SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। भक्तिप्रह्वमहेन्द्रपूजितपद त्वत्कीर्तने न क्षमाः - सूक्ष्मज्ञानदृशोऽपि संयमभृतः के हन्त मन्दा वयम् । अस्माभिः स्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते __ खात्माधीनसुखैषिणां स खलु नः कल्याणकल्पद्रुमः ॥२५॥ वादिराजमनु शाब्दिकलोको वादिराजमनु तार्किकसिंहः । वादिराजमनु काव्यकृतस्ते वादिराजमनु भव्यसहायः ॥ २६ ॥ इति श्रीवादिराजकृतमेकीभावस्तोत्रम् ॥ श्रीधनंजयप्रणीतं विषापहारस्तोत्रम् । खात्मस्थितः सर्वगतः समस्तव्यापारवेदी विनिवृत्तसङ्गः। प्रवृद्धकालोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः ॥ १ ॥ परैरचिन्त्यं युगभारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः । स्तुत्योऽद्य मेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः ॥ २ ॥ तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुबन्धम् । वल्पेन बोधेन ततोऽधिकार्थ वातायनेनेव निरूपयामि ॥ ३ ॥ त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेष निखिलैरवेद्यः । वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु ॥ ४ ॥ व्यापीडितं बालमिवात्मदोषैरुल्लाघतां लोकमवापिपस्त्वम् । हिताहितान्वेषणमान्यभाजः सर्वस्य जन्तोरसि बालवैद्यः ॥ ५॥ १. सर्वेऽपि शाब्दिकास्तार्किकश्रेष्ठाः कवयः सज्जनाश्च वादिराजाच्यूना इत्यात्मप्रशंसां कविः कृतवानिति तात्पर्यम्. २. द्विसंधानकाव्यकर्ता कश्चिदन्योऽयमेव धनंजयइति न निश्चयः. स्तोत्रस्यास्य द्वित्राणि मूलपुस्तकानि कर्तृनामरहिता टीका चासादितास्माभिः. ३. एक एवान्यपुरुषैर्मनसाप्यस्मरणीयं प्राणिप्राणधारणोपायप्रदर्शनवरूपं युगभारं वहन्धारयन्निति टीका. ४. वां स्तोतुमहं शक्त इत्यभिमानम्. ५. खल्पाद्वोधात्. ६. स्वल्पेनापि गवाक्षेण बृहदपि पर्वतादि यथा विलोक्यते तद्वदहं खल्पेनापि बोधेनाधिकार्थं निरूपयामीति तात्पर्यम्. ७. प्रापितवानसि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy