SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रश्नोत्तररत्नमाला | कण्ठगतैरप्यसुभिः कस्यात्मा नो समर्प्यते जातु । मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥ २० ॥ कः पूज्यः सद्वृत्तः कमधनमाचक्षते चलितवृत्तम् । केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ २१ ॥ कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय । कस्मादुद्विजितव्यं संसारारण्यतः सुधिया ॥ २२ ॥ कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥ २३ ॥ विद्युद्विलसितचपलं किं दुर्जनसंगतं युवतयश्च । कुलशैलनिष्प्रकम्पाः के कलिकालेऽपि सत्पुरुषाः ॥ २४ ॥ किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्य मौदार्यम् । तनुतरवित्तस्य तथा प्रभविष्णोर्यत् सहिष्णुत्वम् ॥ २५ ॥ चिन्तामणिरिव दुर्लभमिह किं कथयामि ननु चतुर्भद्रम् । किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ २६॥ दानं प्रियवाक्संहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ २७ ॥ इति कण्ठगता विगला प्रश्नोत्तररत्नमालिका येषाम् ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु ॥ २८ ॥ रचिता सितपटगुरुणा विमला विमलेन रत्नमालेव । प्रश्नोत्तरमालेयं कण्ठगता कं न भूषयति ॥ २९ ॥ इति श्रीविमलविरचिता प्रश्नोत्तररत्नमाला । १. 'संसारावासतः' क. २. 'दृष्टादृष्टार्थलाभाय ख. ३. हितोपदेशेऽपीर्यमार्या समुद्धृतास्ति. ४. ख- पुस्तकेऽस्या आर्यायाः स्थाने 'विवेकात्यक्तराज्येन राज्ञेयं रत्नमालिका । रचितामोघवर्षेण सुधियां सदलंकृतिः ॥ एतत्पद्यं वर्तते. I Jain Education International १२३ For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy