________________
१५२
काव्यमाला । अहितं न श्रेयस्कारि । अपाराण्यपर्यन्तानि मानाममराणां निर्वाणस्य शर्माणि तेषां कारणम् । परमं तमो हन्ति । यद्वा परमतमा ऊहा यस्मिन् । आनमत प्रणमत । नूनं निश्चितम् । न लङ्घनमभिभवो यस्य स चासौ मघवा च तेन सामर्थ्यादच्युतनाथेन ईहितमभिलषितम् ॥
यात्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुता
समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सांध्यधनमूर्धनि चक्रधरास्तु सा मुदे
ऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥ ७२ ॥ अरा एषां सन्तीत्यरीणि चक्राणि । महान्ति च तान्यरीणि च तैर्महारिभिर्महाचकैः यात्र जगति चक्रधरा देवी अप्रतिचका देवी भाति शोभते । कथंभूता । विविधवर्णगरुडपृष्ठमधिरूढा । हुतमत्तीति हुताद्वहिस्तत्तुल्यां तनुं भजते । अविकृता अवि. कारिणी धीर्यस्याः सा । महारिभिः किंभूतैः । असमानदवानलैरिव । धाम तेजस्तेन हारिभिर्मनोहरैः । यथा विद्युत्संध्याभवमेघमस्तके भाति तद्वत् । सा देवी मुदेऽस्तु भवतु । समा च तनुश्च समतनुः न समतनुरसमतनुः एवंविधा भा यस्याः । गवि पृथिव्यां स्वर्गे वा कृतो धीराणां समदानां वैरिणां वधो यया ॥ नुदंस्तनुं प्रवितर मल्लिनाथ मे प्रियंगुरोचिररुचिरोचितां वरम् । विडम्बयन्वररुचिमण्डलोज्ज्वलः प्रिये गुरोऽचिररुचिरोचिताम्बरम् ॥ ७३ ।।
नुदन् क्षिपन् । तनुं शरीरम् । प्रियंगुः श्यामो वृक्षविशेषस्तद्वद्रोचिर्यस्य । तनुं कथंभूताम् । रुचिरा उचितां च न एवंविधाम् । रुचिमण्डलं भामण्डलं तेनोज्ज्वलः कान्तः । अचिररुच्या रोचितं विद्युच्छोभितमम्बरमाकाशं विडम्बयन् । हे मल्ले (मल्लिनाथ) हे गुरो, अरुचिरोचितां तनुं नुदन् प्रियंगुवर्णः भामण्डलशोभितः विद्युत्सहितमाकाशं पराभवन् मम वरं प्रवितर ॥
जवाद्गतं जगदवतो वपुर्व्यथाकदम्बकैरवशतपत्रसं पदम् । जिनोत्तमानस्तुत दधतः स्रजं स्फुरत्कदम्बकैरवशतपत्रसंपदम् ॥ ७४ ।। जवाद्वेगाजगद्विश्वमवतो रक्षतो जिनोत्तमान हे भव्यजनाः, स्तुत नुत । जगत्किंविशिष्टम् । पदं स्थानं नरकादिलक्षणं गतं प्राप्तम् । पदं किंभूतम् । वपुःपीडोत्पीडैरवशाः परतन्त्रास्तपन्तस्तापमनुभवन्तस्त्रसाः प्राणिनो यत्र तत् । जिनोत्तमान्कथंभूतान् । स्र पुष्पमालां दधतः । मालां कथंभूताम् । स्फुरन्ती कदम्बानां कैरवाणां शतपत्राणां च संपद्यत्र ॥
स संपदं दिशतु जिनोत्तमागमः शमावन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तपःशमावहन्नतनुत मोहरोदिते ॥ ७५ ।। स जिनेन्द्रागमः संपदं दद्यात् । कथंभूतः । शं सुखमावहन्कुर्वन् अतनु प्रौढं तमो हरतीति । यद्वा अतनुतमानूहान् राति ददातीति । स चित्तभूः कामो येन क्षतो हतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org