________________
१४२
काव्यमाला |
किभूतम् । चला नता च अमराणां संसद् यस्य तत् । नास्ति लङ्घनमधःकरणं कुतश्चिद्यस्य तदलङ्घम् ॥
स्मर जिनान्परिनुन्नजरारजोजननतानवतोदयमानतः ।
परमनिर्वृतिशर्मकृतो यतो जन नतानवतोऽदयमानतः ॥ ३८ ॥
हे जन, भव्यलोक, अतोऽस्मात्कारणाज्जिनान् स्मर । किंविशिष्टान् । परिनुन्ना परि क्षिप्ता जरा वयोहानिरूपा, रजः कर्म, जननं जन्म, तनोर्बुर्बलस्य भावस्तानवं कार्यम्, तोदो बाधा, यमो मृत्युर्यैस्तान् । यतः कारणात् परममुक्तिसुखकर्तृन् । नहि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः । नतान् जन्तूनवतो रक्षतः । अदयं शरीरावयवनिरपेक्षं यथा स्यात्तथा अनतः प्रणतः सन् त्वम् ॥
जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा ।
प्रथितमत्र जिनेन मनीषिणामतमसा रतरागमदारिणा ॥ ३९ ॥
जिनेन मनीषिणां गणभृतां प्रथितं प्रोक्तं मतं जयति । किंभूतम् । कल्पिता समर्पिता सकलमनोरथ पूरणात्कल्पतरुणा उपमा साम्यं यस्य तत् । असारतरान्मिथ्यारूपानागमान् दृणातीत्येवंशीलः | जिनविशेषणमिदम् । पुनः किंभूतेन । अतमसा अज्ञानरहितेन । रते मैथुने रागो रतरागः । मदश्च जात्याद्युत्थोऽमिनिवेशः । यद्वा रतं मैथुनम्, रागो द्रव्यादावभिलाषः, मदः पूर्वोक्त एव तेषामरिणा वैरिणा ॥
धनरुचिर्जयताद्भुवि मानवी गुरुतरा विहतामरसंगता ।
कृतकरास्त्रवरे फलपत्रभागुरुतराविद्दतामरसं गता ॥ ४० ॥
मानवी देवी जयतात् । किंभूता । घना सान्द्रा रुचिः कान्तिर्यस्याः सा । गुरुतरा अतिमहान्तोऽविहता अपरिक्षता येऽमरास्तैः संगता सहिता । अनवरे प्रधानायुधे कृतपाणिः । फलपत्रे भजते फलपत्रभाकू । तरोर्विशेषणमेतत् । स चासौ उरुतरुश्च विशालद्रुमश्च तत्र । तामरसं पद्मं गता प्राप्ता ॥
कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् ।
प्रणमततमां द्राक्श्रेयांसं न चाहृत यन्मनः
कमलसदृशाङ्गी तारा वाबला दयितापि तम् ॥ ४१ ॥ अलसदृशामलसेक्षणानां स्त्रीणां नृणां वा गीतारावा गीतध्वनयो यस्माज्जिनात्क - मन्यं जनं मोहवशवर्तिनं न व्यधुः । अपि तु सर्वमप्यकार्षुः । किंविशिष्टम् । बलात्प्रसभम् । अयि संबोधने | तापितं पीडितम् । केन । कुसुमधनुषा कामेन । हे जनाः, तं श्रेयांसं प्रणमततमाम् । द्राक शीघ्रम् । अबला स्त्री दयितापि कान्तापि यन्मनो यन्मा१. 'मानसी' इति पुस्तकान्तरे पाठः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org