________________
श्रीमहावीरखामिस्तोत्रम् ।
१०१ कुसमयरुतमालाभङ्गसंहारवायो
कुनयकुवलयालीचूरणे(चूर्णने) मत्तनाग । तव गुणकणगुम्फे मे परीणाममित्थं
विमलमपरिहीणं हे महावीर पाहि ॥ २६ ॥ अनयनिबिडे पीडागाढे भयावहदुःसहे
विरहविरसे लज्जापुञ्ज रमे भवपञ्जरे । निरयकुहरंगामी हाहं न सिद्धिमहापुरी
सरलसरणिं सेवे मूढो गिरं तव वीर हे ।। २७ ।। निरीहं गन्तारं परमभुवि मन्तारमखिलं ,
निहन्तारं होलाकलिकलहकेलीसारमा भवन्तं नन्तारो नहि खलु निमज्जन्ति भवभी___ महापारावारे मरणभयकल्लोलकलिले ॥ २८ ।। एवं सेवापरिहरिया ) लोलचूलामणीद्ध___ च्छायालीढं खरकिरणभाभिन्नमम्भोरुहं वा । चित्तागारे चरणकमलं ते चिरं धारिणो मे
सिद्धावासं बहुभवभयारम्भरीणाय देहि ॥ २९ ॥ इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवा
नाशंसे जिनवीर नेन्द्रपदवीं न प्राज्यराज्यश्रियम् । लीलाभाजि न वल्लभप्रणयिनीवृन्दानि कि त्वर्थये
नाथेदं प्रथय प्रसादविशदां दृष्टिं दयालो मयि ॥ ३० ॥ इति श्रीजिनवल्लभसूरिप्रणीतं समसंस्कृतप्राकृतं श्रीमहावीरखामिस्तोत्रम् ।
-
१. जिनवल्लमेति ग्रन्थकर्तुर्नामापि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org