसमूहो जयति । कथं भूतः । नखांशुश्रेणीभिनखमयूखसंततिभिः कपिशितनमन्नाकिमुकुटः पीतीकृतनमद्देवकिरीटः। सदा शश्वत् नोदी प्रेरणशीलः । कस्य । नाना अनेकरूपा आमयाश्च मलाश्च मदाश्च । समाहारद्वन्द्वः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org