________________
२०
काव्यमाला ।
शक्योद्धारं भवति हि कथं मुक्तिकामस्य पुंसो मुक्तिद्वारं परिदृढमहामोहमुद्राकवाटम् ॥ १३ ॥ प्रच्छन्नः खल्वयमघमयैरन्धकारैः समन्ता
त्पन्था मुक्तेः स्थपुटितपदः क्लेशगर्तैरगाधैः । तत्कस्तेन व्रजति सुखतो देव तत्त्वावभासी
यद्यग्रेऽग्रे न भवति भवद्भारतीरत्नदीपः ॥ १४ ॥ आत्मज्योतिर्निघिरनवधिर्द्रष्टुरानन्दहेतुः
कर्मक्षोणीपटलपिहितो योऽनवाप्यः परेषाम् । हस्ते कुर्वन्त्यनतिचिरतस्तं भवद्भक्तिभाजः स्तोत्रैर्बन्धप्रे कृतिपरुषोद्दामधात्रीखनित्रैः ॥ १५ ॥ प्रत्युत्पन्नानयँहिमगिरेरायता चामृताब्धे -
र्या देव स्वत्पदकमलयोः संगता भक्तिगङ्गा । चेतस्तस्यां मम रुजिवशादाष्ठतं क्षालितांह:
कल्माषं यद्भवति किमियं देव संदेहभूमिः ॥ १६ ॥ प्रादुर्भूत स्थिरपदसुख त्वामनुध्यायतो मे त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा । मिथ्यैवेयं तदपि तनुते तृप्तिमभ्रेषरूपां
दोषात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद्भवन्ति ॥ १७ ॥
मिथ्यावादं मलमपनुदसप्तभङ्गीतरङ्गै
र्वागम्भोधिर्भुवनमखिलं देव पर्येति यस्ते ।
तस्यावृत्ति सपदि विबुधाश्चेतसैवाचलेन
व्यातन्वन्तः सुचिरममृतासेवया तृप्नुवन्ति ॥ १८ ॥
१. तत्त्वैः सप्तसंख्यैरवभासते यः २. 'प्रकृतिस्थित्यनुभागप्रदेशा बन्धप्रकृतयः' इति टीका. ३. स्याद्वादनय हिमाचलात्. ४. स्यादस्ति, स्यान्नास्ति, स्यादस्ति नास्ति, स्यादवक्तव्यम्, स्यादस्त्यवक्तव्यम्, स्यान्नास्त्यवक्तव्यम्, स्यादस्ति च नास्ति चावतव्यं च इति सप्त भङ्गाः स्याद्वादनये प्रसिद्धाः ५. चेतोरूपपर्वतेनावृत्तिं मथनम् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org