________________
काव्यमाला।
सप्तमगुच्छकः। श्रीमानतुङ्गाचार्यविरचितं
भक्तामरस्तोत्रम् । भक्तामरप्रणतमौलिमणिप्रभाणा
मुद्दयोतकं दलितपापतमोवितानम् । सम्यक्प्रणम्य जिनपादयुगं युगादा
वालम्बनं भवजले पततां जनानाम् ॥ १॥ १. भक्तामरस्तोत्रप्रणेता मानतुगाचार्यों मालवदेशान्तर्गतोज्जयिनीनगर्या वृद्धभोजमहीपतिसमये बाणमयूरयोः समकालिक आसीदिति भक्तामरस्तोत्रटीकानामुपोद्धाते समुपलभ्यते. तेन ख्रिस्ताब्दीयसप्तमशतकपूर्वभागो बाणभट्टसमय एव मानतुङ्गसमय इत्यवसीयते. मेरुतुङ्गप्रणीतबन्धचिन्तामणौ तु 'अथ यदा मालमण्डले श्रीभोजराजो राज्य चकार तदात्र गुर्जरधरित्र्यां चौलुक्यचक्रवर्ती श्रीभीमः पृथिवीं शशास' इत्यस्ति. तदनन्तरं भोजसभायां बाणमयूराभ्यां सह मानतुङ्गाचार्यस्य विवादादि भक्तामरस्तोत्रनिर्माणं च वर्णितमस्ति. भीमभोजराजौ तु ख्रिस्ताब्दीयैकादशशतक आस्तामिति गुजराथदेशीयेतिहासे स्फुटमेव. स एव मानतुङ्गस्य काल इत्यपि वक्तुं शक्यते, एवं किंवदन्तीनां परस्परविसंवादे संदिग्ध एव मानतुङ्गसमयः. एतादृश्यो जनश्रुतयस्तु समयादिनिर्णये नातीवोपयुक्ता इत्यसकृदुक्तमेव. स्तोत्रं चैतद्दिगम्बरैः श्वेताम्बरैश्च श्रद्धया पठ्यते. किं तु दिगम्बरा अष्टचत्वारिंशत्पद्यघटितं श्वेताम्बराश्चतुश्चत्वारिंशत्पद्यात्मकं च पठन्ति. तत्रैकत्रिंशत्पद्यानन्तरं 'गम्भीरताररव-' इत्यादि पद्यचतुष्टयं दिगम्बरैरधिकमुद्धोष्यते. अस्माकं तु चतु. श्चलारिंशत्पद्यात्मकमेव स्तोत्रमाचार्येण प्रणीतमित्येव भाति यतो भक्तामरस्तोत्रानुकरणप्रवृत्तः सिद्धसेनदिवाकरोऽपि कल्याणमन्दिरस्तोत्रं चतुश्चत्वारिंशच्छोकैरेव निर्मितवान्. अथ च भक्तामरसमस्यापूर्तिस्तोत्रमपि चतुश्चत्वारिंशत्पद्यात्मकमेव दृश्यते. गम्भीरेत्यादि चत्वारि पद्यानि तु केनचन पण्डितंमन्येन निर्माय मणिमालायां काचशकलानीव मानतुङ्गकवितायां प्रवेशितानीत्यपि तद्विलोकनमात्रेणैव कवित्वमर्मविद्भिर्विद्वद्भिबोढुं शक्यते. टीकाश्चास्य स्तवस्य श्वेताम्बरैर्दिगम्बरैश्च निर्मिता भूयस्यो वर्तन्ते. तत्र दिगम्बरा मानतुङ्गाचार्य दिगम्बरं श्वेताम्बराश्च श्वेताम्बरं वदन्ति. उपोद्घातस्तु टीकासु प्रायः समान एव वर्तते. कैश्चन टीकाकारैः प्रतिश्लोकं मन्त्रस्तत्प्रभावकथा च लिखितास्ति. ते च मन्त्रास्तत्तत्पद्येभ्यः कथं निर्गता इति त एव जानन्ति. मन्त्रशास्त्ररीत्या तु
१ का० स० गु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org