SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १८ काव्यमाला | तस्याप्यस्य त्वयि जिनरवे भक्तिरुन्मुक्तये चेज्जेतुं शक्यो भवति न तया कोsपरस्तापहेतुः ॥ १ ॥ ज्योतीरूपं दुरितनिवहध्वान्तविध्वंसहेतुं त्वामेवाहुर्जिनवर चिरं तत्त्वविद्याभियुक्ताः । चेतोवासे भवसि च मम स्फारमुद्भासमानस्तस्मिन्नंहः कथमिव तमो वस्तुतो वस्तुमीष्टे ॥ २ ॥ आनन्दाश्रुस्त्रपितवदनं गदं चाभिजल्प यश्चायेत त्वयि दृढमनाः स्तोत्रमन्त्रैर्भवन्तम् । तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्या निष्कास्यन्ते विविधविषमव्याधयः काद्रवेयाः ॥ ३ ॥ प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्या त्पृथ्वीचक्रं कनकमयतां देव निन्ये त्वयेदम् । ध्यानद्वारं मम रुचिकरं स्वान्तगेहं प्रविष्ट - स्तत्किं चित्रं जिन वेपुरिदं यत्सुवर्णीकरोषि ॥ ४ ॥ लोकस्यैकस्त्वमसि भगवन्निर्निमित्तेन बन्धु स्त्वय्येवासौ सकलविषया शक्तिरप्रत्यनीका । भक्तिस्फीतां चिरमधिवसन्मामिकां चित्रशय्यां मय्युत्पन्नं कथमिव ततः क्लेशयूथं सहेथाः ॥ ५ ॥ जन्माटव्यां कथमपि मया देव दीर्घं भ्रमित्वा प्राप्तैवेयं तव नयकथा स्फारपीयूषवापी | तस्या मध्ये हिमकरहिमव्यूहशीते नितान्तं निर्मग्नं मां न जहति कथं दुःखदावोपतापाः || ६॥ पादन्यासादपि च पुनतो यात्रया ते त्रिलोकीं हेमाभासो भवति सुरभिः श्रीनिवासश्च पद्मः । १. पूजयेत्. 'चायृ पूजा निशामनयोः '. २. कुष्ठरोगाक्रान्तं मदीयं शरीरमिति टीकाकारः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy