________________
काव्यमाला।
सा जिनश्रेणी मम मतिं दद्यात् । अस्तमुद्रा मुक्तप्रमाणा । गता प्राप्ता अमरसभा देवपर्षद्यां जिनपझिं अध्यगात्प्राप्तवती । आद्यां प्रथमाम् । किंभूता । असुरमध्यगा असुरमध्ये गच्छ तीति । किं कुर्वती । रत्नांशुभिर्भूषणमणिकान्तिभिर्गगनमध्यं उद्भतरागं यत्तामरसं पद्मं तद्वद्भासुरं कुर्वाणा ॥
श्रान्तिच्छिदं जिनवरागममाश्रयार्थ
माराम मा नम लसन्तमसंगमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्त
माराममानमलसंतमसं गमानाम् ॥ २३ ॥ हे लोक, जिनेन्द्रागममानम । किंभूतम् । श्रमभेदकम् । आश्रयहेतोराराममिवारामम् । लसन्तं शोभमानम् । केषाम् । असंगमानाम् । निःसङ्गानां मुनीनामित्यर्थः । अग्रिमं प्रकृष्टं धाम गृहम् । केषाम् । गमानां सदृशपाठानाम् । संसारसमुद्रसेतुम् । अस्ताः कामरोगाहंकारपापाज्ञानानि येन ॥
गान्धारि वज्रमुसले जयतः समीर
पातालसत्कुवलयावलिनीलमे ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध
पातालसत्कुवलया बलिनी लभेते ॥ २४ ॥ हे गान्धारि देवि, ते वज्रमुसले आयुधे जयतः । किंभूते । वातप्रेङ्खोलनेनालसन्ती या कुवलयमाला तद्वन्नीला भा कान्तिर्ययोः। ये वज्रमुसले कीर्तीर्यशांसि लमेते। किंभूते । तव हस्तस्नेहले । बलिनी बलवती । कीर्तीः किंभूताः। निरुद्धमावृतं पातालं सत्पृथ्वीवलयं च याभिः ॥
कृतनति कृतवान्यो जन्तुजातं निरस्त
स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व
स्मर परमदमाया मानवाधाय शस्तम् ॥ २५॥ यः खामी जन्तुजातं कृतप्रणामं विहितवान् । किंभूतम् । निरस्तानि कंदर्पवैरिमदमायामानपीडायशांसि येन तम् । तं सुपार्श्व देवं हे मानव नर, त्वं स्मर । किं कृत्वा । निश्चलत्वमाधाय । कस्याः । चित्तवृत्तेर्मनोव्यापारस्य । सुचिरं प्रभूतकालम् । परमो दमो यस्याः । शस्तं शोभनम् ॥
व्रजतु जिनततिः सा गोचरं चित्तवृत्तेः
सदमरसहिताया वोऽधिका मानवानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org