________________
१३४
काव्यमाला।
यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसंबन्धिनी आली श्रेणिर्गन्धाट्यकिंजल्कबिन्दूनदधत्पपौ। किंभूता । केसरेषु लालसा लम्पटा । समुदिता मिलिता । आशु शीघ्रम् । इभेषु मदलोल्यादासिता विश्रब्धा । तत्र नालीके क्रमौ निदधती श्रुतदेवता वः पातु । किंभूता । समुदिता सहर्षा । शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभिः शोभिता । (सरला अलसा च ) ॥
तमजितमभिनौमि यो विराजद्वनधनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरु परागमस्तकान्तम् ॥ ५ ॥
यः खामी निजजन्मोत्सवेऽधितष्ठौ । किं कर्म । विराजद्भिर्वनैर्घनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखरामम् । किंभूतम् । अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा । किंभूतं शिखराग्रम् । अस्तोऽस्तगिरितद्वत्कान्तं कमनीयम् । अथवा जिनविशेषणम् । अस्ता कान्ता येन तम् ॥
स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणवस्तुवन्ति ॥ ६ ॥ हे लोकाः, तं जिनवृन्दं स्तुत । यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः । किं कृत्वा । अल् पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदो मार्गहृदः सुरामः सुष्टु रमणीयो यो रवः शब्दस्तेन करणभूतेन । वस्तुवन्ति च्छन्दोजातिविशेषवन्ति गीतानि प्रगाय गीला । किंभूताः । पार्श्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा । 'व्यत्यये(१) लुग्वा' इति रेफस्य लुकू ॥
प्रवितर वसतिं त्रिलोकबन्धो गम नययोगततान्तिमे पदे हे । जिनमत विततापवर्गवीथीगमनययो गततान्ति मेऽपदेहे ॥ ७ ॥
अन्तिमे मोक्षलक्षणे पदे हे जिनमत । मे मम वासं देहि । हे गम हे सदृशपाठ, नया निगमादयस्तैर्योगः संबन्धस्तेन विस्तीर्ण विपुलशिवमार्गगमने ययो अश्व । 'ययुर. श्वोऽश्वमेधीयः' इति वचनात् । 'तमोऽवग्लानौ' इति धातोस्तान्तिानिः । आपदि. त्यर्थः । गततान्ति अपगतग्लानि यथा स्यात् । किंभूते पदे । अपदेहे देहमुक्त ॥
सितशकुनिगताशु मानसीद्धात्तततिमिरंमदमा सुराजिताशम् । वितरतु दधती पविं क्षतोद्यत्तततिमिरं मदभासुराजिता शम् ॥ ८ ॥ हंसारूढा मानसी देवी पविं वज्रं दधती शं सुखं प्रवितरतु । पविं किंभूतम् । इद्धा दीप्ता आत्ता गृहीता ततिविस्तारो येन तत्तथा । इरंमदो जलदाग्निस्तद्वत्कान्तिर्यस्याः सा मुष्ठ शोभिता आशा दियो येन । क्षतं विनमुद्यच्छत्ततं विस्तीर्ण चान्तं यस्मातत्तथा । देवी दर्पोद्धरैरपराभूता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org