________________
चतुर्विंशतिजिनस्तुतिः ।
निर्भिन्नशत्रुभवभय शं भवकान्तारतार तार ममारम् ।
वितर त्रातजगत्रय शंभव कान्तारतारतारममारम् ॥ ९ ॥
हे निर्भिन्नशत्रुसंभूतभय, हे संसारकान्तारतारक, हे तार उज्ज्वल, अरं शीघ्रं मम शं सुखं देहि । हे रक्षितजगत्रय, शंभव जिन, योषित्सुरतेष्वरत अनासक्त, न रमत इत्यरमोsरममाणोऽक्रीडन्मारः कामो यत्र ॥
आश्रयतु तव प्रणतं विभया परमा रमारमानमदमरैः ।
स्तुत रहित जिनकदम्बक विभयापरमार मारमानमदमरैः ॥ १० ॥
है जिनकदम्बक जिनसमूह, रमा लक्ष्मीस्तव प्रणतं नरमाश्रयतु । किंभूता । विभया रोचिषा परमा प्रकृष्टा । अरं शीघ्रमानमन्तश्च ते सुराश्च तैः स्तुत वन्दित । हे विगतभय । हे न परान्मारयतीत्यपरमार सर्वजन्तुरक्षक । हे रहित व्यक्त | कैः काममानमदमरणैः
: ॥
जिनराज्या रचितं स्तादसमाननयानया नयायतमानम् ।
शिवशर्मणे मतं दधदसमाननयानयानया यतमानम् ॥ ११ ॥
जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुक्तत्वात्कृतं मतं शासनं नोऽस्माकं शिवसुखाय स्तात् भूयात् । किंभूतया । असमे निरुपमे आननयाने मुखगमने यस्यास्तया नः इत्यत्र 'रोर्यः' इति रस्य यः । ' खरे वा' इति विकल्पत्वात्तस्यात्र न लुक् । आयतो विपुलो मानः पूजा प्रमाणं वा यस्य तत्तथा । दधत् धारयत् । कान् । असमाननयान् असदृशनयान् । किंभूतया जिनराज्या । अयानया अवाहनया । मतं किंभूतम् । यतमानं प्रयत्नं कुर्वाणम् ॥
शृङ्खलभृत्कनकनिभा यातामसमानमान मानवमहिताम् ।
श्रीवज्रशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ १२ ॥
या देवी शृङ्खलाभरणभृत्सुवर्णवर्णा चास्ति तां श्रीवज्रशङ्खलां वज्रशृङ्खलाभिधानामानम । किंभूताम् । असमानोऽसाधारणो मानः पूजा बोधो वा येषाम् । अथवा असदृशौ अनमानौ प्राणाहंकारौ येषां ते असमानमानाः । ते च मानवाश्च तैर्महिता पूजिता ताम् । कजयातां पङ्कजगताम् । असमानं निरहंकारं यथा स्यात् एवमानम नमस्कुरु । अवमं पापं तन्न विद्यते येषां तेऽनवमास्तेभ्यो हिताम् ॥
त्वमशुभान्यभिनन्दन नन्दितासुरवधूनयनः परमोदरः । स्मरकरीन्द्रविदारणकेसरिन्सुरव धूनय नः परमोदरः ॥ १३ ॥
१३५
हे अभिनन्दन जिन, त्वमशुभान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय कम्पय विनाशय । किंभूतः । नन्दिता असवः प्राणाः प्राणिनां येन । अथवा धर्मधर्मिणोः कथंचिदमेदादसुशब्देना सुमन्त एवोच्यन्ते । तथा न वधूषु नयने यस्य स तथा । यद्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org