SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिजिनस्तवः । स्फूर्जत्वेका तु भक्तिस्तव मम मनसि ध्वस्ताखिलमला कैवल्यश्रीर्यया स्यात्करतलनिलया साहाय भगवन् ॥ २४ ॥ श्रीवीरः सर्वदिक्कैः कनकरुचितनूरोचिरुद्दीप्तदीपै- मङ्गल्यः सोऽस्तु दीपोत्सव इव जगदानन्दसंदर्भकन्दः । सूक्तिर्जेनप्रभीयं मृदुविशदपदा स्रग्धराधीयमाना भव्यानां भव्यभूत्यै भवतु भवतुदे भावनाभावितानाम् ॥ १५ ॥ इति श्रीजिनप्रभसूरिविरचितो वीरस्तवः । श्रीजिनप्रभसूरिविरचितः चतुर्विशतिजिनस्तवः । कनककान्तिधनुःशतपञ्चकोच्छूितवृषाङ्कितदेहमुपास्महे । रतिपतेर्जयिनं प्रथमं जिनं नृवृषभं वृषभं वृषभञ्जिनः ॥ १॥ द्विरदलाञ्छित वाञ्छितदायक कमलुठत्रिदशासुरनायक । स्तुतिपरः पुरुषो भवति क्षितावजित राजितरा जितरागते ॥ २ ॥ तुरगलाञ्छन संभव संभवत्वहरिदं जिन यत्र रसादहम् । हृदि दधे भणितीर्गुणभूरुहां शमहिता महितामहि तावकीः ।। ३ ॥ भवमहार्णवनिस्तरणेच्छया त्वमभिनन्दन देव निषेव्यसे । व्रतभृतां कुगतेः स्मरनिग्रहप्रसभया सभया सभयात्मना ॥ ४ ॥ त्रिभुवनामित कामितपूरणे सुरतरोरुपमामतिगामुकौ । तव विभो भजते भवतः क्रमावसुमते सुमते सुमतेर्दद ॥ ५॥ धरनृपात्मज षष्ठजिनेश्वर त्वयि कृतप्रणयः क्रियते पतिः । रभसतः प्रथितार्थि......तोपरमया रमयारमयान्वितः ॥ ६॥ प्रभुसुपार्थ जगत्रितयाज्जनुःपवितकाशिपुरीक विलक्षण । सुकृतिनः कृतिनश्चरितं विदुः सुभवतो भवतोदनम् ॥ ७ ॥ कुनयकाननभञ्जनकुञ्जराः शशिरुचे महसेनसुत प्रभो । निखिलजीवनिकायहितोक्तिभिः शुभवदाभवदाभवदागमाः ॥ ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy