SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिजिनस्तुतिः। पदमुपरि दधाना वारिजानां व्यहार्षी त्सदमरसहिता या बोधिकामा नवानाम् ॥ २६ ॥ सा जिनानां ततिर्यो युष्माकं मनोवृत्तेर्गोचरं व्रजतु गच्छतु । किंभूतायाः । सह दमरसेन वर्तन्ते ये तेषां हितायाः । जिनततिः किंभूता । मानवानां नराणामधिका उत्कृष्टा । या जिनश्रेणिर्व्यहार्षीद्विहारं कृतवती । किंभूता । नवानां नवसंख्यानां नूतनानां वारिजानां वर्णकमलानामुपरिष्टात्पदं स्थापयन्ती । सद्देवयुक्ता । बोधिकामा खयमवाप्तबोधित्वात्परेषां बोधिधर्मप्राप्तिस्तत्र कामो यस्याः सा ॥ दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदारं काममायामहारि । जननमरणरीणान्वासयन्सिद्धवासे ऽरुजि नमत मुदारं काममायामहारि ॥ २७ ॥ हे जनाः, जिनमतं नमत प्रणमत । किंभूतम् । उरु प्रौढं प्रशमसुखं ददत् । केषाम् । संयतानां मुनीनाम् । सदैव सर्वदा । उदारमुदात्तम् । काममत्यर्थमायामहारि दैर्घ्यशोभि अरुजि रोगरहिते सिद्धवासे वासं कारयन् । कान् । जन्ममरणखिन्नान् । मुदा हर्षेण । अरं शीघ्रम् । काममाययोर्महारि महावैरिभूतम् ॥ दधति रविसपलं रत्नमाभास्तभाव नवघनतरवारिं वा रणारावरीणाम् । गतवति विकरत्याली महामानसीष्टा नव घनतरवारिं वारणारावरीणाम् ॥ २८ ।। हे महामानसि देवि, इष्टानभिमतानरादीन् अव रक्ष । हे गतवति प्रापुषि। कस्मिन्वारणारौ सिंहे। हे दधति धारयन्ति । किम् । रत्नं मणिम् । किंभूतम् । रविसपत्नं रविप्रतिपक्षं प्रभाधिक्यात् । आभया कान्या अस्तो भावान्सूर्यो येन स चासौ नवो नूतनो घनो निबिडस्तरवारिः खड्गश्च तम् । वा समुच्चये । सिंहे किं कुर्वति । अरीणां वैरिणामाली श्रेणिं विकिरति क्षिपति । किंभूतामालीम् । रणस्यारावेण रीणां क्षीणाम् । खङ्गं किंभूतम् । घनतरवारिं सान्द्रतरपानीयम् । रत्नविशेषणं वा ॥ तुभ्यं चन्द्रप्रभ जिन नमस्तामसोज्जृम्भितानां ____ हाने कान्तानलसम दयावन्दितायासमान । विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतू. हानेकान्तानलसमदया वन्दितायासमान ॥ २९ ॥ हे चन्द्रप्रभ जिन, हे दयावन्, तुभ्यं नमोऽस्तु । तमःसंबन्धिविस्फूर्जितानां हाने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy