SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५३ जिनशतकम् । निर्विघ्नान्विघ्ननिम्नानतिघनघृणया श्लाघ्यघोषानघोषा न्धोराघौधेरैनुद्धापधनसुघटिताशीघ्रमुद्धाझिपाणीन् । अर्घोपन्नान र्घान्धटयति लघिमालिङ्गितान्वोऽलधिष्ठा__ श्लाघ्यं यस्याड्रियुग्मं विघटयतु घनं सोऽघसंघातमहन् ॥ ५॥ रक्तस्त्यक्तस्मरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः । वैकुण्ठाभ्यर्चितोऽपि प्रकटमपचितः पण्डितैः खण्डितांहा स्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः स निर्ग्रन्थनाथः ॥ ६ ॥ खान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्क स्तद्धर्मध्यानधूमध्वजजवजनितात्यन्तसंतापतप्तम् । संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोज ___ यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः ॥ ७ ॥ जङ्घोद्यत्स्कन्धबुध्नोद्गतलसदरुणाभाङ्गुलीपल्लवाढ्या__ प्रेकन्तीभिर्नखार्चिर्निचयरुचिरसन्मञ्जरीभिर्युतान्वः । प्रेक्ष्य प्राप्तेप्सितार्थैर्भुवि बलवदवाक्कल्पवृक्षाः किमेवं विद्वद्भिः शङ्कयतेऽङ्गीनतुलफलयुजो यस्य सोऽर्हन्मुदेऽस्तु ॥ ८ ॥ क्षोणी क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा मोक्षक्षेत्राभिकाङ्क्षाः क्षपितशुभशताक्षेमविक्षेपदक्षाः । १. अनुद्धा अप्रशस्ता अपघना अगानि. २. प्रशस्तहस्तपादान. ३. अर्धेण पूजया आश्रितान्. : ४. पूजारहितान्. ५. भयानकभयकर्ता. भयानकभयं कृन्ततीति विरो. धपरिहारः. ६. सततं निरन्तरं गृहीतस्य वृत्तस्यैकदेशतो भङ्गोऽतिचारः स निर्गतो यस्मात्सोऽपि प्रायश्चित्तग्रहीतेति विरोधः प्रायो बाहुल्येन चित्तस्य प्रहीता आवर्जकः सततं निरतिचारश्चानतिक्रमणीयश्चति परिहारः. ७. अपचितोऽपचयं नीत इति विरोधः. अपचितः पूजित इति परिहारः. ८. निर्ग्रन्थास्तपखिनस्तषां नाथो जिनः ९. चर। णयोः कमलरूपाणि लाञ्छनानि भवन्ति. यस्य हृदयं वीतरागं चरणौ च सरागाविति तात्पर्यम्. १०. बलवदत्यर्थमवाञ्चोऽधोमुखाः कल्पवृक्षाः. ११. पूजायां बहुवचनम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy