________________
काव्यमाला।
भूमानं बिभ्रतोऽपि प्रकटयति झटित्योजसा खेन हानि
स्नेहस्योच्चैः पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या । यान्यादृक्षेव साक्षात्कृतनयनपथातीतवस्तुखरूपा
दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः ॥ १८ ॥ ज्योतिर्मत्रं न यत्र प्रविचरति रुचिर्नैन्दवी न प्रकाश्यं
यद्भासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव । वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता या
सार्हद्भास्त्यरत्या वियुततनुलतान्वः क्रियादक्रमेण ॥ ११ ॥ सालंकारां करोति श्रुतिमति विशंदन्यायरत्नोद्भटश्रि
श्रीमद्भिर्धार्यमाणं गतमतिविभवैर्दुर्लभं भाखराङ्गम् । सद्वृत्तोदात्तरूपं व्युपरतविकृतेर्यत्तुलां कुण्डलस्य
क्षिप्रं बिभ्रक्रियाद्वो वचनमुपचितिं चिन्तितानां तदर्यम् ॥ २० ॥ नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्रौद्धदेवा
दश्रीणां नाश्रयोऽभु स्रुतिरति न नवा विसा न श्रमो वः । नाविश्रम्भश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः
श्रुत्वा यां श्रीजिनस्याश्रियमभिभवतागौरसौ साक्श्रुतीष्टा ॥ २१ ॥ मिथ्यादृक्पाथसान्त तगुरुविपदावर्तगर्त गरीयः- .
सर्पत्कंदर्पसर्प प्रचरितकुनयानेकनकादिचक्रम् । यत्प्राप्य प्रोत्तरन्ति प्रततमपि भवाम्भोनिधिं साधुबन्धं - पातात्योतायमानं तदवमपतनाज्जैनचन्द्रं वचो वः ॥ २२ ॥ सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती
क्लेशग्रीष्मोष्मशोषं खमहिमभवनात्संहरन्ती रजांसि । विस्फूर्जन्नीतिधारानिकरपतनतः प्रावृषा या समाना
मानारेर्माननामाप्यपनुदतु भवत्खाशु सा सूनृता वाक् ॥ २३ ॥
या
.
१. पण्डितैः. २. विशदा न्याया नीतय एव रत्नानि. ३. जिनस्य. ४. यमात्. ५. जरा. ६. रक्षतात्. ७. पापपातात्. ८. अपनयन्ती. ९. खकीयमाहात्म्यभावात्. १०. जिनस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org