SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७४ काव्यमाला । तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ १७ ॥ सम्यक्परिहृता येन कामिनी गजगामिनी । किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः ॥ १८ ॥ लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मत्रतं भ्रश्यति ज्ञानं संकुचति स्मरज्वरवशात्पश्यामि यावत्प्रियाम् । यावत्तु स्मृतिमेति नारकगतेः पाकक्रमो भीषण - स्तावत्तत्त्वनिरीक्षणात्प्रियतमाप्येषा विषैौधायते ॥ १९ ॥ कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता संतोषेण परार्थचौर्यपटुता शीलेन रागान्धता । नैन्थ्येन परिग्रहग्रहिलता यैर्योवनेऽपि स्फुटं पृथ्वीयं सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥ २० ॥ यत्रानोऽपि (1) विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम् । सिद्धान्तोपनिषन्निषण्णमनसां येषां मनः सर्वथा तस्मिन्मन्मथबाधया न मथितं धन्यास्त एव ध्रुवम् ॥ २१ ॥ स्वाध्यायोत्तमगीतिसंगतिजुषः संतोषपुष्पाञ्चिताः सम्यग्ज्ञान विलासमण्डपगताः सद्ध्यानशय्यां श्रिताः । तत्त्वार्थप्रतिबोधदीपकलिकाः क्षान्त्यङ्गनासङ्गिनो निर्वाणैकसुखाभिलाषिमनसो धन्या नयन्ते निशाम् ॥ २२ ॥ किं लोलाक्षि कटाक्षलम्पटतया किं स्तम्भजृम्भादिभिः किं प्रत्यङ्गनिदर्शनोत्सुकतया किं प्रोल्लसच्चाटुभिः । आत्मानं प्रतिबाधसे स्वमधुना व्यर्थं मदर्थं यतः शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः ॥ २३ ॥ सज्ज्ञानमूलशाली दर्शनशाखश्च येन वृततरुः । श्रद्धाजलेन सिक्को मुक्तिफलं तस्य स ददाति ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy