________________
चतुर्विंशतिजिनस्तुतिः ।
१४१ ज्ज्वला । हे अध्यारूढे । क्व । द्विपेन्द्रे । किंभूते । अतिमत्ते मदोद्धते । चन्द्रकरा इव श्वेता भा यस्य तस्मिन् । स्वायत्या निजायामेन अगे पर्वत इव । अतनु प्रचुरं मदवनं मदवारि यस्म तस्मिन् । अरातिर्वैरी सोऽस्यास्तीत्यरातिमान् तस्य भावोऽरातिमत्ता सा न मता यस्यास्तस्याः संबोधनम् ॥ .. तवाभिवृद्धिं सुविधिविधेयात्स भासुरालीनतपा दयावन् ।
यो योगिपतया प्रणतो नभःसत्सभासुरालीनतपादयावन् ॥ ३३ ॥ स सुविधिर्जिनो हे दयावन् जन, तव समृद्धिं कियात् । भासुरं घोरमालीनमाश्रितं तपोऽनशनादिरूपं यस्य सः । यः स्वामी अवन्रक्षन् योगिवृन्देन प्रकर्षेण नतः । योगिपङ्कया कथंभूतया । नभःसदो देवास्तेषां सभा पर्षत् असुरावली असुरश्रेणिश्च ताभ्यां नतौ पादौ यस्यास्तया ॥
या जन्तुजाताय हितानि राजी सारा जिनानामलपद्ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥ ३४ ॥
या सारा श्रेष्ठा जिनानां ततिर्जन्तुजाताय हितानि अलपत् गदितवती सा मम अल. मत्यर्थ मुदं प्रीतिं दिश्याद्दद्यात् । कथंभूता । पादयुग्मं धारयन्ती । राजिनी राजन. शीलाः नाना बहुविधाः अमलाः पद्ममाला यस्य तत्पादयुगम् ॥ .
जिनेन्द्र भङ्गैः प्रसभं गभीराशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ॥ ३५ ॥
हे जिनेन्द्र, तव भारती मम शर्म सुखं देयात् । किंभूता । भङ्गैरर्थविकल्पैर्गभीरा तथा आशु शीघ्रं तमोऽज्ञानं निर्नाशयन्ती । केन । शस्यतमश्चारुतमो यः स्तवस्तेन हेतुभूतेन शुभा प्रकृष्टा । तव कीदृशस्य । अरतीशस्याकामस्य । हे इन खामिन् । दिव्यात्तवाशु ज्वलनायुधासमध्या सिता कं प्रवरालकस्य ।
अस्तेन्दुरास्यस्य रुचोरुपृष्ठमध्यासिताकम्प्रवरालकस्य ॥ ३६॥ तव ज्वलनायुधा देवी के सुखं दिशात्करोतु । किंभूता । अल्पं तुच्छं मध्यं मध्यभागो यस्याः सा । कृशोदरीत्यर्थः । सिता शुभ्रा । प्रवरालकस्य प्रवरकुन्तलस्य । अस्ते. न्दुयकृतमृगाङ्का । कया। आस्यस्य मुखस्य रुचा कान्या । उरु विस्तीर्ण पृष्ठमध्या. सिताध्यारूढा कस्य । अकम्प्रः स्थिरो यो वरालको देववाहनविशेषस्तस्य ॥
जयति शीतलतीर्थकृतः सदा चलनतमरसं सदलं धनम् । नवकमम्बुरुहां पथि संस्पृशच्चलनतामरसंसदलङ्घनम् ॥ ३७ ॥ शीतलतीर्थकरस्य चलनतामरसं पादपद्मं जयति । किंभूतम् । अम्बुरुहां कमलानां नवकं पथि मार्गे संस्पृशत् । नवकं किंभूतम् । सदलं सपत्रम् । घनं सारम् । जलनतामरसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org