________________
वैराग्यशतकम् ।
७३
आसीद्यावदनङ्गसंगतिरसस्तावत्तवेयं स्थितिः
संप्रत्यास्यपुरःसरामपि न तां द्रष्टासि कोऽयं लयः ॥ १० ॥ योगे पीनपयोधराञ्चिततनोविच्छेदने बिभ्यतां
मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् । विश्लेषस्मरवह्निनानुसमयं दन्दह्यमानात्मनां
भ्रातः सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् ॥ ११ ॥ मध्ये खां कृशतां कुरङ्गकदृशो भ्रूनेत्रयोर्वक्रतां . कौटिल्यं चिकुरेषु रागमधरे मान्धं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामक्ष्णोर्निरीक्ष्य स्फुटं
वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही नराः ॥ १२ ॥ पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं
चक्षुः क्षीणबलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः
पश्यन्तोऽपि जडा हहा हृदि सदा ध्यायन्ति तां प्रेयसीम् १३ अन्यायार्जितवित्तवत्वचिदपि भ्रष्टं समस्तै रदै. स्तापक्रान्ततमालपत्रवदभूदङ्गं वलीभङ्गुरम् । . केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि
खैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा ॥ १४ ॥ उद्गुणन्ति प्रपञ्चेन योषितो गद्गदां गिरम् ।
तामामनन्ति प्रेमोक्तिं कामग्रहिलचेतसः ॥ १५ ॥ यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं
सिद्धान्तार्थमहौषधेर्निरुपमश्चूर्णो न जीर्णो हृदि । पीतं ज्ञानलघूदकं न विधिना तावत्सरोत्थो ज्वरः
शान्ति याति न तात्त्विकी हृदय हे शेषैरलं भेषजैः ॥ १६ ॥ शृङ्गारदुमनीरदे प्रस्मरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति । ७ का० स० गु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org