________________
काव्यमाला ।
तुल्या भवन्ति भवतो ननु तेन किं वा ___ भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥ दृष्ट्वा भवन्तमनिमेषविलोकनीयं
नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः
क्षारं जलं जलनिधे रसितुं क इच्छेत् ॥ ११ ॥ यैः शान्तरागरुचिभिः परमाणुभिस्त्वं
निर्मापितस्त्रिभुवनैकललामभूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां __ यत्ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ वकं क ते सुरनरोरगनेत्रहारि
निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क निशाकरस्य __ यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ संपूर्णमण्डलशशाङ्ककलाकलाप
शुभ्रा गुणास्त्रिभुवनं तव लश्यन्ति । .. ये संश्रितास्त्रिजगदीश्वरनाथमेकं
कस्तान्निवारयति संचरतो यथेष्टम् ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन
किं मैन्दरादिशिखरं चलितं कदाचित् ॥ १५॥ निर्धूमवर्तिरपवर्जिततैलपूरः __ कृत्लं जगत्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां
दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥ १६ ॥ १. 'मन्दरो मेरुः । युगान्ते सर्वपर्वतानां क्षोभो भवति न तु मेरोः' इति टीकाकृतः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org