________________
वैराग्यशतकम् । लक्ष्मीर्वा दुग्धसिन्धोधरणिधरवराज्जझुकन्येव मान्या
श्यामेशाच्चन्द्रिकेवाभिनवजलधरादम्भसः श्रीरिवोच्चैः । ध्वान्ताबन्धोरहःश्रीरिव समुदभवद्भारती रत्यधीन्द्र
द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः ॥ २४ ॥ नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह बिभ्र
स्कण्ठे निर्लोट्य शाठ्यं कुदृशमसदृशोद्भासितां भ्रंशयन्तीम् । यां रक्षां वा विवेकी बहुविधविपदां मेदिकां दैन्यशून्या। न्युष्मान्मान्याग्रगेस्याननवनजशया वागसौ द्राग्विधेयात् ॥ २५॥ इति श्रीजम्बूगुरुविरचिते जिनशतके जिनवाग्वर्णनं नाम चतुर्थः परिच्छेदः ।
समाप्तमिदं जिनशतकम् ।
श्रीपद्मानन्दकविप्रणीतं
वैराग्यशतकम् । त्रैलोक्यं युगपत्कराम्बुजलुठन्मुक्तावदालोकते
जन्तूनां निजया गिरा परिणमद्यः सूक्तमाभाषते । स श्रीमान्भगवान्विचित्रविधिभिर्देवासुरैरर्चितो
वीतत्रासविलासहासरभसः पायाजिनानां पतिः ॥ १॥ यैः क्षुण्णाः प्रसरद्विवेकप॑विना कोपादिभूमीभृतो __योगाभ्यासपरश्वधेन मथितो यैर्मोहधात्रीरुहः । बद्धः संयमसिद्धमत्रविधिना यैः प्रौढकामज्वर___ स्तान्मोक्षकसुखानुषङ्गरसिकान्वन्दामहे योगिनः ॥ २ ॥ यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी
लक्ष्मीः प्राणसमापि पन्नगवधूवत्प्रोज्झिता दूरतः।
१. ध्वान्तशत्रोः. २. रत्यधीन्द्रं कामं द्रोग्धुद्वेष्टर्जिनात्. ३. इव. ४. जिनस्य. ५. मुखकमलस्था. ६. कवेरस्य देशकालौ न ज्ञायेते. एकमेव पुस्तकमस्य शतकस्य प्रायः शुद्धं पत्रचतुष्टयात्मकं संवेगिसाधुसत्तमश्रीशान्तिविजयमुनिभिरस्मभ्यं प्रहितं तदाधारेगैतन्मुद्रणं विहितम्. ७. वज्रेण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org