SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १३ कल्याणमन्दिरस्तोत्रम् । पूतस्य निर्मलरुचेर्यदि वा किमन्य__ दक्षस्य संभवपदं ननु कर्णिकायाः ॥ १४ ॥ ध्यानाजिनेश भवतो भविनः क्षणेन देहं विहाय परमात्मदशां व्रजन्ति । तीव्रानलादुपलभावमपास्य लोके . चामीकरत्वमचिरादिव धातुभेदाः ॥ १५ ॥ अन्तः सदैव जिन यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः । पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नाम नो विषविकारमपाकरोति ॥ १७ ॥ त्वामेव वीततमसं परवादिनोऽपि __ नूनं विभो हरिहरादिधिया प्रपन्नाः । किं काँचकामलिभिरीश सितोऽपि शङ्खो ___ नो गृह्यते विविधवर्णविपर्ययेण ॥ १८ ॥ धर्मोपदेशसमये सविधानुभावा___ दास्तां जनो भवति ते तरुरप्यंशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीवलोकः ॥ १९ ॥ चित्रं विभो कथमवाड्मुखवृन्तमेव विष्वक्पतत्यविरला सुरपुष्पवृष्टिः । १. अक्षस्य पद्मवीजस्य. २. 'संभविपदं' इति पाठः. ३. काचकामलादयो नेत्ररोगास्तद्युतैः. ४. श्रीपार्श्वनाथोऽशोकवृक्षतले स्थितवान्. 'उच्चैरशोकतरुसंश्रितं' इति भक्तामरस्तवेऽपि.. २ का० स० गु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002627
Book TitleKavyamala Part 7
Original Sutra AuthorN/A
AuthorDurgaprasad, Vasudev L Shastri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1926
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy