SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ एकीभावस्तोत्रम् । सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेषं मनो मे । श्रेयः किं तत्वयमहरहर्यन्न मामभ्युपैति ॥ ७ ॥ पश्यन्तं त्वद्वचनममृतं भक्तिपाच्या पिबन्तं कारण्यात्पुरुषमसमानन्दधाम प्रविष्टम् । त्वां दुर्वारस्मरमदहरं त्वत्प्रसादैकभूमि क्रूराकाराः कथमिव रुजाकण्टका निर्लठन्ति ॥ ८॥ पाषाणात्मा तदितरसमः केवलं रत्नमूर्ति निस्तम्भो भवति च परस्तादृशो रत्नवर्गः । दृष्टिप्राप्तो हरति स कथं मानरोगं नराणां प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्तिहेतुः ॥ ९ ॥ हृद्यः प्राप्तो मरुदपि भवन्मूर्तिशैलोपवाही सद्यः पुंसां निरवधि रुजाधूलिबन्धं धुनोति । ध्यानाहूतो हृदयकमलं यस्य तु त्वं प्रविष्ट स्तस्याशक्यः क इह भुवने देव लोकोपकारः ॥ १० ॥ जानासि त्वं मम भवभवे यच्च याक्च दुःखं जातं यस्य स्मरणमपि मे शस्त्रवन्निपिनष्टि । त्वं सर्वेशः सकृप इति च त्वामुपेतोऽस्मि भक्त्या यत्कर्तव्यं तदिह विषये देव एव प्रमाणम् ।। ११ ।। प्रापदैवं तव नुतिपदैर्जीवकेनोपदिष्टैः पापाचारी मरणसमये सारमेयोऽपि सौख्यम् । कः संदेहो यदुपलभते वासवश्रीप्रभुत्वं जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कारचक्रम् ॥ १२ ॥ शुद्ध ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा भक्तिों चेदनवधि सुखावञ्चिका कुञ्चिकेयम् । । १. 'जीवकेन क्षत्रियवंशचूडामणिश्रीसत्यंधरमहाराजपुत्रेण' इति टीकाकारः. २. सौख्यमित्वस्य दैवमिति विशेषणम्. सारमेयः श्वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy