SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिजिनस्तुतिः। विधुतारा है जिनाः, हितं तनुत कुरुत । विधुतमारमरीणां समूहोऽरणं वा अरो भ्रमणमर्थात्संसारो यैस्ते । तथा विधुश्चन्द्रस्तद्वदुज्वलाः । सदानाः सत्यागाः । जितमघातं घातवर्जितमधं पापं यैस्ते । अपगतमहातापाः । आहितो विस्तीर्णो मानवानां नवविभवो नवः प्रत्यग्रो विभव ऐश्वर्यं यैस्ते । तथा विगतसंसाराः ॥ मतिमति जिनराजि नराहितेहिते रुचितरुचि तमोहे मोहे । मतमत नूनं नूनं स्मरास्मराधीरधीरसुमतः सुमतः ॥ १९ ॥ जिनराजि सर्वज्ञे, मतं त्वं स्मरेति संबन्धः । किंभूते । मतिमति सातिशयज्ञानयुक्ते । नराणामाहितं पूरितमीहितं वाञ्छितं येन तस्मिन् । रुचिता परेषां प्रमोदकारित्वादभीष्टा रुकान्तिर्यस्य तस्मिन् । तमोहे अज्ञानघातिनि । मोहे ममत्वमुक्ते । मतं किंभूतम् । तनुतुच्छमूनमपूर्णं च तनूनं न एवंविधमतनूनम् । नूनं निश्चितम् । न स्मरेणाधीरा धीर्यस्य सः । असुमतः प्राणिनः । जातावेकत्वम् । सुमतो रक्षाक्रियायां सुष्टु अभिप्रेतः ॥ नगदामानगदा मामहो महो राजिराजितरसा तरसा । घनघनकाली काली बतावतादूनदूनसत्रासत्रा ॥ २० ॥ __ अहो इति संबोधने विस्मये वा । काली देवी मामवताद्रक्षतात् । किंभूता । नगदा 'दो अवच्छेदने' इति धातोः पर्वतमेत्री अमाना अप्रमाणा गदा प्रहरणविशेषो यस्याः सा। कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा । तरसा बलेन शीघ्रं वा । घनो मेघस्तद्वद्धनकाली प्रभूतकालवर्णा । बतेति विस्मये । ऊना अपूर्णाः । दूना विपक्षैः । सत्रासाः सभयास्तांस्त्रायते रक्षति या ॥ पादद्वयी दलितपद्ममृदुः प्रमोद- मुन्मुद्रतामरसदामलतान्तपात्री । पाझप्रभी प्रविदधातु सतां वितीर्ण मुन्मुद्रतामरसदा मलतान्तपात्री ॥ २१ ॥ पद्मप्रभसंबन्धिनी पादद्वयी प्रमोदं प्रविदधातु । किंभूता । दलितं विकसितं यदजं तद्वत्कोमला । उन्मुद्राणि विकसितानि तामरसदामानि कमलमाला लतान्तानि कुसुमानि तेषां पात्रीव पात्री भाजनम् । यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासामन्तपानी समीपभाजनम् । सतां वितीर्णमुद्दत्तप्रीतिः । मुदि. मुदा वा रता अमरसदा देवसभा यस्याः सा । मलेन कर्मणा तान्तान्ग्लानान्पातीति मलतान्तपात्री ॥ सा मे मतिं वितनुताजिनपतिरस्त मुद्रा गतामरसभासुरमध्यगाद्याम् । रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसमासुरमध्यगाद्याम् ॥ २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy