SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । यः संस्तुतः सकलवाङ्मयतत्त्वबोधा दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ (युग्मम् ) बुद्ध्या विनापि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् ।। बालं विहाय जलसंस्थितमिन्दुबिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३ ॥ तेभ्यः श्लोकेभ्यस्तेषां मन्त्राणामुद्धारो दुष्कर एव. अस्माभिस्तु टीकाचतुष्कमुपलब्धम्-तत्र (१) श्वेताम्बरेण गुणचन्द्रसूरिशिष्यगुणाकरेण प्रणीता टीका समीचीना. अस्यां चतुश्चत्वारिंशत्पद्यानि व्याख्यातानि. प्रायः पद्यानन्तरं मन्त्रस्तत्प्रभावकथा च वर्णितास्ति. टीकानिर्माणसमयस्तु समाप्तौ ‘वर्षे षड्विंशाधिकचतुर्दशशतीमिते (१४२६) च वर्षौं । मासि नभस्ये रचिता सरखतीपत्तने विवृतिः ॥' इत्थमुक्तः नागार्जुनप्रणीतयोगरत्नावल्याष्टीकाकारो गुणाकरस्वस्माद्भिन्नः यतस्तट्टीकान्ते श्रीमन्नुपविक्रमतो द्वादशनवषड्भिरंङ्किते ( १२९६) वर्षे । रचिता गुणाकरेण श्वेताम्बरभिक्षुणा विवृतिः ॥' इति टीकानिर्माणकालो वर्तते. (२) तपागच्छीयहीरविजयसूरिशिष्यकनककुशलप्रणीता टीका संक्षिप्ता उपोद्घातप्रभावकथाभी रहिता च. अत्रापि चतुश्चवारिंशत्पद्यान्येव व्याख्यातानि. समाप्तौ च 'श्रीमत्तपगणगगनाङ्गणदिनमणिहीरविजयसूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन ॥ नयनशररसेन्दु (१६५२)-' मिते वर्षे सुविराटनाम्नि वरनगरे । बालजनविबोधार्थ विजयदशम्यां हि सुसमाप्ता ॥' एतदार्यायुग्मं वर्तते. (३) इयं टीका कर्तृनामरहिता सामान्या उपोद्घातमात्रसमेता वर्तते. एतत्प्रणेतापि कश्चन श्वेताम्बर एव प्रतीयते. यतोऽनेन मानतुङ्गाचार्यों बृहद्च्छाधीशः श्वेताम्बरश्वासीदित्युक्तमस्ति. किंवयमष्टचत्वारिंशच्छोकान्व्याख्यातवानित्यस्य श्वेताम्बरले मनाक्संदेहः (४) इयं टीका १६६७ संवत्सरे दिगम्बरभट्टारकरत्नचन्द्रेण प्रणीता. अत्रापि तादृश एवोपोद्धातोऽनुष्टुप्पद्यघटितस्तादृश्य एव प्रभावकथाश्च वर्तन्ते. मानतुङ्गाचार्यों दिगम्बर आसीदित्यप्यत्रास्ति. किं तु टीकाकारः सुतरामप्रौढः एतीकाचतुष्टयमस्मभ्यं सूरतनगरवासिनास्मन्मिन्त्रेण केवलदासात्मजभगवा. नदासनेष्ठिना प्रहितम्. द्वित्राणि मूलपुस्तकानि वस्माभिर्जयपुरेऽधिगतानि. तदाधारेणास्माभिरेतत्स्तोत्रमुद्रणमारब्धमिति शुभम्. १. श्रीनाभेयमिति गुणाकरः. वृषभमिति रत्नकुशलः, श्रीआदिनाथमिति कर्तृ. नामरहितटीका. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy