SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७२ काव्यमाला। भुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः ॥ ३ ॥ यः परवादे मूकः परनारीवक्रवीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥ ४ ॥ आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्द्यते दुर्गन्धेन न बाध्यते न च सदामोदेन संप्रीयते । स्त्रीरूपेण न रज्यते न च मृतश्चानेन विद्वेष्यते ___माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः ॥ ५ ॥ मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते __भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । रत्ने रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते __ येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः ॥ ६ ॥ सौन्दर्यैकनिधेः कलाकुलविधेावण्यपाथोनिधेः ___ पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः । कान्ताया नवयौवनाञ्चिततनोयॆरुज्झितः संगमः सम्यङ्मानसगोचरे चरति किं तेषां हताशः स्मरः ॥ ७ ॥ शृङ्गारामृतसेकशाद्वलरुचिर्वक्रोक्तिपत्रान्विता प्रोद्गच्छत्सुमनोभिषङ्गसुभगा स्त्रीणां कथावल्लरी । यैर्ब्रह्मव्रतपावकेन परितो भस्मावशेषीकृता किं तेषां विषमायुधः प्रकुरुते रोषप्रकर्षेऽपि रे ॥ ८ ॥ आताम्रायतलोचनाभिरनिशं संतj संतर्घ्य च क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्चाङ्गनाभिर्भृशम् । तेषां किं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां येषां शुद्धविवेकवज्रफलकं पार्थे परिभ्राम्यति ॥ ९ ॥ अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते धान्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । १. नागकन्यातुल्यायाः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy