________________
कल्याणमन्दिरस्तोत्रम् । खेन प्रपूरितजगत्रयपिण्डितेन ___ कान्तिप्रतापयशसामिव संचयेन । माणिक्यहेमरजतप्रविनिर्मितेन
सालत्रयेण भगवन्नभितो विभासि ॥ २७ ॥ दिव्यस्रजो जिन नमत्रिदशाधिपाना
मुत्सृज्य रत्नरचितानपि मौलिबन्धान् । पादौ श्रयन्ति भवतो यदि वापरत्र
त्वत्संगमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ जन्मजलधेर्विपराङ्मुखोऽपि
यत्तारयस्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पार्थिवनिपस्य सतस्तवैव
चित्रं विभो यदसि कर्मविपाकशून्यः ॥ २९ ॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं
किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथंचिदेव
ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः ॥ ३० ॥ प्राग्भारसंभृतनभांसि रजांसि रोषा
दुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तव न नाथ हता हताशो
ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यद्गर्जदूर्जितघनौघमदभ्रमीम
भ्रश्यत्तडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दभ्रे
तेनैव तस्य जिन दुस्तरवारि कृत्यम् ॥ ३२ ॥ १. प्राकारत्रयेण. २. पार्थिवश्चासौ निपो घटः. 'पार्थिवनिभस्य', 'पार्थिवभवस्य' इति च पाठः. ३. घटस्तु वह्निकृतपाकेन शून्यस्तारयितुमसमर्थो भवति. ४. तरवारि खड्गः. 'विमलतरवारिधारात्रासितराजहंसमण्डलः' इति वासवदत्ताश्लेषः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org