________________
काव्यमाला। त्यागे मनोहरवह्निसमान । दितौ छिन्नावायासमानौ येन । तुभ्यं किंभूताया। विद्वत्पलया चन्दिताय । प्रकटिताः पृथवो वितताः स्पष्टा दृष्टान्ता निदर्शनानि हेतवः करणानि ऊहो वितर्कः अनेकान्तः स्याद्वादो येन तत्संबोधनम् विद्वत्पतया किंभूतया । न विद्यते अलसमदौ तन्द्राहंकारौ यस्यास्तया । हे असमान निरुपमान ॥
जीयाद्राजिर्जनितजननज्यानिहानिर्जिनानां . सत्यागारं जयदमितरुक्सारविन्दावतारम् । भव्योद्धृत्या भुवि कृतवती या वहद्धर्मचक्रं
सत्यागा रञ्जयदमितरुक्सा रविं दावतारम् ॥ ३० ॥ जिनानां राजिर्जयतात् । किंभूता । विहितजराजन्मक्षया । सत्यस्यागारं गृहम् । जयदमभ्युदयावहम् । इतरुग्गतरोगा । सारविन्दा सहारविन्दैः पदाधस्तनैः पूजाकमलैवर्तते या । या भव्योत्या भव्यानामुद्धातिर्भवोत्ताररूपा तया हेतुभूतया भुवि पृथिव्यामवतारं कृतवती । या धर्मचक्रमवहदुवाह । सत्यागा सदाना । धर्मचक्रं कथंभूतम् । रजयद्रक्तीकुर्वन् । रविं सूर्यम् । दावतारं दावोज्वलम् । अमिता अप्रमाणा रुकान्तिर्यस्य ॥
सिद्धान्तस्तादहितहतयेऽख्यापयद्यं जिनेन्द्रः __ सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलकैर्य च मोदाद्विहायः
सद्राजीवः सकविधिषणापादनेकोपमानः ॥ ३१ ॥ स सिद्धान्तो वो युष्माकमहितक्षयाय भूयात् । यं सिद्धान्तं सन्ति शोभनानि कमलानि यस्य स जिनेन्द्रः प्रधानकमलोऽख्यापयदूचिवान् । कवयः शास्त्रज्ञास्तेषां बुद्धिजनने दक्षो विचक्षणः। न विद्यते कोपमानौ यस्य यत्र वा । विहायःसदो देवास्तेषां राजी श्रेणिः कर्णचुलकैः श्रोत्राञ्जलिभिर्मोदाद्धर्षाचं च सिद्धान्तमपात् पीतवती । श्रेणी किंभूता । सह कविधिषणाभ्यां शुक्रगुरुभ्यां वर्तते या । अनेकानि चन्द्रसमुद्रादीन्युपमा. नानि यस्याः । प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि 'सद्राजीवः' इति मुक्खा ॥
वज्राङ्कुश्यङ्कुशकुलिशभृत्त्वं विधत्व प्रयत्न
खायत्यागे तनुमदवने हेमतारासिमत्ते । अध्यारूढे शशधरकरश्वेतभासि द्विपेन्द्रे
खायत्यागेऽतनुमदवने हेऽमतारातिमत्ते ॥ ३२ ॥ हे वज्राङ्कुशि देवि, तनुमदवने , जन्तुरक्षणे प्रयत्नं विधेहि । हे., सृणिवज्रधारिणि । स्वायत्यागे शोभन आयोऽर्थागमो दानं च यस्याः । त्वं कथंभूता । हेमतारा कनको.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org