SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३२ काव्यमाला | महाकविशोभनमुनिप्रणीता चतुवैिशतिजिनस्तुतिः । टिप्पणसमेता । धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिनं चतुष्कभावा षण्णवति ( ? ) संख्यानां शोभन स्तुतीनामवचूरिः किंचिल्लिख्यते । तत्रादौ युगादिस्तुतिमाह - भव्याम्भोजविबोधनैकतरणे विस्तारिकर्मावली रम्भासामज नाभिनन्दन महानष्टापदाभासुरैः । भक्त्या वन्दितपादपद्म विदुषां संपादय प्रोज्झितारम्भासान जनाभिनन्दन महानष्टापदाभासुरैः ॥ १ ॥ हे नाभिनन्दन नाभिनरेन्द्रपुत्र, त्वं महानुत्सवान्विदुषां संपादयेति संबन्धः । भव्या एवाम्भोजानि कमलानि तेषां विबोधन एकोऽद्वितीयस्तरणिः सूर्यस्तस्य संबोधनं हे भव्याम्भोजविबोधनैकतरणे । सूर्यो यथा स्वगोसंभारैस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानपि मिथ्यात्वादितमस्तोमं ध्वंसयित्वा निजगोसंभारैर्भव्यजन्तूनां बोधं विधत्ते । ननु भव्यानामेव स प्रबोधं विधत्ते न त्वभव्यानां तर्हि तस्य तद्बोधनेऽसाम मायातमिति । नैवम् । नहि भानवीया भानवो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्भास्पदं स्युः । एवं भगवतो वाणी विश्वविश्वस्य प्रमोदविधायिन्यपि यद्यभव्यानां केषांचिन्निबिड कर्म निगडनियन्त्रितानां प्रबोधाय न प्रभवति तर्हितस्या न ह्यसामर्थ्यम् । किं तु तेषामेवाभाग्यं येषां ता न रोचयन्ते ( सा न रोचते ) । नहि जलदो जलं प्रयच्छन्नूषरक्षेत्रे तृणान्यनुत्पादयन्नुपालम्भसंभावनामर्हतीत्यलं विस्तरेण । विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमर्दहेतुलात्सामजो हस्ती । तस्य संबोधनम् । हे नाभिनन्दन | तथा महत्यो नष्टा आपदो यस्य स महानष्टापत् । संबोधनं वा । तथा आभासुरैः कान्तिसंभारेण समन्ताद्देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तरचित्तप्रतिबन्धेन हे वन्दितपादपद्म हे स्तुतचरणकमल । प्रोज्झिताः प्रकर्षेण त्यक्ता आरम्भाः सावयव्यापारा १. एतस्या जिन स्तुतेः पुस्तकत्रयमवचूरिसमेतं केवलदासात्मजेन भगवान्दास - ष्ठिनास्मदर्थं प्रहितम् तत्र प्रथमं शुद्धं सुन्दरं पञ्चपत्रात्मकं १५०५ मिते विक्रमान्दे लिखितम्. द्वितीयमपि तादृशमेवैकादशपत्रात्मकं १६११ मिते विक्रमाब्दे लिखितम्. तृतीयं नातिशुद्ध त्रयोदशपत्रात्मकं १६१५ मिते विक्रमाब्दे लिखितमस्ति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy