________________
भक्तामरस्तोत्रम् ।
वक्तुं गुणान्गुणसमुद्र शशाङ्ककान्ता
न्कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । कल्पान्तकालपवनोद्धतनक्रचक्र
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥ ४ ॥ सोऽहं तथापि तव भक्तिवशान्मुनीश
कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्र
नाभ्येति किं निजशिशोः परिपालनार्थम् ॥ ५॥ अल्पश्रुतं श्रुतवतां परिहासधाम
त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधौ मधुरं विरौति
तच्चारुचूतकलिकानिकरैकहेतु ॥ ६ ॥ त्वत्संस्तवेन भवसंततिसंनिबद्धं
पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु
सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ मत्त्वेति नाथ तव संस्तवनं मयेद___ मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८॥ आस्तां तव स्तवनमस्तसमस्तदोषं __ त्वत्संकथापि जगतां दुरितानि हन्ति । “ दूरे सहस्रकिरणः कुरुते प्रभैव
पद्माकरेषु जलजानि विकासमाञ्जि ॥ ९ ॥ नात्यद्भुतं भुवनभूषणभूत नाथ
भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org