________________
काव्यमाला।
नन्दितानि असुरवधूनयनानि येन सः । तथा परेभ्यो मोदं राति ददाति यः । यद्वा परमुदरं यस्य । हे सुरव, जगदाह्लादिखात्.......... । परमः प्रधानोऽदरो निर्भयश्च ॥ जिनवराः प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः ॥ १४ ॥ हे जिनवराः, मम तमोहरणायाज्ञानापगाय यूयं प्रयतध्वं प्रयत्नं कुरुध्वम् । किंभूताः । इतामया गतयोगाः । पुनः किंभूताः । महान्ति अरीणि चक्राणि धर्मचक्रलक्षणानि येषां ते । किं कुर्वाणाः । दधानाः पृथिव्यां विष्टपजनहितत्वम् । अमतावनभिप्रेतौ मोहसङ्ग्रामौ येषां ते । यमहारिणो मृत्युहरणशीलाः । यद्वा यमानि महाव्रतानि तैमनोहराः ॥
असुमतां मृतिजात्यहिताय यो जिनवरागम नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धताजिनवरागमनोभवमाय तम् ॥ १५ ॥ यो भवोऽसुमतां मृतिजाती मरणजन्मनी ते एवाहितमपथ्यं तस्मै मरणजन्माहिताय स्यात् । हे जिनेन्द्रसिद्धान्त, नोऽस्माकं तं भवं संसारमायतं प्रबलं लघीयस्त्वं प्रापय । आजिः सङ्ग्रामः नवरागो द्रव्यादौ नूतनोऽभिलाषः । यद्वा उद्धताजौ नवरागो यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन । यद्वा मुक्तसङ्ग्रामनूतनरागकाममाय ॥
विशिखशङ्खजुषा धनुषास्तसत्सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा ॥ १६ ॥ धनुषा मण्डितहस्तां रोहिणी देवी नम । किंभूतेन । शरशङ्खसहितेन । अस्ता ध्वस्ता सत्सुराणां प्रकृष्टदेवानां भीर्येन । तताः प्रसृता नुन्नाः प्रेरिता महान्तोऽरयो येन । परिगतां परिवारिताम् । विशदां शुक्लवर्णाम् । इहात्र जगति रोहिणी रोहिण्यभिधानाम् । सुरभिर्गौस्तत्र याता प्राप्ता तनुर्यस्यास्तां देवीं नम प्रणिपत । धनुषा किंभूतेन । हारिणा मनोहरेण ॥
मदमदनरहित नरहित सुमते सुमतेन कनकतारेतारे । दम दमपालय पालय दरादरातिक्षतिक्षतातः पातः ॥ १७ ॥ हे मदकामाभ्यां त्यक्त, हे नरेभ्यो हित, हे सुमतिजिन, दमदं प्रशमदं नरं दरादिहलोकादिभेदभिन्नसाध्वसापालय रक्ष । हे सुमतेन सुसिद्धान्तस्वामिन् । यद्वा सुमतेन करणभूतेन । हे अपालय अपगतनिलय । हे कनकतार तपनीयोज्वल । हे इतारे गतशात्रव । हे पातस्त्रायक । अरातिक्षतिः शत्रुभ्य उपमर्दः सैव रौद्रात्मकलात्क्षपा रात्रिस्तस्याः॥
विधुतारा विधुतारा सदाः सदाना जिना जिताघाताधाः । तनुतापातनुतापा हितमाहितमानवनवविभवा विभवाः ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org