Page #1
--------------------------------------------------------------------------
________________
श्रीमत् सुधर्मास्वामिगणधर रचित
श्रीसूत्रकृताङ्ग सुत्र
अक्षरगमनिका
* लेखक,
_ वैराग्यवारिधि-आगमविशारद प. पू.आचार्य भगवंत श्री कुलचन्द्रसूरीश्वरजी म मा
+ सम्पादक बापजी म.सा. मुनिराज श्री न्यायरत्नविजयजी म. मा
तथा
मुनिराज श्री रत्नचंद्रविजयजी म.सा. मुनिराज श्री हेमप्रभविजयजी म.सा
* प्रकाशक : श्री जैन श्वेताम्बर मूर्तिपूजक संघ,
श्री अभिनन्दनस्वामि देरासर, मु.पो मढी, जी. सुरत (गुजगत)
Page #2
--------------------------------------------------------------------------
________________
श्री सुत्रकृताङ्ग सुत्र
श्रीमच्छीलाङ्काचार्यविरचितवृत्ति अनुसारिणी-अक्षरगमनिका
लेखक
वैराग्यवारिधि-आगमविशारद प.पू.आचार्य भगवंत श्री कुलचन्द्रसूरीश्वरजी म.सा.
सम्पादक बापजी म.सा. मुनिराज श्री न्यायरत्नविजयजी म.सा.
तथा मुनिराज श्री रत्नचंद्रविजयजी म.सा. मुनिराज श्री हेमप्रभविजयजी म.सा.
प्रकाशक श्री जैन श्वेताम्बर मूर्तिपूजक संघ,
श्री अभिनन्दनस्वामि देरासर, मु.पो. मढी, जी. सुरत. (गुजरात)
Page #3
--------------------------------------------------------------------------
________________
प्रकाशन वर्ष : २०६३
आवृत्ति : प्रथम नकल : ५००
प्राप्ति स्थान श्री जैन श्वेताम्बर मूर्तिपूजक संघ,
श्री अभिनन्दनस्वामि देरासर, मु.पो. मढी, जी. सुरत. (गुजरात्)
श्री दिव्यदर्शन ट्रस्ट ३६, कलिकुंड सोसायटी, धोलका-३८७८१०.
Page #4
--------------------------------------------------------------------------
________________
।। श्री शंखेश्वर पार्श्वनाथाय नमः।।
श्री श्रमणसंघ के करकमलो में प्रस्तुत कृति भेंट करते अत्यन्त हर्ष हो रहा हैं । महान् अर्थवाले द्वितीय अंग श्री सूत्रकृताङ्गकी यह अक्षरगमनिका जिन्होने श्री शीलावाचार्य की टीका का पठन कीया हो उन वाचनादाताओं के लिए उपयुक्त हो । छास्थ की कृति में क्षति का होना स्वाभाविक है । अतः बहुश्रुत क्षतियोंको संमार्जित करे । यही एक अभ्यर्थना ।
आ. वि. कुलचन्द्रसूरि
गोपीपुरा-सुरत भा.सु.१०२०६२.
Page #5
--------------------------------------------------------------------------
________________
संपादकीय
श्री सूगकृताङ्गसूत्र के इस ग्रन्थ के अभ्यासी प्रति यह विनम्र निवेदन करना चाहता हूं कि संपदान कार्य क्षेत्र में यह हमारा सर्व प्रथम प्रयास पूज्य श्री कुलचंद्रसूरिजी की ही कृपा से हुआ है । हमारे जैसे अल्पज्ञ के संपादन में क्षतीयोंका अवश्य संभव है, विद्वान वाचक के द्वारा क्षतियां हमें अवश्य बतलायें ताकि दूसीआवृत्ति में वह पुनरावर्तित न होवे । यही एक प्रार्थना ।
प.पू. मुनिराजश्री राजरत्न वि.
शिष्याणु न्यायरत्न वि. प.पू.आ. श्री कुलचंद्रसूरि शिष्याणु रत्नचंद्र वि.
तथा हेमप्रभ वि.
MISSMS
is widelissfiseal
Page #6
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम् ००१
।। श्री शंखेश्वरपार्श्वनाथाय नमः ॥
|| श्री प्रेमसूरिसद्गुरुभ्यो नमः ।।
अक्षरगमनिकाऽलङ्कृतं श्री सूत्रकृताङ्गसूत्रम् (प्रथमः श्रुतस्कन्धः)
जिनान् सर्वान् च श्रीवीरं, गुरून्नत्वाऽऽशुबोधये । कुर्वे सूत्रकृताङ्गस्याऽक्षरगमनिकां श्रुतात् ||१||
समयाख्यं प्रथममध्ययनम् (प्रथमोद्देशक : )
श्रीसुधर्मस्वामी श्रीजम्ब्वादीन् प्रत्युपदिशति
बुज्झिज्जत्ति, तिउट्टिज्जा, बंधणं परिजाणिया ।
किमाह बंधणं वीरो ? किं वा जाणं तिउट्टई ? ||१||
बुध्येत बन्धनं कर्म तद्धेतुन् वा तच्च परिज्ञाय त्रोटयेत । एवमभिहिते जम्बूस्वाम्यादिको विनेय: प्रपच्छ-किमाह बन्धनं श्रीवीर : ? किं वा जानन् तद् बन्धनं त्रोटयति ततो वा त्रुट्यति ? ।।१ ।। निर्वचनाय बन्धनमाह
चित्तमंतमचित्तं वा, परिगिज्झ किसामवि ।
अन्नं वा अणुजाणाति, एवं दुक्खा ण मुच्चइ ॥२॥
कृशमपि = अल्पमपि चित्तमंतं-सचित्तम् अचित्तं तदुभयं वा परिगृह्यऽन्यान्वा ग्राहयित्वा गृह्णतो वाऽन्याननुजानाति एवं स दुःखान्न मुच्यते । परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोकौ प्राप्तेषु च रक्षणमुपभोगे चाऽतृप्तिरेवं परिग्रहे सति दुःखात्मकाद्बन्धनान्न मुच्यत इति ।।२।। परिग्रहवतश्चावश्यंभाव्यारम्भस्तस्मिंश्च प्राणातिपात इति दर्शयितुमाह यदिवा प्रकारान्तरेण
बन्धनमेवाह
सयं तिवाय पाणे, अदुवा अण्णेहिं घायए । हणंतं वाऽणुजाणाइ, वेरं वड्डेति अप्पणो ॥३॥
स परिग्रहवान् स्वयं त्रिभ्यो मनोवाक्कायेभ्य आयुर्बलशरीरेभ्यो वा पातयेत् अकारलोपाद्वा अतिपातयेत् प्राणिनः अथवा अन्यैरपि घातयेत् घ्नतश्चान्याननुजानाति, एवम् आत्मनो वैरं = कर्म वर्धयति, ततश्च दुःखपरम्परारूपाद् बन्धनान्न मुच्यत इति ।। ३ ।। पुनर्बन्धनमेवाश्रित्याह
Page #7
--------------------------------------------------------------------------
________________
ॐdaiiaad श्री सूत्रकृताङ्गसूत्रम् aaaaaब २ । जस्सि कुले समुप्पन्ने, जेहिं वा संवसे णरे । ममाती लुप्पती बाले, अन्नमन्नेहिं मुच्छिए ||४||
यस्मिन् कुले समुत्पन्नो यैर्वा संवसेन्नरस्तेषु मम अयमिति ममायी अन्येष्वन्येषु च मूर्छितो लुप्यते बाध्यते ममत्वजनितेन कर्मणा सदसद्विवेकरहितत्वात् बाल इति ।।४।। साम्प्रतं यदुक्तं प्राक्-'किं वा जानन् बन्धनं त्रोटयतीति' अस्य निर्वचनमाहवित्तं सोयरिया चेव, सबमेतं न ताणए । संखाए जीवियं चेव, कम्मणा उ तिउति ||५||
__ वित्तं सोदर्याश्च सर्वमेतन्नैव त्राणाय भवति तथा जीवितं च स्वल्पमिति संख्यायज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिग्रहारम्भस्वजनस्नेहादीनि बन्धनस्थानादीनि प्रत्याख्याय कर्मणः सकाशात् त्रुट्यति पृथग्भवतीत्यर्थः ।।५ ।। एवं स्वसमय: प्रतिपादितः अधुना परसमयप्रतिपादनाभिधित्सयाहएए गंथे विउक्कम्म, एगे समण-माहणा | अयाणंता विउस्सिता, सत्ता कामेहिं माणवा ।।६।।
एतान्-अर्हदुक्तान् ग्रन्थान् व्युत्क्रम्य-परित्यज्य तदुक्तार्थानभ्युपगमात् एके श्रमणाः शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः परमार्थम् अजानानाः स्वसमयेषु व्युत्सिताः विविधम् उत्-प्राबल्येन सिता:-बद्धाः अभिनिविष्टाः कामेषु च सक्ता मानवा इति ।।६।। साम्प्रतं चार्वाकमतमाहसंति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आऊ तेऊ वाऊ, आगासपंचमा ।७।।
सन्ति पञ्च महाभूतानि इहैकेषां-भूतवादिनाम् तत्तत्तीर्थस्थापकै: आख्यातानि, तद्यथापृथिव्यापस्तेजोवायुराकाशं च पञ्चममिति । एतन्मतानुसारिणश्च भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगच्छन्तीति ।।७।। यथा चैतत् तथा दर्शयितुमाहएते पंच महब्भूया, तेब्भो एगो त्ति आहिया । अह तेसिं विणासेण, विणासो होइ देहिणो ||८||
एतानि पञ्चमहाभूतानि तेभ्य:-कायाकारपरिणतेभ्यः एक:-कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवतीति ते आख्यातवन्तः । अथ-तदूर्ध्वं तेषां-भूतानामन्यतमस्य विनाशे देहिनः-चिद्रूपाऽऽपन्नस्य देवदत्ताख्यस्य विनाशो भवतीति ।।८।। अत्र प्रतिसमाधानार्थं
Page #8
--------------------------------------------------------------------------
________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् acadasis । नियुक्तिकृदाहपंचण्हं संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो ||नि.गा.३३।।
पञ्चानां-पृथिव्यादिभूतानां संयोगे-कायाकारपरिणामे चैतन्यादिगुणो न भवति, पृथिव्यादीनाम् अन्यगुणत्वात् । पञ्चेन्द्रियाणां स्थानानां-उपादानकारणानां चैतन्यगुणाभावात् तदारब्धेन्द्रियाणां प्रत्येकविषयग्राहित्वे सति संकलनाप्रत्ययाभावाच्च यतो नान्यमुणितं-नान्येनगृहीतं मुणति-जानाति अन्यद् इन्द्रियमिति ।।९।। साम्प्रतमेकात्माद्वैतवादं पूर्वपक्षयितुमाहजहा य पुढवीथूभे एगे, नाणा हि दीसइ । एवं भो ! कसिणे लोए, विन्नू नाना हि दीसइ ।।९।।
यथा पृथिव्येव स्तूप: पृथिवीस्तूप एकोऽपि नानात्वेन निम्नोन्नतसरित्समुद्रपर्वतनगरसन्निवेशाद्याधारतया विचित्रो दृश्यते, एवं-तथा भो ! कृत्स्नोऽपि लोक: चेतनाचेतनरूप एक एव ह्यात्मा विद्वान्-ज्ञानपिण्डः पृथिव्यादिभूताद्याकारतया नाना दृश्यते, तथा चोक्तम्"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।।९।। एतदेव सोत्तरमाहएवमेगेत्ति जंति, मंदा आरंभणिस्सिया । एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छइ ||१०||
एवम् एक एवाऽऽत्मा इति जल्पन्ति मन्दा आरम्भनिश्रिताः । तेषामुत्तरम्-एकात्मकत्वे सति एक : कृत्वा स्वयं पापं स एव कथं तीव्र दु:खं नियच्छति-प्राप्नोति-वेदयति, नान्ये वेदयन्ते ? इति । यस्माच्च य एव पापं करोति स एव वेदयति, नान्यः तेन एकात्मकत्वं न भवतीति ।।१०।। साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाहपत्तेयं कसिणे आया, जे बाला जे य पंडिता । संति पेच्चा ण ते संति, णत्थि सत्तोववाइया ||११||
तज्जीवतच्छरीरवादिनामयमभ्युपगम:-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यते वा, तेनैकैकं शरीरं प्रति प्रत्येकमात्मानः कृत्स्ना : सर्वेऽपि आत्मान एवमवस्थिताः, ये बाला ये च पण्डितास्ते सर्वे इह पृथग् व्यवस्थिता: सन्ति ते प्रेत्य परलोके न सन्ति-न विद्यन्ते यतो नास्ति न विद्यन्ते सत्त्वा औपपातिका: परलोकगामिनः, तथाहि तदागम:-“विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ती''ति ।।११।। यतश्चैवं तत:
Page #9
--------------------------------------------------------------------------
________________
didadebedeochacket श्री सूत्रकृताङ्गसूत्रम् dedicated ४ | णत्थि पुण्णे व पावे वा, णत्थि लोए इतो परे । सरीरस्स विणासेणं, विणासो होइ देहिणो ||१२||
नास्ति पुण्यं च पापं च, आत्मनो धर्मिणोऽभावात्, तदभावाच्च नास्ति लोक इत: परो यतः शरीरस्य विनाशे भवति विनाशो देहिनः आत्मन: पूर्ववत् ।।१२।। इदानीमकारकवादिमताभिधित्सयाहकुव्वं च कारवं चेव, सव्वं कुव्वं ण विज्जइ । एवं अकारओ अप्पा, एवं ते उ पगब्भिया ||१३||
__कुर्वन्च कारयन् चात्मा न घटते, तस्यामूर्तत्वान्नित्यत्वात् सर्वव्यापित्वाच्च । यद्यपि मुद्राप्रतिबिम्बोदयन्यायेन भुजिक्रियां करोति तथापि परिस्पन्दादिकां सर्वां क्रियां कुर्वन् आत्मा न विद्यते । एवम् अकारक आत्मा, तथा चोक्तम्-“अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यनिदर्शने' इति । एवं ते-साङ्ख्यास्तु प्रगल्भिता:-धाष्टर्यत: प्रतिपादितवन्त: यथा “प्रकृति:करोति, पुरुष उपभुङ्क्ते, तथा बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते'' इत्याद्यकारकवादिमतमिति ।।१३।। साम्प्रतं तज्जीवतच्छरीराकारकवादिनोर्मतं निराचिकीर्षुराहजे ते उ वाइणो एवं, लोए तेसिं कुओ सिया !। तमाओ ते तमं जंति, मंदा आरंभनिस्सिया ||१४||
ये एते एवंवादिनः तज्जीवतच्छरीरवादिनस्तेषां लोकः चतुर्गतिकसंसारो जगद्वैचित्र्यलक्षणश्च कुतः स्यात् ? परलोकगामिन आत्मनः पुण्यपापयोश्चानभ्युपगमाद्न कथञ्चिदित्यर्थः, ते च तमसोऽपि परतरं तमः सप्तमनरकपृथिव्यां यान्ति यतस्ते मन्दा आरम्भनिश्रिता इति । एतद्वादिमतं नियुक्तिकारोऽपि निराचिकीर्षुराह-‘पंचण्ह'मित्यादिनियुक्तिगाथा '३३' प्राग्वदत्रापि ।
साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तरोक्तश्लोको भूयोऽपि व्याख्यायते ये एते एवंवादिनः-अकारकवादिनस्तेषां लोक: जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यङ्मनुष्यामररूपश्च निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे कुत:स्यात् ? न कथञ्चित्कुतश्चिदित्यर्थः, ते च तमसोऽपि तमोऽन्तरं निकृष्टं यातनास्थानं यान्ति यतस्ते मन्दा आरम्भनिश्रिता इति ।।१४।। अधुना नियुक्तिकारोऽकारकवादिमतनिराकरणार्थमाहको वेएई अकयं ? कयनासो पंचहा गई नत्थि । देवमणुस्सगयागइ जाईसरणाइयाणं च || नि. गा. ३४ ।।
आत्मनोऽकर्तृत्वे सति कृतस्याभावात् अकृतं को वेदयते ? यदि चाकृतमपि वेदयेत तर्हि अकृतागम: कृतनाशश्च स्यात् न चैतद् दृष्टमिष्टं वा । तथा सर्वव्यापित्वान्नित्यत्वाच्चात्मनः
Page #10
--------------------------------------------------------------------------
________________
श्री सूत्रकृताङ्गसूत्रम्
५
पञ्चधा-नारकतिर्यङ्नरामरमोक्षलक्षणा गतिर्न स्यात्, देवमनुष्यादिषु गत्यागती च न स्यातां तथा नित्यत्वाच्च विस्मरणाभावाज्जातिस्मरणादिका च क्रिया नोपपद्यते, तथा आदिग्रहणाद् भुजिक्रियापि न प्राप्नोति, तस्या अपि क्रियात्वादिति ।। ३४ ।। ननु च भुजिक्रियामात्रेण प्रतिबिम्बोदयमात्रेण च यद्यप्यात्मा सक्रियस्तथापि न तावन्मात्रेणास्माभिः सक्रियत्वमिष्यते, किं तर्हि ? समस्तक्रियावत्त्वे सतीत्येतदाशङ्क्य निर्युक्तिकृदाह
हु अफलथोवणिच्छितकालफलत्तणमिहं अदुमहेऊ । णादुद्धथोवदुद्धत्तणे णगावित्तणे हेऊ ।। नि.गा. ३५ ।।
नैव अफलत्वं, स्तोकफलत्वम् अनिश्चितफलत्वम् अकालफलत्वं च द्रुमत्वाभावे हेतुः । एवमदुग्धत्वं स्तोकदुग्धत्वं च गोत्वाभावे न हेतुः । तथैवात्मनोऽपि सुप्ताद्यवस्थायां कथञ्चिन्निष्क्रियत्वं तथापि नैतावता त्वसौ निष्क्रिय इति व्यपदेशमर्हति । एवं स्वल्पक्रियो ऽपि क्रियावानेव, उक्तन्यायेनैव शेषहेतुदृष्टान्तानां दाष्टन्तिकयोजना कार्येति ।। ३५ ।। १४ ।। साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाह
संति पंच महब्भूया, इहमेगेसि आहिया ।
आयछट्ठा पुणेगाऽऽहु, आया लोगे य सासए ||१५||
सन्ति पृथिव्यादीनि पञ्च महाभूतानि आत्मषष्ठानि इहैकेषां वेदवादिनां सांख्यानां शैवाधिकारिणां चाख्यातानि, ते च पुनराहुः - आत्मा पृथिव्यादिरूपश्च लोकः शाश्वत इति ।। १५ ।। शाश्वतत्वमेव भूयः प्रतिपादयितुमाह
दुहओ ते ण विणस्संति, नो य उप्पज्जए असं । सव्वे वि सव्वा भावा, नियतीभावमागता ||१६||
ते-आत्मषष्ठाः पृथिव्यादयः पदार्था उभयत: निर्हेतुकसहेतुकविनाशद्वयेन यदिवा द्विरूपादात्मनः स्वभावाच्चेतनाचेतनरूपाद् न विनश्यन्ति, एवं च कृत्वा नासदुत्पद्यते, सर्वस्य सर्वत्र सद्भावात् अत एव सर्वेऽपि पृथिव्यादय आत्मषष्ठा भावा: सर्वथा नियतिभावं-नित्यत्वम् आगताः, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा चाभिहितम्-“नासतो जायते भावो, नाभावो जायते सतः" इत्यादि । अस्योत्तरं निर्युक्तिकृदाह-'को वेएई' त्यादि प्राक्तन्येव '३४' तमी गाथा । आत्मषष्ठवादिमतमाश्रित्य भूयोऽपि व्याख्यायते
सर्वपदार्थनित्यत्वाभ्युपगमे कर्तृत्वपरिणामो न स्यात्, ततश्चात्मनोऽकर्तृत्वे कर्मबन्धाभावस्तदभावाच्च को वेदयति ? न कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं सति कृतनाश: स्यात् तथा असतश्चोत्पादाभावे येयमात्मनः पूर्वभवपरित्यागेनापरभवोत्पत्तिलक्षणा पञ्चधा गतिः उच्यते सा न स्यात्, तथा ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियानुष्ठानमनर्थकमापद्येत, तथाऽप्रच्यु
S
Page #11
--------------------------------------------------------------------------
________________
aashishaad श्री सूत्रकृताङ्गसूत्रम् asalaaka६ । तानुत्पन्नस्थिरैकस्वभावत्वे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिस्मरणादिकं च न प्राप्नोतीति ।।३४।। ।।१६।। साम्प्रतं बौद्धमतं पूर्वपक्षयितुमाहपंच खंधे वयंतेगे, बाला उ खणजोगिणो । अन्नो अणन्नो णेवाऽऽहु, हेउयं च अहेउयं ।।१७।।
एके-केचन बौद्धास्तु रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् तथाहि
१ पृथिवीधात्वादयो रूपादयश्चेति । २ सुखा दु:खा अदुःखसुखा चेति वेदनेति । ३ रूपविज्ञानं रसविज्ञानमित्यादि विज्ञानमिति । ४ संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्यय इति । ५ पुण्यापुण्यादिधर्मसमुदाय इति । परमनिरुद्धःकाल: क्षणः, क्षणेन योगः-सम्बन्ध:क्षणयोगो येषां ते क्षणयोगिनस्तान् क्षणयोगिन:- क्षणिकान् पञ्चैव स्कन्धान् वदन्ति बालाः । न चैतेभ्यः अन्यः अनन्यो वा कश्चिदात्माख्यः पदार्थो हेतुक:-कायाकारपरिणतभूतनिष्पादित: अहेतुको वा-नित्यो विद्यते प्रत्यक्षादिप्रमाणाऽविषयत्वात् ते आहुरिति ।।१७।। तथाऽपरे बौद्धाश्चातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाहपुढवी आउ तेउ य, तहा वाऊ य एकओ । चत्तारि धाउणो रूवं, एवमाहंसु जाणगा ||१८||
___ पृथिव्यापस्तेजश्च तथा वायुश्च चत्वारोऽपि धातव एकत:- एकाकारपरिणतिं बिभ्रति कायाकारतया तदा रूपं-जीवव्यपदेशमश्नुवते तथा चोचुः-“चतुर्धातुकमिदं शरीरं, न तद्व्यतिरिक्त आत्मास्तीति", एवमाहुश्चापरे बौद्धविशेषाः, क्वचिद् 'जाणगा' इतिपाठः, तत्रायमर्थो‘जानका' ज्ञानिनो वयं किलेत्यभिमानाग्निदग्धाः सन्त एवमाहुरिति संबन्धनीयमिति । अत्रोत्तरदानार्थं प्राक्तन्येव नियुक्तिगाथा को वेएई त्यादिगाथा व्याख्यायते
यदि पञ्चस्कन्धव्यतिरिक्त: कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात् सुखदुःखादिकं को वेदयते ? ज्ञानस्कन्ध इति चेत्, न, तस्यापि क्षणिकत्वात्, ज्ञानक्षणस्य चातिसूक्ष्मत्वात् सुखदुःखानुभवाभाव:, क्रियाफलवतोश्च क्षणयोरत्यन्तासंगते: कृतनाशाकृताभ्यागमापत्तिरितीत्यादिगाथा प्राग्वद्वयाख्येयेति । तदेवमात्माभावे सुख दु:खानुभवाभाव: स्याद, अस्ति च सुखदुःखानुभवः, अतोऽस्त्यात्मेति, अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानां स्वविषयादन्यत्राप्रवृत्ते: संकलनाप्रत्ययो न स्यात्, आलयविज्ञानाद्भविष्यतीति चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति । तथा बौद्धागमोऽपि आत्मप्रतिपादकोऽस्ति, स चायम्-"इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोस्मि भिक्षवः ! ।।१ ।। इत्येवमादि ।
. एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपि नारकतिर्यङ्नरामरभवोपादानकर्मणा तथा विक्रि
Page #12
--------------------------------------------------------------------------
________________
6. श्री सूत्रकृताङ्गसूत्रम् 6000 ७ यमाणत्वात् पर्यायरूपतयेति तथाऽऽत्मस्वरूपाप्रच्युतेर्नित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुर्धातुकमात्रशरीरमेवेदमिति एतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ।।१८।। साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छरीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयितु
माह
अगारमावसंता वि, आरण्णा वा वि पव्वगा । इमं दरिसणमावन्ना, सव्वदुक्खा विमुच्चई ||१९||
अगारमावसन्त:-गृहस्था आरण्या वा-तापसादयः प्रव्रजिताश्च - शाक्यादयः, अपि संभावने, इदं ते संभावयन्ति यथा - इदम्-अस्मदीयं दर्शनम् आपन्नाः सर्वदुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वनिर्मोक्षं मोक्षमास्कन्दन्तीत्युक्तं भवति ।। १९ । । इदानीं तेषामेवाफलवादित्वाविष्करणायाह
ते णावि संधिं णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, ण ते ओहंतराऽऽहिता ||२०||
ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, ण ते संसारपारगा ||२१||
ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, ण ते गब्भस्स पारगा ||२२||
ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ||२३|| ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ||२४||
ते णावि संधि णच्चा णं, न ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते मारस्स पारगा ||२५||
ते-पञ्चभूतवाद्याद्याः सन्धि-ज्ञानावरणादिकर्मविवररूपं यदिवा सन्धानं सन्धिः-उत्तरोत्तरपदार्थपरिज्ञानं नापि नैव ज्ञात्वा दुःखमोक्षार्थं प्रवृत्ताः, यतश्चैवमतस्ते न सम्यग् धर्मविदो जना इति । ये च ते एवंवादिनस्ते ओघंतरा भवौघः संसारस्तत्तरणशीला न भवन्तीति आख्यातास्तीर्थकरैः ।। २० ।। तथा च न ते वादिन: संसारगर्भजन्मदुःखमारादिपारगा भवन्तीति ।। २१ ।।
Page #13
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् adddd८ । ।।२२।। ।।२३।। ।।२४।। ।।२५।। यत्पुनस्ते प्राप्नुवन्ति तद्दर्शयितुमाहणाणाविहाइं दुक्खाइं, अणुभवंति पुणो पुणो । संसारचक्कवालम्मि, वाहि-मच्चु-जराकुले ।।२६।। उच्चावयाणि गच्छंता, गब्भमेस्संतिऽणंतसो । नायपुत्ते महावीरे, एवमाह जिणोत्तमे ||२७|| त्ति बेमि ।।
॥ पढमो उद्देसो समत्तो ॥ एवंभूता वादिनः पौनः पुन्येन नानाविधानि दुःखान्यनुभवन्ति, एतच्च श्लोका) सर्वेषूत्तरश्लोकार्धेषु योज्यं यावदुद्देशकसमाप्तिरिति, संसारचक्रवाले मृत्युव्याधिजराकुले उच्चावचानि स्थानानि गच्छन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश इति । एवं जिनोत्तमो ज्ञातपुत्रः श्रीमहावीर आह इति ब्रवीम्यहं सुधर्मस्वामी ।।२६।।।।२७।।।
।। इति समयाख्यप्रथमाध्ययने प्रथमोद्देशक :समाप्तः।।
अथ प्रथमाध्ययने द्वितीय उद्देशक : प्रारभ्यते ।। तस्य चायमभिसंबन्धः- इहानन्तरोद्देशके भूतवादादिमतं प्रदर्श्य तन्निराकरणं कृतं, तदिहापि तदवशिष्टनियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते, तदेवमनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रमिदम्आघायं पुण एगेसिं, उववन्ना पुढो जिया । वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणओ ||१||
इह नियतिवादिभिः पुनरेकैरेतदाख्यातं उपपन्नाः उत्पन्नाः पृथक् पृथग् नारकादिभवेषु प्रत्येकदेहे वा व्यवस्थिता: जीवाः सुखं दुःखंच वेदयन्ति अथवा लुप्यन्ते-सङ्काम्यन्ते स्थानात्भवाद्भवान्तरमित्यर्थः । इदं त्वत्र ध्येयम्-एवं नियतिवादिभिरात्मन: कर्तृत्वमौपपातिकत्वं च न निषिद्धमिति ।।१।। अधुना यत्तैराश्रियते तच्छ्लोकद्वयेनाहन तं सयंकडं दुक्खं, कओ अन्नकडं च णं । सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं ।।२।। न सयं कडं ण अन्नेहिं, वेदयंति पुढो जिया । संगतियं तं तहा तेसिं, इहमेगेसिमाहियं ॥३॥
न तत्-सुखं दुःखं स्थानविलोपनं वा स्वयम्-आत्मना पुरुषकारेण कृतं तथा कुतः
Page #14
--------------------------------------------------------------------------
________________
aaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् addedicials । अन्यकृतं-कालेश्वरस्वभावकर्मादिकृतं च भवेत् ? सुखं सैद्धिकं-सिद्धिभवं यदिवाऽसैद्धिकंसांसारिकं सुखं वा दुःखं वा न स्वयं कृतं न चान्यैः कृतं वेदयन्ति पृथक् पृथग्जीवाः, परं यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगति:-नियतिस्तस्यां भवं सांगतिकं तत्तथा तेषां जीवानां भवतीतीहैकैः नियतिवादिभि:आख्यातमिति तथा चोक्तम्-“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ।।२।। ।।३।। अधुनास्योत्तरदानायाहएवमेताई जंपंता, बाला पंडियमाणिणो | णियया-ऽणिययं संतं, अजाणता अबुद्धिया ||४||
एवमेतानि वचनानि जल्पन्तो बाला अपि सन्तः पण्डितमानिनो यतो नियतानियतं-सुखादिकं किञ्चिन्नियतम्-अवश्यंभाव्युदयप्रापितं तथा अनियतम्-आत्मपुरुषकारेश्वरादिप्रापितं सत् नियतिकृतं-नियतमेवैकान्तेनाश्रयन्ति, अत: अजानन्तः अबुद्धिका भवन्तीति ।।४।। तदेवं युक्त्या नियतिवादं दूषयित्वा तद्वादिनामपायदर्शयन्नाहएवमेगे उ पासत्था, ते भुज्जो विप्पगब्भिया । एवं उवहिता संता, ण ते दुक्खविमोक्खया ||५||
एवमेके एव नियतिवादिनः पार्श्वस्थाः पाशस्था वा तथाहि-युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्था: परलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्यं, यदिवापाश इव पाश: कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिता: पाशस्थाः अन्येप्येकान्तवादिन: कालेश्वरादिकारणिका: पार्श्वस्था: पाशस्था वा द्रष्टव्याः । एवंभूतास्ते-भूयो विप्रगल्भिता:-धाष्टोपगताः, यत एवं नियतिवादमाश्रित्यापि पुन: परलोकसाधिकासु क्रियासु उपस्थिता:- प्रवृत्ता अपि सन्तो असम्यक्प्रवृत्तत्वात् न ते दुःखविमोक्षका भवन्ति । गता नियतिवादिनः ।।५ ।। साम्प्रतमज्ञानवादिमतं दूषयितुं दृष्टान्तमाहजविणो मिगा जहा संता परिताणेण वज्जिता | असंकियाई संकंति, संकियाइं असंकिणो ||६||
जविन:-वेगवन्तः सन्तो मृगाः परित्राणेन वर्जिता यदिवा परितानेन-वागुरादिबन्धनेन तर्जिताः सन्त: अशङ्कनीयानि स्थानानि शङ्कन्ते शङ्कनीयानि चाशङ्किनस्तत्र तत्र पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धः ।।६।। पुनरप्येतदेवातिमोहाविष्करणायाहपरिताणियाणि संकेता, पासिताणि असंकिणो । अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं ||७||
अतिमूढत्वात् परित्राणितानि स्थानानि शङ्कमानाः पाशितानि चाशङ्किन : अज्ञान
Page #15
--------------------------------------------------------------------------
________________
ॐॐॐॐॐase श्री सूत्रकृताङ्गसूत्रम् assass १० भयसंविग्नास्तत्र तत्र बन्धने संपर्ययन्ते यान्ति वा ।।७।। पुनरपि प्राक्तनदृष्टान्तमधिकृत्याहअह तं पवेज्ज बज्झं, अहे बज्झस्स वा वए । मुंचेज्ज पयपासाओ, तं तु मंदे ण देहती ||८||
अथ-अनन्तरमसौ मृगस्तं बद्धं-बन्धनं प्लवेत् अतिक्रम्योपरि गच्छेत् अधो वा बद्धस्य व्रजेत्तदा मुच्येत पदपाशात्=पदे पाश: पदपाशो वागुरादिबन्धनं, यदिवा पदं-कूटं पाश: प्रतीतस्ताभ्यां मुच्येत । एवं सन्तमपि तम्-अनर्थपरिहरणोपायं तु मन्दो न पश्यतीति ।।८।। कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाहअहियप्पाऽहियपण्णाणे, विसमंतेणुवागते । से बद्धे पयपासेहि, तत्थ घायं नियच्छति ॥९॥
अहितात्मा अहितप्रज्ञान: सन् यो मृगो विषमान्तेन कूटपाशादियुक्तेन प्रदेशेन उपागतः, यदिवा 'विसमंतेऽणुवायए' इति पाठमाश्रित्य विषमान्ते-कूटपाशादिके आत्मानम् अनुपातयेत् पतितो बद्धश्चासौ पदपाशेन तत्र-बन्धने घातं-विनाशं नियच्छति-प्राप्नोतीति ।।९।। एवं दृष्टान्तं प्रदर्श्य दार्टान्तिकमज्ञानविपाकं दर्शयितुमाहएवं तु समणा एगे, मिच्छदिठ्ठी अणारिया । असंकिताइं संकंति, संकिताइं असंकिणो ||१०||
एवमेव श्रमणा एके मिथ्यादृष्टयः अनार्या अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कन्ते, शङ्कनीयानि-अपायबहुलानि एकान्तपक्षसमाश्रयणानि अशङ्किनो मृगा इव मूढचेतसस्तत्तदारभन्ते यद्यदनाय संपद्यन्त इति ।।१०।। शङ्कनीयाशङ्कनीयविपर्यासमाहधम्मपण्णवणा जा सा, तं तु संकंति मूढगा | आरंभाइं न संकंति, अवियत्ता अकोविया ।।११।।
धर्मस्य-क्षान्तिप्रधानस्य या सा प्रज्ञापना तां तु शङ्कन्ते मूढा आरम्भान्न शङ्कन्ते यत: अव्यक्ता:-मुग्धाः अवधिदा इति ।।११।। ते चाज्ञानावृता यन्नाप्नुवन्ति तद्दर्शनायाहसव्वप्पगं विउक्कस्सं, सलं णूमं विहूणिया । अप्पत्तियं अकम्मंसे, एयमढें मिगे चुए ।।१२।।
सर्वत्राप्यात्मा यस्यासाविति सर्वात्मकस्तं सर्वात्मकं-लोभं, विविध उत्कर्ष इति व्युत्कर्षस्तं व्युत्कर्ष-मानं, सर्वं अलब्धमध्यत्वात् गहनमिवेति नूमं तत्-सर्वां मायां, अप्रीतिकं चक्रोधं विधूय विशिष्टज्ञानाज्जीव: अकर्मांशो भवति नाज्ञानात् यतः कषायविधूननेन
Page #16
--------------------------------------------------------------------------
________________
ॐ श्री सूत्रकृताङ्गसूत्रम् ००००००११
मोहनीयविधूननं । एतस्मादर्थात्-कर्माभावलक्षणाद् मृग: अज्ञानी च्यवेत् भ्रश्येदिति ।। १२ ।। भूयोऽप्यज्ञानवादिनां दोषाभिधित्सयाह
जेएयं णाभिजाणंति, मिच्छद्दिट्ठी अणारिया । मिगा वा पासबद्धा ते, घायमेसंतऽणंतसो ||१३||
ये एतं कर्मक्षपणोपायं नाभिजानन्ति ते मिथ्यादृष्टय : अनार्या मृगा इव पाशबद्धा घातं-विनाशम् एष्यन्ति यास्यन्त्यन्वेषयन्ति वाऽनन्तशः तद्योग्यक्रियानुष्ठानात् अविच्छेदेनेति ।। १३ ।। इदानीमज्ञानवादिनां दूषणोद्विभावयिषया स्ववाग्यन्त्रिता वादिनो न चलिष्यन्तीति तन्मताविष्कर
णायाह
माहणा समणा एगे, सव्वे णाणं सयं वदे | सव्वलोगे वि जे पाणा, न ते जाणंति किंचण ||१४||
,
एके ब्राह्मणाः श्रमणाश्च सर्वेऽप्येते स्वकं स्वकं ज्ञानं प्रमाणत्वेन वदन्ति परं न च तानि ज्ञानानि सत्यानि परस्परविरोधेन प्रवृत्तत्वात्, तस्मादज्ञानमेव श्रेयः, किं ज्ञानपरिकल्पनया, यतः सर्वस्मिन्नपि लोके ये प्राणिनस्ते न किञ्चनापि जानन्तीति ।।१४।। यदपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति दृष्टान्तद्वारेण दर्शयितुमाहमिलक्खु अमिलक्खुस्स, जहा वृत्ताणुभासती ।
ण हेउं से विजाणाति, भासियं तऽणुभासती ||१५||
यथाऽऽर्यभाषानभिज्ञो म्लेच्छ : अम्लेच्छस्य- आर्यस्य उक्तं-भाषितमनुभाषते केवलं, न चासौ तदभिप्रायं वेत्ति न वा हेतुं विजानाति केवलं भाषितमेवानुभाषत इति ।। १५ । । एवं दृष्टान्तं प्रदर्श्य दान्तिकं योजयितुमाह
एवमण्णाणिया नाणं, वयंतावि सयं सयं ।
णिच्छयत्थं ण जाणंति, मिलक्खूव्व अबोहिया ||१६||
एवमज्ञानिका: स्वकं स्वकं ज्ञानं प्रमाणत्वेन वदन्तोऽपि परस्परविरुद्धार्थभाषणात् निश्चयार्थं न जानन्ति यतस्ते म्लेच्छ इवाऽबोधिका बोधरहिता इति, अतोऽज्ञानमेव श्रेय इति । एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसंभवः, तथाहि - योऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तस्मै न कश्चिदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ।। १६ ।। एवमज्ञानवादिमतमनूद्येदानीं तद्दूषणा
याह
Page #17
--------------------------------------------------------------------------
________________
వరదీ ॐ श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐ
अण्णाणियाण वीमंसा, अण्णाणे नो नियच्छती । अप्पणो य परं णालं, कुतो अण्णेऽणुसासिउं ? ॥१७॥
I
'अज्ञानमेव श्रेय' इति अज्ञानिकानां योऽयं विमर्शः सः अज्ञाने न विनियच्छति-न युज्यत एवंविधविचारस्य ज्ञानरूपत्वादिति । अपि च ते आत्मनोऽपि परं प्रधानम् अज्ञानवादमिति अनुशासितुं नालं, कुतः पुनस्ते अन्यान्- शिष्यत्वेनोपगतानिति ? ।। १७ ।। तदेवं ते तपस्विनोऽज्ञानिन आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तद्वारेण दर्शयितु
माह
वणे मूढे जहा जंतू मूढे णेताणुगामिए ।
दुहओ वि अकोविता, तिव्वं सोयं णियच्छति ||१८||
१२
यथा वने मूढो जन्तुः परं मूढमेव नेतारमनुगच्छति तदा द्वावपि एतौ अकोविदौ तीव्रं स्रोतो-गहनं शोकं वा नियच्छतः प्राप्नुत: अज्ञानावृतत्वात् ।। १८ ।। अस्मिन्नेवार्थे दृष्टा
न्तान्तरमाह
अंधो अंध पहं णितो, दूरमद्धाण गच्छती । आवज्जे उप्पहं जंतु, अदुवा पंथाणुगामिए ||१९||
यथा अन्धः अन्धं पन्थानं नयन् दूरमध्वानं-विवक्षितादध्वनः परतरं गच्छति तथा उत्पथमापद्यते जन्तुः, अथवा परं पन्थानमनुगच्छेदिति टीकाकृत्, अथवा यदृच्छया पन्थानमेवानुपततीति चूर्णीकारः ।। १९ ।। एवं दृष्टान्तं प्रसाध्य दान्तिकमर्थं दर्शयितुमाहएवमेगे नियायट्ठी, धम्ममाराहगा वयं ।
अदुवा अधम्ममावज्जे, ण ते सव्वज्जुयं वए ||२०||
एवं भावमूढाश्चैके-अज्ञानवादिकादयो नियागार्थिन:-मोक्षार्थिनो धर्मार्थिनो वा ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्देन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति येनाभिप्रेतायाः मोक्षावाप्तेर्भ्रश्यन्ति, अथवा आस्तां तावन्मोक्षाभाव:, त एवं प्रवर्तमाना अधर्ममापद्येरन् न ते सर्वर्जुकं संयमं व्रजेयुरिति ।। २० ।। पुनरपि तद्दूषणाभिधित्सयाहएवमेगे वितक्काहिं णो अण्णं पज्जुवासिया । अप्पणो य वितक्काहिं, अयमंजू हि दुम्मती ||२१||
I
एवमेके वितर्काभि:-असत्कल्पनाभिः अन्यम् आर्हतादिकं ज्ञानवादिनं न पर्युपा
Page #18
--------------------------------------------------------------------------
________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aacharides १३ ] सते आत्मनश्च वितर्काभिः अयमेव-'अज्ञानमेव श्रेय' इत्येवमात्मको मार्ग: अंजू-ऋजुरिति प्रतिपन्ना हि-यतस्ते दुर्मतय इति ।।२१।। साम्प्रतमज्ञानवादिनां स्पष्टमेवानर्थाभिधित्सयाऽऽहएवं तक्काए साहेंता, धम्मा-ऽधम्मे अकोविया । दुक्खं ते नाइतुटुंति, सउणी पंजरं जहा ||२२||
एवं तर्कया-स्वकीयविकल्पनया साधयन्तः- प्रतिपादयन्तो धर्मे अधर्मे च अकोविदास्ते दुःखं नातित्रोटयान्ति-मूलतो नापनयन्ति यथा शकुनिः पञ्जरं, एवमेतेऽपि संसारपजरादात्मानं मोचयितुं नालमिति ।।२२।। अधुना सामान्येनैकान्तवादिमतदूषणार्थमाहसयं सयं पसंसंता, गरहंता परं वइं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥२३॥
__ स्वकं स्वकं दर्शनं प्रशंसन्तो गर्हन्तश्च परं वचः-परकीयां वाचं ये तत्रैव-आत्मीयदर्शनेष्वेव विद्वस्यन्ते-विद्वांस इवाचरन्ति ते संसारं व्युच्छ्रिता:-संबद्धाः, तत्र वा संसारे सर्वदा उषिता भवन्तीत्यर्थः ।।२३।। अथ पुनर्भिक्षुसमयमधिकृत्याहअहावरं पुरक्खायं, किरियावाइदरिसणं । कम्मचिंतापणट्ठाणं, संसारपरिवड्ढणं ||२४||
अथाऽपरं यत् पुराऽऽख्यातं तद् बौद्धानां क्रियावादिदर्शनं-चैत्यकर्मादिका क्रियैव प्रधानं मोक्षाङ्गमित्येवंवादिनां दर्शनं संसारस्य प्रवर्धनं भवति, क्वचित् ‘दुक्खक्खंधविवद्धणं' इति पाठमाश्रित्य दु:खपरम्पराया विवर्धनं भवति यतस्तदर्शनं कर्मचिन्ताप्रणष्टानां वादिनामिति ।।२४।। यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाहजाणं काएण (5)णाउट्टी, अबुहो जं च हिंसती । पुट्ठो वेदेति परं, अवियत्तं खु सावज्जं ||२५||
तेषां चायमभ्युपगम:-परिज्ञाऽविज्ञेर्यापथस्वप्नान्तिकभेदाच्चतुर्विधं कर्मोपचयं न गच्छति, तथाहि-(१) यो हि कोपादेनिमित्तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति न च कायेन प्राण्यवयवानां छेदनभेदनादिके व्यापारे वर्तते न तस्यावद्यम्, तस्य परिज्ञोपचितस्य कर्मोपचयो न भवतीत्यर्थः, (२) अजानान: कायव्यापारमात्रेण हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय: अविज्ञोपचितस्येति (३) ईरणमीर्या-गमनं तत्संबद्धः पन्था ईर्यापथस्तत्प्रत्ययं कर्मेर्यापथम्, एतदुक्तं भवति-पथि गच्छतो यथाकथञ्चिदनभिसंधेर्यत्प्राणिव्यापादनं भवति तेन कर्मणश्चयो न भवति, तथा (४) स्वप्न एव लोकोक्त्या स्वप्नान्तः स विद्यते यस्य तत्स्वप्नान्तिकं, तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावस्तथा कर्मणोऽपीति, कथं तर्हि तेषां कर्मोपचयो भवतीति ?
Page #19
--------------------------------------------------------------------------
________________
asalaaad श्री सूत्रकृताङ्गसूत्रम् Saamana १४
___ उच्यते, (१) यद्यसौ हन्यमान: प्राणी भवति (२) हन्तुश्च प्राणीत्येवं ज्ञानमुत्पद्यते (३) तथैनं हन्मीत्येवं च यदि बुद्धिः प्रादुष्याद् एतेषु सत्सु (४) यदि कायचेष्टा प्रवर्तते तस्यामपि (५) यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चपदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकः, अपरेष्वेकत्रिंशत्स्वहिंसकः, तथा चोक्तम्
प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ।।१।।"
एतदेव सूत्रकार आह- (१) यो हि जानन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी अहिंसक: तथा (२) अबुध:-अजानान: कायव्यापारमात्रेण यं च हिनस्ति तत्रापि मनोव्यापाराभावान कर्मोपचय इति, अनेन च श्लोकार्धन परिज्ञोपचितमविज्ञोपचयाख्यं भेदद्वयं साक्षादुपात्तं, शेषं त्वीर्यापथस्वप्नान्तिकभेदद्वयं चशब्देनोपात्तं ।
किमेकान्तनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव ? भवति काचिदव्यक्तमाति दर्शयितुं श्लोकपश्चार्धमाह
विज्ञोपचितादिना चतुर्विधेनापि कर्मणा स्पृष्टः सन् तत्कर्माऽसौ स्पर्शमात्रेणैव परं संवेदयति, न तस्याधिको विपाकोऽस्ति, कुड्यादिपतितसिकतामुष्टिवत् स्पर्शानन्तरमेव परिशटतीत्यर्थ: अत एव तस्य चयाभावोऽभिधीयते, न पुनरत्यन्ताभाव इति । एवं च कृत्वा तत्परिज्ञोपचितादिकर्म अव्यक्तमेव सावद्यं स्पष्टविपाकानुभवाभावादिति ।।२५।। ननु च यद्यनन्तरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशङ्कयाहसंतिमे तओ आयाणा जेहिं कीरति पावगं । अभिकम्माय पेसाय मणसा अणुजाणिया ।।२६।।
सन्ति इमानि त्रीणि आदानानि यैः क्रियते पापकं, तद्यथा-अभिक्रम्य आक्रम्य प्राणिनं स्वयं व्यापादयति तदेकं कर्मादानं, अपरं प्रेष्यं समादिश्य च प्राणिव्यापादनं द्वितीयं कर्मादानं, तथाऽपरं च व्यापादयन्तं मनसा अनुजानातीत्येतत्तृतीयं कर्मादानं, परिज्ञोपचितादस्यायं भेदः-तत्र केवलं मनसा चिन्तनमिह त्वपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति ।।२६।। तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाहएए उ तओ आयणा जेहिं कीरति पावगं । एवं भावविसोहीए णेव्वाणमभिगच्छती ॥२७॥
एतानि तु त्रीणि आदानि यैः क्रियते पापकमिति, एवं च स्थिते यत्र कृतकारिता
Page #20
--------------------------------------------------------------------------
________________
damadad श्री सूत्रकृताङ्गसूत्रम् Back १५ ] नुमतयः प्राणिव्यपरोपणं प्रति न विद्यते तथा भावविशुद्धया अरक्तद्विष्टबुद्ध्या कर्मोपचयाभावाच्च निर्वाणमभिगच्छति ।।२७।। भावशुद्धया प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाहपुत्तं पिया समारंभ, आहारट्ठमसंजए । भुंजमाणो य मेधावी, कम्मुणा नोवलिप्पति ||२८||
पुत्रम् असंयत:-गृहस्थ: पिता समारभ्य-व्यापाद्य आहारार्थं भावविशुद्धया तत्पिशितं भुञ्जानोऽपि तथा मेधाव्यपि-संयतोऽपि कर्मणा नोपलिप्यते । 'पुत्तं पि ता समारब्भ' इति पाठमाश्रित्य कस्मिञ्चिद्देशकाले शाक्यसिंहेनापि पोत्रिणं-सूकरं समारभ्य तत्पिशितं भुक्तमासीदिति श्रूयते तन्न्यायपथमवतारणार्थमपीत्थं तेषां प्रतिपादनं संभाव्यत इति ।।२८।। साम्प्रतमेतद्दूषणायाहमणसा जे पउस्संति, चित्तं तेसिं न विज्जती । अणवज्जमतहं तेसिं, ण ते संवुडचारिणो ||२९||
मनसा ये प्रद्विषन्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितंयथा केवलमन:प्रद्वेषेऽपि अनवद्यं कर्मोपचयमान इति, तत्तेषाम् अतथ्यम्-असत्यं यतो न ते संवृतचारिणो मनसोऽशुद्धत्वात्, तथाहि-‘एवं भावशुद्ध्या निर्वाणमभिगच्छती'ति भणता मनस एकस्य प्राधान्यमभ्यधायि, तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापार: कर्मबन्धायेत्युक्तं भवति, तर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततेव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, तथा स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्वन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव 'अव्यक्तं तत् सावद्य'मित्यनेनेति । तदेवं मनसो क्लिष्टस्यैकस्यैव व्यापारे बन्धसद्भावात् यदुक्तं भवता 'प्राणी प्राणिज्ञान' मित्यादि तत् सर्वं प्लवत इति । यदप्युक्तं 'पुत्रं पिता समारभ्ये' त्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद् व्यापादयति, एवम्भूतचित्तपरिणतेश्च कथमसंक्लिष्टता ? चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इति । यच्च कृतकारितानुमतिरूपमादानत्रयं भवताभिहितं तज्जैनेन्द्रमतलवास्वादनमेवाकारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिति ।।२९।। अधुनैतेषां क्रियावादिनामनर्थपरम्परां दर्शयितुमाहइच्चेयाहिं दिट्ठीहिं, सातागारवणिस्सिता । सरणं ति मण्णमाणा, सेवंती पावगं जणा ||३०||
इत्येताभिश्च दृष्टिभिर्वादिनः सातागौरवनिश्रिता इदमस्मदीयं दर्शनं शरणमिति मन्यमाना विपरीतानुष्ठानतया सेवन्ते पापमेवं वतिनोऽपि सन्तो जना इव जना: प्राकृतपुरुषस
Page #21
--------------------------------------------------------------------------
________________
Bacasasad श्री सूत्रकृताङ्गसूत्रम् aaaaaaa१६ दृशा इत्यर्थः ।।३० ।। अस्यैवार्थस्योपदर्शकं दृष्टान्तमाहजहा आसाविणिं णावं, जातिअंधो दुरुहिया । इच्छेज्जा पारमागंतुं, अंतरा य विसीयति ||३१||
अस्राविणीं-सच्छिद्रां नावं यथा जात्यन्ध आरुह्य इच्छति पारम् आगन्तुं-प्राप्तुं, परं नावश्चास्राविणीत्वेनोदकप्लुतत्वात् अन्तरा जलमध्ये विषीदति-निमज्जति तत्रैव च पञ्चत्वमुपयातीति ।।३१।। साम्प्रतं दार्टान्तिकयोजनार्थमाहएवं तु समणा एगे मिच्छद्दिडी अणारिया । संसारपारकंखी ते संसारं अणुपरियटॅति ||३२||
॥बितिओ उद्देसओ सम्मत्तो ।। एवं तु श्रमणा एके-शाक्यादयो मिथ्यादृष्टयः अनार्याः संसारपारकाक्षिणोऽपि सन्तस्ते स्वशासनस्यानिपुणत्वात् संसारमेव अनुपर्यटन्तीति ब्रवीमि ।।३२ ।।
। इति प्रथमाध्ययने द्वितीयोद्देशकः । ।। अथ प्रथमाध्ययने तृतीयोद्देशक : प्रारभ्यते ।।
अस्य चायमभिसंबन्धः-आद्ययोरुद्देशकयो: कुदृष्टयः प्रतिपादितास्तदोषाश्च तदिहापि तेषामाचारदोषः प्रदर्श्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रमिदम्जं किंचि वि पूतिकडं, सड्डीमागंतुमीहियं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवती ||१||
यत्किञ्चिद् आहारजातं पूतिकृतम् आस्तां तावदाधाकर्मिकं तदपि श्रद्धिना-श्रद्धावता आगन्तुकान् यतीनुद्दिश्य ईहितं-निष्पादितं, तच्च सहस्रान्तरितमपि यो भुञ्जीत स द्विपक्षमेवगृहस्थपक्षं प्रव्रजितपक्षं च यदिवा ईर्यापथ: सांपरायिकं च, अथवा पूर्वबद्धा निकाचिताद्यवस्था: कर्मप्रकृतीर्नयत्यपूर्वाश्चादत्ते, इत्येवं द्विपक्षं सेवन्ते, किं पुन: य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुञ्जते ? ते च सुतरां द्विपक्षसेविनो भवन्तीत्यर्थः ।।१।। इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाकाविर्भावनाय श्लोकद्वयेन दृष्टान्तमाहतमेव अविजाणंता, विसमंमि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे ।।२।। उदगस्सऽप्पभावेणं, सुक्कंमि घातमिति उ ।। ढंकेहि य कंकेहि य, आमिसत्थेहिं ते दुही ||३||
Page #22
--------------------------------------------------------------------------
________________
Baaaaaaaad श्री सूत्रकृताङ्गसूत्रम् saicsindia १७
तमेव-आधाकर्मोपभोगदोषम् अविजानन्तो विषमे-कर्मबन्धे द्वन्द्वप्रचुरे वा संसारे अकोविदाः तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्ति यथा विशाला एव वा वैशालिका: विशाल:-समुद्रस्तत्र भवा वा वैशालिकाः, विशालाख्यविशिष्टजात्युद्भवा वा वैशालिका: मत्स्या: उदकस्याभ्यागमे-समुद्रवेलायां सत्यां नदीमुखमागताः पुनर्वेलापगमे उदकस्याल्पभावेन शुष्के तस्मिन्नेव धुनीमुखे=नदीमुखे 'उदगस्स पभावेण'मिति पाठमाश्रित्य-उदकस्य प्रभावेन नदीमुखमागताः पुनर्वेलापगमे तस्मिन्नुदके शुष्के-वेगेनैवापगते सति बृहत्त्वाच्छरीरस्य तस्मिन्नेव नदीमुखे विलग्ना: आमिषार्थिभिः ढकैः ककैश्च विलुप्यमाना दुःखिन:सन्तो घातं-विनाशं यन्ति ।।२-३ ।। एवं दृष्टान्तमुपदर्थ दार्टान्तिके योजयितुमाहएवं तु समणा एगे, वट्टमाणसुहेसिणो | मच्छा वेसालिया चेव, घातमेसंतऽणंतसो ||४||
एवं तु श्रमणा एके-शाक्यपाशुपतादयः स्वयूथ्या वा वर्तमानसुखैषिणो मत्स्या वैशालिका इव घातं-विनाशम् एष्यन्ति-अनुभविष्यन्ति अनन्तश:-अरहट्टघटीन्यायेन भूयो भूयः संसारोदन्वति निमज्जनोन्मज्जनं कुर्वाणा न ते संसाराम्भोधेः पारगामिनो भविष्यन्तीत्यर्थः ।।४।। साम्प्रतमपराज्ञानाऽभिमतोपप्रदर्शनायाहइणमन्नं तु अण्णाणं, इहमेगेसिमाहियं । देवउत्ते अयं लोगे, बंभउत्ते त्ति आवरे ||५||
इदम् अन्यत्तु अज्ञानम् इहैकेषाम् आख्यातम्, तद्यथा-देवेनोप्तो देवोप्तः कर्षकेणेव बीजवपनं कृत्वा निष्पादितोऽयं लोक इत्यर्थः । देवगुप्तो देवैर्वा गुप्तो रक्षित इति देवपुत्रो वाऽयं लोक इत्येवमादिकमज्ञानमिति, तथा ब्रह्मणा उप्तो ब्रह्मोप्तोऽयं लोक इत्यपरे एवं व्यवस्थिताः, तेषामयमभ्युपगम: ब्रह्मा जगत्पितामहः स चैक एव जगदादावासीत्तेन च प्रजापतयः सृष्टाः तैश्च क्रमेणैतत्सकलं जगदिति ।।५।। तथाईसरेण कडे लोए, पहाणाति तहावरे | जीवाऽजीवसमाउत्ते, सुहदुक्खसमन्निए ||६||
ईश्वरेण कृतोऽयं लोक इत्येवमेके ईश्वरकारणिका अभिदधति, तथाऽपरे-सांख्या: प्रतिपन्ना यथा-प्रधानादिकृतोऽयं लोकः, सत्त्वरजस्तमसां साम्यावस्था प्रकृति: सा च पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् ततोऽहङ्कारः तस्माच्च गण: षोडशकः, तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानी' त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा आदिग्रहणात् स्वभावादिकं गृह्यते, ततश्चायमर्थ:-स्वभावेन कृतोऽयं लोकः, कण्टकादितैक्ष्ण्यवत्, तथान्ये नियतिकृतो लोको मयूरपिच्छवत्, इत्यादिभि: कारणैः कृतोऽयं लोको जीवाजीवसमायुक्तः सुख
Page #23
--------------------------------------------------------------------------
________________
aadaadebachchedadadit श्री सूत्रकृताङ्गसूत्रम् achchancharak१८] दुःखसमन्वितश्चेति ।।६।। किंचसयंभुणा कडे लोए, इति वुत्तं महेसिणा । मारेण संथुता माया, तेण लोए असासते ||७||
स्वयं भवतीति स्वयंभूस्तेन स्वयंभुवा कृतोऽयं लोकः तथाहि-स्वयंभूः विष्णुरन्यो वा, स चैक एवादावभूत, तत्रैकाकी रमते, द्वितीयमिष्टवान्, तच्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूत् । अपि च तेन स्वयंभुवा लोकं निष्पाद्यातिभारभयाद् यमाख्यो मारो व्यधायि, तेन मारेण संस्तुता कृता माया, तया च मायया लोका म्रियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य मृतिरस्ति, अतो मायैषा यथाऽयं मृतः, तथा चायं लोकः अशाश्वत इति महर्षिणोक्तमिति ।।७।। अपि चमाहणा समणा एगे, आह अंडकडे जगे । असो तत्तमकासी य, अयाणंता मुसं वदे ||८||
ब्राह्मणाः श्रमणाश्चैके-पौराणिका आहुः-अण्डकृतं जगत् तथाहि-यदा पदार्थशून्योऽयं संसार आसीत्तदा असौ-ब्रह्मा तत्त्वमकार्षीत्-अप्स्वण्डमसृजत्, तस्माच्च क्रमेण जातं जगदेतच्चराचरमिति । ते च ब्राह्मणादयः परमार्थम् अजानन्त एवं मृषा वदन्ति ।।८।। अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाहसएहिं परियाएहिं, लोयं बूया कडे ति ये । तत्तं ते ण विजाणंती, ण विणासि कयाइ वि ।।९।।
स्वकैः पर्यायैः अभिप्रायैः लोकोऽयं कृत इत्येवं ये अब्रुवन् ते तत्त्वं न विजानन्ति, यतोऽयं लोको द्रव्यार्थतया न विनाशी निर्मूलत: कदाचिदपि अपितु नित्य इति, यदिवा ‘णायं णासि कयाइ वि' इतिपाठमाश्रित्य नायं लोको नासीत् कदाचिदपि, अपि त्वयं लोकोऽभूद् भवति भविष्यति च, तथा चोक्तम्-“दव्वतो णं लोगे कयाइ णासि जाव णिच्चे ।। इत्यादि (भग. श. ११ उ. १० सू ४२०) ।।९।। अथ तेषामज्ञानफलदिदर्शयिषयाहअमणुण्णसमुप्पादं, दुक्खमेव विजाणिया । समुप्पादमयाणंता, किह नाहिंति संवरं ||१०||
मनोज्ञ:-संयमः, न मनोज्ञ: अमनोज्ञ:-असंयमस्तस्मादुत्पादो यस्य दुःखस्य तदमनोज्ञसमुत्पादमेव दुःखं विजानीयात् एवं सति अनन्तरोक्तवादिनो दुःखस्य समुत्पादमजानन्तः सन्त ईश्वरादेर्दुःखस्योत्पादमिच्छन्तः कथं दुःखस्य संवरं-दुःखप्रतिघातहेतुं ज्ञास्यन्ति ? तच्चाजानन्तः कथं दु:खोच्छेदाय यतिष्यन्ते ? यत्नवन्तोऽपि च नैव दु:खोच्छेदनमवाप्स्यन्ति,
Page #24
--------------------------------------------------------------------------
________________
ॐ०.०.००८ श्री सूत्रकृताङ्गसूत्रम्
[ १९
कारणोच्छेदेनैव कार्योच्छेदात् अपि तु संसार एव जन्मजरामरणाद्यनेकदुःखव्राताघ्राता भूयो भूयोऽरहट्टघटीन्यायेनानन्तमपि कालं संस्थास्यन्ति ।। १० ।। साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोप
न्यस्यन्नाह
सुद्धे अपावए आया, इहमेगेसि आहितं ।
पुणो कीडा-पदोसेणं, से तत्थ अवरज्झति ||११||
इह-अस्मिन् कृतवादिप्रस्तावे एकेषां त्रैराशिकाणां गोशालकमतानुसारिणाम् आख्यातं, तथाहि - अ हॆ-अयम् आत्मा (१) शुद्धः शुद्धाचारो भूत्वा (२) मोक्षे अपापको अपगताशेषकर्मा भवति, पुन: असावात्मा शुद्धत्वाकर्मत्वराशिद्वयावस्थो भूत्वा तत्र मोक्षस्थ एव स्वशासनपूजामुपलभ्यान्यशासनपराभवं चोपलभ्य क्रीडयति-प्रमोदते, स्वशासनन्यक्कारदर्शनाच्च प्रद्वेष्टि एवं क्रीडाप्रद्वेषाभ्यां मोक्षस्थ एव (३) अपराध्यति - रजसा श्लिष्यते, ततोऽसौ कर्मगौरवाद्भूयः संसारेऽवतरति, अस्यां चावस्थायां सकर्मत्वात्तृतीयराश्यवस्थो भवति ।। ११ ।। किंचइह संवुडे मुणी जाते, पच्छा होति अपावए । विडं व जहा भुज्जो, नीरयं सरयं तहा ||१२||
इह - मनुष्यभवे प्राप्तो मुनिः भूत्वा संवृतः - यमनियमरतो जातः सन् पश्चाद् अपापको भवति, ततः स्वशासनं प्रज्वाल्य मुक्त्यवस्थो भवति, पुनरपि शासनपूजानिकारदर्शनाद् रागद्वेषोदयात् सकर्मा भवति यथा विकटाम्बु-उदकं निरजस्कं सद् वातोद्धतरेणुसंपृक्तं सरजस्कं भूयो भवति तथा-एवं त्रैराशिकानामुक्तक्रमेण राशित्रयावस्थो भवत्यात्मा । उक्तं च“दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।। १ ।। इति ।। १२ ।। अधुनैतदूषयितुमाह
ताणुवीति मेधावि, बंभचेरे ण ते वसे ।
पुढो पावाउया सव्वे, अक्खायारो सयं सयं ||१३||
एतान्-राशित्रयवादिनो देवोप्तादिलोकवादिनश्च अनुविचिन्त्य मेधावी एतदवधारयेत्, यथा- - नैते वादिनो ब्रह्मचर्ये तदुपलक्षिते संयमानुष्ठाने वसेयुः तथाहि तेषामयमभ्युपगमो यथा स्वदर्शनपूजानिकारदर्शनात् कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यं, तत्संभवाच्च कर्मोपचयस्तदुपचयाच्च शुद्धयभावः, शुद्धयभावाच्च मोक्षाभाव:, न च मुक्तानां रागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः तद्वशाच्च संसारावतरणम् ? अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यग्ज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम् । अपिच- सर्वे अप्येते प्रावादुकाः पृथक् पृथक् स्वकं स्वकं दर्शनं
Page #25
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
od
शोभनत्वेन आख्यातार: सन्तीति न तत्र विदितवेद्येनास्था विधेयेति ।। १३ ।। पुनरन्यथा कृत
वादिमतमुपदर्शयितुमाह
सएसए उवट्ठाणे, सिद्धिमेव ण अन्नहा |
अहो वि होति वसवत्ती, सव्वकामसमप्पिए ||१४||
ते कृतवादिनः शैवैकदण्डिकप्रभृतयः स्वके स्वके उपस्थाने-अनुष्ठाने एव सिद्धिंअशेषसांसारिकप्रपञ्चरहितस्वभावां वदन्ति नान्यथा, उक्तस्वरुपसिद्धिप्राप्तेः प्रागपि अहो इहैव जन्मनि वशवर्ती - वशेन्द्रियः सर्वे कामा:- अभिलाषा : समर्पिता :- संपन्ना यस्य स सर्वकामसमर्पितश्च भवति ।। १४ । । एतदेव दर्शयति
सिद्धा य ते अरोगा य, इहमेगेसि आहितं । सिद्धिमेव पुराकाउं, सासए गढिया णरा ||१५||
२०
सिद्धाश्च ते अरोगा भवन्ति, अरोगग्रहणं चोपलक्षणम्, अनेकशारीरमानसद्वन्द्वैर्न स्पृश्यन्ते, शरीरमनसोरभावादिति, एवम् इहैकेषां - शैवादीनाम् इदम् आख्यातम्, ते च शैवादयः सिद्धिमेव पुरस्कृत्य स्वाशये - स्वकीये दर्शने ग्रथिता: अध्युपपन्ना नरा इव नरा: प्राकृपुरुष इति ।। १५ ।। साम्प्रतमेतेषामनर्थप्रदर्शनपुर : सरं दूषणाभित्सयाह
असंवुडा अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवज्जंति ठाणा, आसुर - किब्बिसिय ||१६|| त्ति बेमि । ॥ ततिओ उद्देसओ सम्मत्तो ॥
ते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिता अपि असंवृता अनादिकं - संसारकातारं भ्रमिष्यन्ति मुग्धजनप्रतारकत्वात् पौनःपुन्येत, यापि च तेषां बालतपोऽनुष्ठानादिना स्वर्गाप्तिः साप्येवंप्राया भवतीति दर्शयति-कल्पकालं- प्रभूतकालम् उत्पद्यन्ते आसुराः असुरकुमारनागकुमारादित्वेन, तत्स्थानेषूत्पन्ना अपि न प्रधानाः अपि तु किल्बिषिका भवन्तीति ब्रवीमि ।।। १६ ।। ।। इति तृतीयोद्देशक: ।।
॥ अथ चतुर्थोद्देशकः
अस्य चायमभिसंबन्धः-अनन्तरोद्देशके तीर्थिकानां कुत्सिताचारत्वमुक्तमिहापि तदेवाभिधीयते, तदनेन संबन्धेनोयातस्यास्योद्देशकस्यादिसूत्रमिदम्
एते जिता भो ! न सरणं, बाला पंडितमाणिणो । हेच्चा णं पुव्वसंजोगं, सिया किच्चोवदेसगा ||१||
Page #26
--------------------------------------------------------------------------
________________
aadaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐadical२१]
भो ! जम्बू ! एते-पञ्चभूतवाद्यादिौराशिकान्ता जिता रागद्वेषादिभि: शब्दादिविषयैश्च तथा प्रबलमहामोहोत्थाऽज्ञानेन च न शरणं यतस्ते बाला अपि सन्तः पण्डितमानिनो हित्वा स्वजनधनादिकं पूर्वसंयोगं पुन: सिता: गृहस्थास्तेषां भूतोपमर्दकारि पचनपाचनादिकं कृत्यं तस्योपदेशं गच्छन्तीति सितकृत्योपदेशगाः, यदिवार्षत्वात् 'सिया' स्युः कृत्यं सावद्यानुष्ठानं तत्प्रधानाः कृत्या:-गृहस्थास्तेषामुपदेश: संरम्भसमारम्भारम्भरूप: स येषां ते कृत्योपदेशका इति । अयं भाव:- प्रव्रजिता अपि सन्त: कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव तेऽपि सर्वावस्थाः पञ्चसूनाव्यापारोपेता न स्वपरत्राणायेति ।।१।। एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाहतं च भिक्खू परिण्णाय, विज्जं तेसु ण मुच्छए । अणुक्कसे अप्पलीणे, मज्झेण मुणि जावते ।।२।।
भिक्षुः तं-पाखण्डिलोकं परिज्ञाय विदन्-विद्वान् तेषु-तीर्थिकेषु न मूर्च्छयेत्तथा अनुत्कर्ष:-आत्मप्रशंसां परिहरन् भावतश्च अप्रलीनो असंबद्धो मध्येन रागद्वेषयोरन्तरालेन संचरन् मुनिः आत्मानं यापयेद्-वर्तयेदिति ।।२।। किमिति ते तीथिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इहमेगेसि आहियं । अपरिग्गहे अणारंभे, भिक्खू ताणं परिवते ||३||
__ सपरिग्रहाः सारम्भाश्च तीथिकादय: सपरिग्रहारम्भकत्वेनैव च मोक्षमार्ग प्रतिपादयन्तीति दर्शयति-इहैकेषाम् आख्यातम्, यथा-किमनया शिरस्तुण्डमुण्डनादिकया क्रियया ? परं गुरोरनुग्रहात् परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्तीति । एवं सति ये अपरिग्रहा अनारम्भाश्च तान् भिक्षुस्त्राणं-शरणं परिव्रजेदिति ।।३।। कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाहकडेसु घासमेसेज्जा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को य, ओमाणं परिवज्जते ||४||
___ गृहस्थैः स्वार्थं कृतेषु षोडशोद्गमदोषशुद्धौदनादिषु ग्रासम् आहारम् एषयेत्-षोडशोत्पादनदोषान् परिहरन् याचेद् विद्वान् तथा दत्तैषणां चरेत्-दशैषणादोषान् वर्जयन् गृह्णीयाद् गृहीते चाहारे अगृद्धः पञ्चग्रासैषणादोषान् परिहरन्नभ्यवहरेत्तथा सर्वत्र रागद्वेषाभ्यां विप्रमुक्तः सन् परेषाम् अपमानं-परावमदर्शित्वं परिवर्जयेत्, न तपोमदं ज्ञानमदं च कुर्यादिति भावः ।।४।। एवं तीथिकान् गृहस्थोपमान दर्शयित्वाधुना तेषामेवाभ्युपगमं विपरीतप्रज्ञासंभूतं तथाऽविवेकिजनजल्पितानुगं दर्शयन्नाह
Page #27
--------------------------------------------------------------------------
________________
Michaelaetactretchachesed श्री सूत्रकृताङ्गसूत्रम् daceadacandit २२ ] लोगवायं निसामेज्जा, इहमेगेसि आहितं । विवरीतपण्णसंभूतं, अन्नउत्तं तयाणुयं ||५||
पाखण्डिनां पौराणिकानां च लोकानां वादं लोकवादं निशामयेत् तदेव दर्शयति-इहसंसारे एकेषां यद् आख्यातम् तद् विपरीतसंज्ञासंभूतं तथा यद् अन्योक्तम् अविवेकिजनजल्पितं तदनुगं-तदनुगच्छतीत्यर्थः ।।५।। तमेवानन्तरोक्तं लोकवादं दर्शयितुमाहअणंते णितिए लोए, सासते ण विणस्सति । अंतवं णितिए लोए, इति धीरोऽतिपासति ||६||
अनन्तो नित्यश्च लोक: सांख्यानां, यदिवा यो यादृगिह भवे स तादृगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अङ्गनैवेत्यादि, शाश्वतो न विनश्यति दिगात्माकाशाद्यपेक्षया वैशेषिकाणां तथा अन्तवान् नित्यश्च लोकः पौराणिकानां सप्तद्वीपावच्छिन्नत्वादिति धीरः कश्चित्साहसिकोऽन्यथाभूतार्थप्रतिपादनात् व्यासादिरिवातिपश्यतीति अतिपश्यति ।।६।। किंचअपरिमाणं विजाणाति, इहमेगेसि आहितं । सव्वत्थ सपरिमाणं, इति धीरोऽतिपासति ||७||
____कश्चित्तीर्थिकतीर्थकृत् अपरिमाणं विजानाति असावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्-सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ? इति, इहैकेषामाख्यातम्, तथा सर्वत्र सपरिमाणमिति धीरोऽतिपश्यति, तथाहि ते ब्रुवते-दिव्यं वर्षसहस्त्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यतीत्यतिपश्यति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः ।।७।। अस्य चोत्तरदानायाहजे केति तसा पाणा, चिटुंतऽदुव थावरा | परियाए अत्थि से अंजू, तेण ते तस-थावरा ||८||
'अनन्तो नित्यश्च लोक:- इत्यादि यदभिहितं तस्योत्तरं-तथाहि-अथाप्रच्युतानुत्पन्नस्थिरैकस्वाभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, यतो ये केचित् त्रसाः प्राणा: त्रसत्वेन अथवा स्थावराः स्थावरत्वेन तिष्ठन्ति, तेषां च सदैव तादृशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रिया: सर्वा अप्यनर्थिका आपोरन् । न चैतदृष्टमिष्टम् तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसङ्क्रमणमनिवारितमिति पर्यायतया अनित्यत्वं स्थितम् । यदि द्रव्यार्थतया नित्यत्वमभिधीयते हतो न काचित्क्षति: अस्मदभीष्टमेवाभ्युपगतमिति । तथा 'शाश्वतो न विनश्यति' द्रव्यविशेषापेक्षया इति यद्वैशेषिकैरभ्युपगम्यते तदप्यसदेव, यतः सर्वमेव वस्तू
Page #28
--------------------------------------------------------------------------
________________
6666666 श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐ
२३
त्पादव्ययध्रौव्ययुक्तत्वेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति । तथा यदुक्तम्-‘अनन्तवाँल्लोकः सप्तद्वीपावच्छिन्नत्वादिति' तन्न प्रेक्षापूर्वकारिण: प्रत्येष्यन्ति, तद्ग्राहकप्रमाणाऽभावादिति । यद्यपि चोक्तम्- 'अपरिमाणं विजानाती' ति, तदपि न घटामियर्ति, यतः सत्यमप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशविकलत्वान्नैवाऽसौ प्रेक्षापूर्वककारिभिराद्रियते, तथाहि तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽप्यस्याऽपरिज्ञानमेवमन्यत्राऽपीत्याशङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात् ।। तस्मात्सर्वज्ञमेष्टव्यं, तथा यदुक्तं- 'स्वापबोधविभागेन परिमितं जानाती' त्येतदपि सर्वजनसमानत्वे यत्किञ्चिदिति । तदेवमनन्तादिकं लोकवादं परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्धेन दर्शयति-ये केचन त्रसा: स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्मपरिणत्या अस्त्यसौ पर्याय : अंजू : प्रगुणोऽव्यभिचारी येन ते त्रसाः सन्तः स्थावरा: संपद्यन्ते, स्थावरा अपि त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव स्थावरा: स्थावरत्वमेवाप्नुवन्ति, न पुनर्नित्यं यो यादृगिह स तादृगेवामुत्रापि भवतीत्ययं नियम इति ।। ८ ।। अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाह
उरालं जगओ जोयं, विपरीयासं पलेंति य । सव्वे अक्कंतदुक्खा य, अतो सव्वे अहिंसिया ||९||
यथा जगत औदारिकः-औदारिकशरीरिणो हि मनुष्यादेः योग:-व्यापारो चेष्टारूपो बालकौमारादिक: कालादिकृतोऽवस्थाविशेषो विपर्यासं अन्यथा चान्यथा भवन् पर्ययते-गच्छतीति प्रत्यक्षेणैव लक्ष्यते, तथैव सर्वे स्थावरजङ्गमा जन्तवः अन्यथाऽन्यथा च भवन्तो द्रष्टव्या इति । अपिच - सर्वे दुःखाक्रान्ता यदिवा अकान्तदुःखा अप्रियदुःखा प्रियसुखाश्च, अतः सर्वेऽपि ते यथा अहिंसिता भवन्ति तथा विधेयमिति ।। ९ ।। किमर्थं सत्त्वान् न हिंस्यादित्याहएतं खुणाणिणो सारं, जं न हिंसति किंचणं । अहिंसासमयं चेव, एतावंतं विजाणिया ||१०||
एतदेव ज्ञानिनः सारं यन्न हिनस्ति कञ्चन प्राणिजातं, तेन उपलक्षणं चैतत्, तेन मृषावादादिष्वपि न वर्तत इति । अपिच अहिंसया समतामेव आत्मनः सर्वजीवैस्तुल्यतां चैता - द्विजानीयाद् यथा मम मरणं दुःखं चाप्रियमेवं सर्वसत्त्वानामिति । अहिंसा हि ज्ञातागमस्य फलमिति विजानीयादित्यर्थः ।। १० ।। मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह
सिए य विगयगेही, आयाणं सारक्खए ।
चरिया ऽऽसण- सेज्जासु, भत्तपाणे य अंतसो ||११||
-
धर्मे उषितो विगतगृद्धिश्च आदानीयं ज्ञानादिरत्नत्रयं संरक्षयेत् किंच-चर्याऽऽसन
Page #29
--------------------------------------------------------------------------
________________
saksiaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaas २४ शय्यासु भक्तपाने च अन्तश: यावज्जीवं सम्यगुपयोगवता भाव्यमिति ।।११।। पुनरपि चारित्र-शुद्ध्यर्थं गुणानधिकृत्याहएतेहिं तिहिं ठाणेहिं, संजते सततं मुणी । उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए ।।१२।।
__एतेषु-अनन्तरोक्तेषु त्रिषु स्थानेषु संयतः सन् सततं मुनिः उत्कर्ष-मानं, ज्वलनंक्रोधं, नूमं-मायां, मध्येऽन्तर्भवतीति मध्यस्थं-लोभं च विवेचयेत्-आत्मनः पृथक्कुर्यादिति । इदं त्वत्र ध्येयं माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्याद्वा न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ।।१२।। साम्प्रतं सर्वोपसंहारार्थमाहसमिते उ सदा साहू, पंचसंवरसंवुडे । सितेहिं असिते भिक्खू, आमोक्खाए परिवएज्जासि ।।१३।। त्ति बेमि ।
पञ्चमिः समितिभिः समित एव सदा साधुः पञ्चमहाव्रतोपेतत्वात् पञ्चसंवरसंवृतः सितेषु-गृहस्थेषु असितः अनवबद्धः पङ्काधारपङ्कजवद् भिक्षुः आमोक्षाय-कृत्स्नकर्मक्षयाय परिव्रजेस्त्वमिति ब्रवीमि ।।१३।।
।। इति सूत्रकृताङ्गे समयाख्यं प्रथमाध्ययनं समाप्तम् ।।
॥ अथ वैतालीयाख्यं द्वितीयमध्ययनं प्रारभ्यते ।।
अस्य चायमभिसंबन्धः इहानन्तराध्ययने प्रतिपादितान् स्वसमयगुणान् परसमयदोषांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन संबन्धेनाऽऽयातमिदमध्ययनमपि विदारकं, यदिवा वैतालीयं छन्दोविशेषमत्राध्ययन इति वैतालीयं नामाध्ययनमिदम् । शाश्वतमपीदमध्ययनं भगवताऽऽदिनाथेनाष्टापदपर्वतोपरि व्यवस्थितेन भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्याङ्गारकदाहकदृष्टान्तं प्रदर्श्य न कथञ्चिज्जन्तोर्नोगेच्छा निवर्तत इत्यर्थगर्भ प्रतिपादितं तत् श्रुत्वा ते सर्वेऽपि प्रभुपुत्रा:प्रव्रजिताः । एवंभूतस्यास्याध्ययनस्य प्रथमोद्देशकस्यादिसूत्रमिदम्संबुजझह किं न बुज्झह ? संबोही खलु पेच्च दुल्लभा । णो हूवणमंति रातिओ, णो सुलभं पुणरवि जीवियं ||१||
धर्मे संबुध्यध्वं, किं न बुध्यध्वं ? अकृतधर्मचरणानां प्रेत्य जन्मान्तरे संबोधि:धर्मावाप्ति: दुर्लभैव यतो नैव पुनरुपनमन्ति रात्रयः, न ह्यतिक्रान्तो यौवनादिकाल: पुनरावर्तत इति भावः । न च सुलभं पुनरपि संयमप्रधानं जीवितं, यदिवाऽऽयुस्रुटितं सत् संधातुं न
Page #30
--------------------------------------------------------------------------
________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् saasaa २५ ] शक्यते, यथा नन्दः किल मृत्युदूतैराकृष्ट आह कोटिं दद्यां यद्येकाहं जीयेत्, तथापि न लब्धवानिति ।।१।। सर्व संसारिणां सोपक्रमत्वादनियतमायुरुपदर्शयन्नाहडहरा वुड्वा य पासहा, गब्मत्था वि चयंति माणवा । सेणे जह वट्टयं हरे, एवं आउखयम्मि तुट्टती ।।२।।
पश्यत-डहरा:-बाला वृद्धाश्च गर्भस्था अपि मानवा जीवितं त्यजन्ति बह्वपायत्वादायुषः यथा श्येनो वर्तकं-तीत्तिरजातीयं भाषायां बटेरस्तं हरे व्यापादयेत्, एवम् आयुष उपक्रमकारणं प्राणान् हरेत्, तदभावे वा आयुःक्षये त्रुट्यति जीवितमिति शेषः ।।२।। तथामाताहिं पिताहिं लुप्पति, णो सुलभा सुगई वि पेच्चओ । एयाइं भयाइं पेहिया, आरंभा विरमेज्ज सुब्बते ॥३॥
कश्चिमातापित्रादिभिलृप्यते-संसारे भ्राम्यते स्नेहाकुलितमानसः । तस्य च स्वजनपोषणार्थं यत्किञ्चित्कारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि प्रेत्य-परलोके न सुलभा, अपि तु दुर्गतिरेव भवति, तदेवम् एतानि-दुर्गतिगमनादीनि भयानि प्रेक्ष्याऽऽरम्भाद् विरमेत् सुव्रतः सुस्थितो वेति पाठान्तरम् ।।३।। अनिवृत्तस्य दोषमाहजमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो। सयमेव कडेहिं गाहती णो, तस्सा मुच्चे अपुट्ठवं ||४||
यद्-यस्मादनिवृत्तानाम् इदं भवति तथाहि-जगति पृथग्भूता व्यवस्थिता ये कर्मभिलृप्यन्ते-भ्राम्यन्ते यातनास्थानेषु प्राणिनः ते स्वयं कृतैः कर्मभिः । गाहते नरकादिस्थानानि दु:खहेतूनि वा कर्माणि गाहते उपचिनोति, न च कोऽपि तस्य कर्मणो विपाकेन तपसा वा अस्पृष्टो मुच्यते जन्तुरिति ।।४।। अधुना स्वस्थानानित्यतां दर्शयितुमाहदेवा गंधव-रक्खसा, असुरा भूमिचरा सरिसिवा । राया नर-सेट्टि-माहणा सवे वि ठाणाई चयंति दुक्खिया ||५||
देवा ज्योतिष्कसौधर्माद्या गन्धर्वा राक्षसा एतदुपलक्षणत्वादष्टप्रकारा व्यन्तरा गृह्यन्ते असुरा उपलक्षणाद् दशप्रकारा भवनपतयः, भूमिचराः सरिसृपा एतदाद्यास्तिर्यञ्च: राजानः नराः श्रेष्ठिनो ब्राह्मणाश्चैते सर्वे अपि स्वकीयानि स्थानानि दुःखिताः सन्त: त्यजन्ति, यतः सर्वेषामपि प्राणत्यागे महदु:खं समुत्पद्यत इति ।।५।। किञ्च
Page #31
--------------------------------------------------------------------------
________________
addedhekhchichicketbactre श्री सूत्रकृताङ्गसूत्रम् escacaxcacancies २६ ] कामेहि य संथवेहि य, गिद्धा कम्मसहा कालेण जंतवो । ताले जह बंधणच्चुते, एवं आउखयम्मि तुट्टती ।।६।।
कामेषु संस्तवेषु च-स्वजनेषु गृद्धाः कर्मसहा:कर्मविपाकसहिष्णव: सन्त: कालेनकर्मविपाककालेन जन्तव इहामुत्र च केवलं क्लेशमेवानुभवन्ति न पुनरुपशमं दुःखत्राणं वा । न च कामाः संस्तवाश्च तस्य मुमूर्षास्त्राणाय भवन्ति, अपि तु यथा तालफलं बन्धनाच्च्युतं सत् पतति, एवम् असावपि आयुःक्षये त्रुट्यति जीवितादिति ।।६ ।। अपि चजे यावि बहुस्सुए सिया, धम्मिए माहणे भिक्खुए सिया । अभिनूमकडेहिं मुच्छिए, तिव्वं से कम्मेहिं किच्चती ||७||
ये चापि बहुश्रुता धार्मिका ब्राह्मणा भिक्षुकाः स्युः तेऽपि अभिनूमकृतै: आभिमुख्येन नूमं-माया तत्कृतैः असदनुष्ठानैः मूर्च्छितास्तीवं ते कर्मभिः कृत्यन्ते-छिद्यन्ते पीड्यन्त इतियावत् ।।७।। ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीति दर्शयन्नाहअह पास विवेगमुट्ठिए, अवितिण्णे इह भासती धुवं । णाहिसि आरं कतो परं, वेहासे कम्मेहिं किचती ||८||
अथ पश्य-काश्चित्तीर्थिक: संसारसमुद्रं तितीर्घः विवेकं-परित्यागं परिग्रहस्य कृत्वा प्रव्रज्योत्थानेन उत्थितः अपि अवितीर्णः सम्यक्परिज्ञानाभावात्, केवलम् इह-स्वकीयमार्गे ध्रुवं-मोक्षं तदुपायं वा संयम भाषत एव न पुनर्विधत्ते, तन्मार्गे प्रपन्नस्त्वमपि कथं ज्ञास्यसि आरं संसारं गृहस्थत्वं वा कुतो वा परं - मोक्षं संयम वा ? नैव ज्ञास्यसीति भावः, एवम्भूतश्चान्योऽप्युभयभ्रष्ट: विहायसि अन्तराले उभयाभावत: स्वकृतैः कर्मभिः कृत्यते- पीड्यत इति ।।८।। ननु च तीर्थिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाश्च, तत्कथं तेषां नो मोक्षावाप्तिरित्येतदाशङ्कयाहजइ वि य णिगिणे किसे चरे, जइ वि य भुजिय मासमंतसो । जे इह मायाइ मिज्जती, आगंता गब्भायऽणंतसो ॥९॥
___ यद्यपि च तीथिको नग्नः कृशश्च चरेद् यद्यपि च भुञ्जीत मासान्तश:-मासस्यान्ते सकृत् तथापि य इह मायादिभिः कषायै: मीयते-पूर्यते युज्यत इतियावद् असौ गर्भाय आगन्तासमन्ताद् गर्भात्ग) यास्यति अनन्तश: अनन्तमपि कालमग्निशर्मवदिति ।।९।। अतो जिनोक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशं दातुमाह
Page #32
--------------------------------------------------------------------------
________________
aimadamadarad श्री सूत्रकृताङ्गसूत्रम् adcastic २७ पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं । सन्ना इह काममुच्छिया, मोहं जंति नरा असंवुडा ||१०||
हे पुरुष ! पापकर्मणः सकाशाद् उपरम, यतो मनुजानां जीवितं सुबह्वपि पर्यन्तंसान्तं यद्वा सुबह्वपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्त: मध्ये वर्तते, तदप्यूनां पर्वकोटिमितियावत् । तस्माद् यावत्तिन्न पर्येति तावद् धर्मानुष्ठानेन सफलं कर्तव्यं, ये पुनर्भोगस्नेहपङ्के सन्नाः मग्ना इह कामेषु मूर्छिता, ते असंवृताः सन्तो नरा मोहं यान्तीति ।।१०।। एवं च स्थिते यद्विधेयं तद्दर्शयितुमाहजययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा । अणुसासणमेव पक्कमे, वीरेहिं सम्मं पवेदियं ।।११।।
यतमानो विहर योगवान्-संयमयोगयुक्तो यत: अणुप्राणिनः सूक्ष्मप्राणिभिरभिव्याप्ताः पन्थानो दुरुत्तरा: दुर्गमाः, अपि च-अनुशासनमेव-सूत्रानुसारेणैव संयमं प्रति प्रक्रामेत् । एतच्च वीरैः अर्हद्भिः सम्यक् प्रवेदितमिति ।।११।। अथ क एते वीरा इत्याहविरया वीरा समुट्ठिया, कोहाकातरियादिपीसणा। पाणे ण हणंति सव्वसो, पावातो विरयाऽभिनिबुडा ||१२||
___ हिंसाऽनृताद्याश्रवेभ्यो दिरता वीराः सम्यग् आरम्भपरित्यागेनोत्थिताः समुत्थिताः क्रोधकातरिकादिपेषणा: क्रोधमायादिछेत्तार: क्रोधग्रहणान्मानो गृहीतः, कातरैराद्रियते यदिवा विश्वस्तगलकर्तनात् कत्रिका सैव प्राकृतत्वात् कातरिका-माया तद्गहणाच्च लोभो गृहीत: आदिग्रहणात् शेषमोहनीयपरिग्रहः तत्पीषणा: तदपनेतारः प्राणिनो न अन्ति सर्वशः पापात् च विरता: ततश्च अभिनिर्वृत्ता:-क्रोधाद्युपशमेन शान्तीभूता यदिवा अभिनिर्वृत्ता: मुक्ता इव द्रष्टव्या इति ।।१२।। पुनरप्युपदेशान्तरमाहण वि ता अहमेव लुप्पए, लुप्पंति लोगंसि पाणिणो। एवं सहिएऽधिपासते, अणिहे से पुट्ठोऽधियासए ||१३||
नाहमेव एक: तावद् इह लुप्ये-पीड्ये अपि त्वन्येऽपि प्राणिनो लुप्यन्ते लोके परं तेषां सम्यग्विवेकाभावान्न निर्जराफलं, एवं भावनापरो ज्ञानादिभिः सहित: स्वहितो वा, 'सहितेऽधिपासए' पाठान्तरं वा पृथग्जनादधिकं पश्यतीति अधिपश्यकः अस्निहः निहन्यत इति निहः न निहः अनिहो वा क्रोधादिभिरपीडित:सन् परीषहैः स्पृष्टः अपि सः अध्यासीत-अधिसहेत मन:पीडामकुर्वन्निति ।।१३।। अपि च
Page #33
--------------------------------------------------------------------------
________________
Bachaodiaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaa २८] धुणिया कुलियं व लेववं, कसए देहमणासणादिहिं । अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो ||१४||
यथा लेपवत् कुड्यं-भित्ति:लकुटादिप्रहारैः धूत्वा कृशं क्रियते तथा कर्शयेद देहमनशनादिभिः तत्कााच्च कर्मणोऽपि कार्यं स्यादिति भावः, तथा अविहिंसामेव प्रव्रजेत् । मोक्षं प्रत्यनुकूलो धर्मः अनुधर्म: असावहिंसालक्षण: परीषहोपसर्गसहनलक्षणश्च मुनिना सर्वज्ञेन प्रवेदित इति ।।१४।। किञ्चसउणी जह पंसुगुंडिया, विधुणिय धंसयती सियं रयं । । एवं दविओवहाणवं, कम्मं खवति तवस्सि माहणे ||१५||
__शकुनिका यथा पांसुगुण्डिता सती अङ्गं विधूय सितं अवबद्धं रजः ध्वंसयतिअपनयति, एवं द्रव्यः-मुक्तिगमनयोग्य: अरक्तद्विष्टो वा उपधानवान्-तपोयुक्त:सन् कर्म क्षपयति तपस्वी-साधुः माहण:-मा वधीरिति प्रवृत्तिमानिति ।।१५।। किञ्चउट्टितमणगारमेसणं, समणं ठाणठितं तवस्सिणं । डहरा वुड्डा य पत्थए, अवि सुस्से ण य तं लभे जणा ||१६||
संयमोत्थानेनैषणां प्रति उत्थितं-प्रवृत्तम् अनगारं श्रमणं स्थानस्थितम्-उत्तरोत्तरविशिष्टसंयमस्थानाध्यासिनं तपस्विनम् अपि कदाचित् डहरा:- पुत्रनप्वादयः वृद्धाश्च-पितृमातुलादयः उन्निष्क्रामयितुं प्रार्थयेयुः, एवं प्रार्थयन्तो लङ्घनादिना ते जना अपि शुष्येयुः यदिवा श्रमं गच्छेयुः न च तं-साधुं लभेरन् आत्मसात्कुर्युरिति ।।१६।। किञ्चजइ कालुणियाणि कासिया, जइ रोवंति व पुत्तकारणा। दवियं भिक्खुं समुट्टितं, णो लब्मति ण संठवित्तए ।।१७।।
यदि ते स्वजना: कारुणिकानि वचांस्यनुष्ठानानि वा कुर्युः यदि च रुदन्ति पुत्रकारणं-कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुमर्हसीति, तथापि तं द्रविकं-संयमिनं भिक्षु समुत्थितं न लभन्ते प्रव्रज्याभावाच्च्यावयितुं नापि संस्थापयितुं गृहस्थभावेन द्रव्यलिङ्गाच्च्यावयितुमिति ।।१७।। अपिचजइ वि य कामेहि लाविया, जइ णेज्जाहि णं बंधिउं घरं । जति जीवित णावकंखए, णो लमंति ण संटवित्तए ||१८||
यद्यपि च ते निजा: कामैः लावयन्ति उपनिमन्त्रयेयु:=प्रलोभयेयुः यदि नयेयुः बद्ध्वा गृहं, एवं सत्यपि यदि जीवितं नावकाक्षेत् नाभिलषेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधुं न लभन्ते आत्मसात्कर्तुं नापि गृहस्थभावेन संस्थापयितुम् अल
Page #34
--------------------------------------------------------------------------
________________
samosasaksad श्री सूत्रकृताङ्गसूत्रम् Bachidaai २९] मिति ।।१८।। किञ्चसेहंति य णं ममाइणो, माय पिया य सुता य भारिया । पासाहि णे पासओ तुमं, लोगं परं पि जहाहि पोस णो ||१९॥
शिक्षयन्ति च तमभिनवप्रव्रजितं माता पिता सुताश्च भार्या च ममाऽयमिति ममत्ववन्तो ममायिनः, यथा-पश्य न: अस्मान् त्वं च पश्यक: श्रुतिचक्षुः सूक्ष्मदर्शी अत: न: पोषय अन्यथा प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता अस्मत्परिपालनत्यागेन च परमपि लोकं त्वं जहासि-त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति ।।१९।। एवं तैरुपसर्गिता: केचन कातरा: कदाचिदेतत्कुटुंरित्याहअन्ने अन्नेहिं मुच्छिता, मोहं जंति नरा असंवुडा। विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्मिता ||२०||
अन्ये केचनाल्पसत्त्वा: अन्यैः मातापित्रादिभि: मूर्च्छिता असंवृता नरा मोहं यान्ति, तथा संसारगमनैकहेतुभूतत्वात् विषमम्-असंयमं प्रति विषमै :-असंयतैः उन्मार्गप्रवृत्तत्वात् ग्राहिता:-प्रवर्तिताः सन्त: ते च पुनरपि पापेषु प्रवृत्ताः प्रगल्भिता: धृष्टतां गता न लज्जन्त इति ।।२०।। यत एवं ततः किं कर्तव्यमित्याह- . तम्हा दविइक्ख पंडिए, पावाओ विरतेऽभिनिव्वुडे । पणया वीरा महाविहि, सिद्धिपहं णेयाउयं धुवं ।।२१।।
___ तस्माद् द्रविक:-अरक्तद्विष्टः सन् ईक्षस्व पण्डितः पापाद् विरत: अभिनिवृत्तः क्रोधादिपरित्यागाच्छान्तीभूतः, तथा प्रणता प्रह्वीभूता वीरा: महाविथिं सिद्धिपथं नेतारं यदिवा न्याययुतं न्यायोपेतं ध्रुवं-नियतम् अव्यभिचारिणमित्येतदवगम्य स एव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भैर्भाव्यमिति ।।२१।। पुनरप्युपदेशदानपूर्वकमुपसंहरन्नाहवेतालियमग्गमागओ, मण वयसा काएण संवुडो । चिच्चा वित्तं च णायओ, आरंभं च सुसंवुडे चरेज्जासि ||२२|| त्ति बेमि ।
कर्मणां विदारकमार्गमागत: सन् मनोवाक्कायैः संवृतः पुन: त्यक्त्वा वित्तं ज्ञातींश्च आरम्भं च सुसंवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमि ।।२२।।
॥ इति प्रथमोद्देशकः ।।
Page #35
--------------------------------------------------------------------------
________________
aasamacharad श्री सूत्रकृताङ्गसूत्रम् Shabdada ३०
॥अथ द्वितीय उद्देशकः प्रारभ्यते ॥ अस्य चायमभिसंबन्ध: इहानन्तरोद्देशके भगवता स्वपुत्राणां धर्मदेशनाऽभिहिता, तदिहाऽपि सैवाभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रमिदम्तयसं व जहाति से रयं, इति संखाय मुणी ण मज्जती । गोतण्णतरेण माहणे, अहऽसेयकरी अन्नेसि इंखिणी ||१||
यथा उरग: स्वां त्वचं जहाति एवम् असौ अपि रजः अष्टप्रकारं कर्माऽकषायित्वेन जहाति इति संख्याय-ज्ञात्वा मुनिर्न माद्यति गोत्रेणान्यतरेण वा मदस्थानेन माहण: साधुः पाठान्तरं वा ‘जे विउ' त्ति यो विद्वान् स जातिकुलादिभिर्न माद्यतीति, अथ अश्रेयस्करी इडिनी निन्दा अन्येषाम् अतो न कार्येति ।।१।। साम्प्रतं परनिन्दादोषमधिकृत्याहजो परिभवती परं जणं, संसारे परियत्तती महं । अदु इंखिणिया उ पाविया, इति संखाय मुणी ण मज्जती ||२||
यः परिभवति परं जनं स संसारे परिवर्तते-भ्रमति महान्तं कालं, क्वचित् ‘चिरम्' इति पाठः, अत: इङिनीका-निन्दा पापिकैव यदिवा स्वस्थानादधमस्थाने पातिकैव इति संख्यायज्ञात्वा मुनिर्न माद्यति ।।२।। मदाभावे च यद्विधेयं तद्दर्शयितुमाहजे यावि अणायगे सिया, जे वि य पेसगपेसए सिया । जे मोणपदं उवट्ठिए, णो लज्जे समयं सया चरे ॥३॥
यश्चापि अनायकः-नान्यो नायकोऽस्येति चक्रवर्त्यादिः स्यात् ‘अदु' त्ति अथशब्दो निपात: निपातानामनेकार्थत्वात्अत इत्यस्यार्थे वर्तत इति योऽपि च तस्यैव चक्रवर्त्यादेः प्रेष्यप्रेष्यः कर्मकरस्यापि कर्मकर: स्यात् एवम्भूतोऽपि चेद् यो मौनपदं संयमम् उपस्थित : समाश्रितः सोऽपि चक्रवर्त्यादिः परस्परवन्दनादिकाः सर्वाः क्रिया: कुर्वन् न लज्जेत इतरश्च नोत्कर्षं विदधीत, अपि तु समता-समभावं सदा चरेत्-संयमोद्युक्तो भवेदिति ।।३।। क्व पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाहसम अन्नयरम्मि संजमे, संसुद्धे समणे परिचए । जे आवकहा समाहिए, दविए कालमकासि पंडिए ||४||
अन्यतरस्मिन् सामायिकादौ संयमे संशुद्धे संशुद्धो वा श्रमणो लज्जामदपरित्यागेन सम:-समचित: परिव्रजेत् यो यावत्कथं समाहित सम्यगाहित आत्मा ज्ञानादौ येन स समाहितः समाधिना वा-शोभनाध्यवसायेन युक्त: द्रव्य: अरक्तद्विष्टः सन् कालमकार्षीत् स पण्डितः, अयं भाव:-कथा मृतस्यापि भवति, अतो यावन्मृत्युकालं तावल्लज्जामदपरित्यागोपेतेन संय
Page #36
--------------------------------------------------------------------------
________________
dadaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् kakakakakadig३१ ] मानुष्ठाने प्रवर्तितव्यमिति स्यात् ।।४।। किमालम्ब्यैतद्विधेयमिति, उच्यते
दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा | पुढे फरुसेहिं माहणे, अवि हण्णू समयंसि रीयति ||५||
दूर-दीर्घम् अतीतं तथाऽनागतं धर्म जीवानामुच्चावचस्थानगतिलक्षणं स्वभावम् यदिवा दूरो मोक्षस्तं दीर्घकालं वा अनुदृश्य-पर्यालोच्य मुनिः लज्जामदौ न विदधीत तथा स्पृष्टः परुषैः दण्डकशादिभिर्वाग्भिर्वा माहणः 'अवि हण्णू' अपि मार्यमाण: स्कन्दकशिष्यगणवत् समये-संयमे रियति-गच्छति इति ।। ५ ।। पुनरप्युपदेशान्तरमाहपण्णसमत्ते सदा जए, समिया धम्ममुदाहरे मुणी। सुहमे उ सदा अलूसए, णो कुज्झे णो माणि माहणे ॥६।।
प्रज्ञासमाप्त: प्रज्ञायां समाप्त:=पटुप्रज्ञः पाठान्तरं वा ‘पण्ह समत्थे' त्ति प्रश्नविषये प्रत्युत्तरदानसमर्थ: सदा कषायादिकं जयेत् तथा समतया धर्मम् उदाहरेत्-कथयेद् मुनिः सूक्ष्मेसंयमे सदा अलूषक: अविराधक: सन् तथा हन्यमानो वा पूज्यमानो वा न कृध्येन्नापि मानी स्याद् माहण इति ।।६।। अपि चबहुजणणमणम्मि संवुडे, सवढेहिं णरे अणिस्सिते । हरए व सया अणाविले, धम्मं पादुरकासि कासवं ||७||
बहुभिर्जनैर्नम्यते बहुजननमनो लौकिको धर्मस्तस्मिन् संवृतः सन् नरः सर्वार्थ : धनस्वजनादिभिः अनिश्रितः-अप्रतिबद्धश्च सन् काश्यपं तीर्थकरसंबन्धिनं धर्म प्रादुरकार्षीत्प्रकाशते, छान्दसत्वाद् वर्तमाने भूतनिर्देश:, हद इव सदा अनाविल: अनाकुलोऽकलुषोवेति ।।७।। उपदेशान्तरमधिकृत्याहबहवे पाणा पुढो सिया, पत्तेयं समयं उवेहिया । जे मोणपदं उवहिते, विरतिं तत्थमकासि पंडिते ||८||
___ बहवः प्राणिनः पृथिव्यादिभेदेन पृथक् पृथक् संसारं श्रिताः तेषां प्रत्येकं समतां दु:खद्वेषित्वं सुखप्रियत्वं च यदिवा माध्यस्थ्यं समीक्ष्य यो मौनपदं-संयमम् उपस्थितः सन् तत्र-प्राणिगणे तदुपघाते कर्तव्ये विरतिं करोति स पण्डित इति ।।८ ।। अपिचधम्मस्स य पारए मुणी, आरंभस्स य अंतए ठिए। सोयंति य णं ममाइणो, नो य लभंति णियं परिग्गहं ॥९॥
धर्मस्य च पारगो मुनिः आरम्भस्य चान्ते स्थितः एवम्भूतं शोचन्ति च ममा
Page #37
--------------------------------------------------------------------------
________________
Badosaasd श्री सूत्रकृताङ्गसूत्रम् saa३२ यिनः-स्वजनास्तथापि ते न लभन्ते आत्मसात्कर्तुं निजं परिग्रहम्-आत्मीयपरिग्रहबुद्ध्या गृहीतमिति ।।९।। अत्रान्तरे नागार्जुनीयास्तु पठन्ति “सोऊण तयं उवट्ठियं, केइ गिही विग्घेण उट्ठिया । धम्ममि अनुत्तरे मुणी, तंपि जिणिज्ज इमेव पंडिए ।।९।। कण्ठ्यं नवरं 'तंपि' तानपि गृहिण इति । एतदेवाहइहलोगदुहावहं विऊ, परलोगे य दुहं दुहावहं । विद्धंसणधम्ममेव तं, इति विज्जं कोऽगारमावसे ||१०||
इहलोके हिरण्यस्वजनादिकं दुःखावहम् इति विद्या : जानीहि, परलोके च तन्ममत्वापादितकर्मजं दुःखं तदप्यपरं दुःखावहं, तथा तद् उपार्जितमपि धनादिकं विध्वंसनधर्मम् इति विद्वान्-जानन् कः सकर्ण: अगारं-गृहम् आवसेत् ? उक्तं च-"दारा: परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयंजनस्य मोहो? ये रिपवस्तेषु सुहृदाशा ।।१।।१०।। पुनरप्युपदेशमधिकृत्याहमहयं पलिगोव जाणिया, जा वि य वंदण-पूयणा इहं । सुहमे सल्ले दुरुद्धरे, विदुमं ता पजहेज्ज संथवं ||११||
संसारिणां दुस्त्यजत्वाद् हिरण्यस्वजनादिकः महान् परिगोपः भावत: अभिष्वङ्गः यापि च राजादिभि: वन्दनापूजना अह साऽपि गर्वापादकत्वात् सूक्ष्मं शल्यं दुरुद्धरम् इति ज्ञात्वा विद्वान् संस्तवं परिचयमभिष्वङ्गं प्रजह्यात्-परित्यजेदिति । नागार्जुनीयास्तु पठन्ति“पलिमंथं महं वियाणिया, जाऽविय वंदणपूणा इदं सुहुमं सल्लं दुरुद्धरं, तंपि जिणे एएण पंडिए ।।१।। सुगमं, नवरं पलिमन्थः विघ्नः स्वाध्यायादिसदनुष्ठानस्य सद्गतेर्वा, तथा 'जयेद्' अपनयेत् पण्डित एतेन वक्ष्यमाणेनेति ।।११।। एगे चरे ठाणमासणे, सयणे एगे समाहिए सिया । भिक्खू उवधाणवीरिए, वइगुत्ते अज्झप्पसंवुडे ।।१२।।
भिक्षुः रागद्वेषविरहाद् एकश्चरेत् तथैव स्थाने-कायोत्सर्गादिके आसने शयने च एकः समाहित उपधानवीर्य:-तपोवीर्यवान् वाग्गुप्तः अध्यात्मसंवृतः मनसा च संवृतः स्यादिति ।।१२।। किञ्चणो पीहे णावऽवंगुणे, दारं सुन्नघरस्स संजते । पुट्ठोण उदाहरे वयिं, न समुच्छे नो य संथरे तणं ।।१३।।
संयत: कपाटादिना शून्यगृहस्य द्वारं न पिदध्यान्न चोद्घाटयेत्, केनचिन्निमित्तेन तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं नोदाहरेत् ब्रूयात् आभिग्र
Page #38
--------------------------------------------------------------------------
________________
Baladakiad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaids ३३ | हिको जिनकल्पिकादिनिरवद्यामपि न ब्रूयात, तथा प्रमार्जनेन तृणानि कचवरं च न समुच्छिन्यात्-नापनयेत, नापि शयनार्थी कश्चिदाभिग्रहिकः तृणं संस्तरेत् किं पुन: कम्बलादिकं ? अन्यो वा शुषिरतृणं न संस्तरेदिति ।।१३।। किञ्चजत्थऽत्थमिए अणाउले, सम-विसमाणि मुणीऽहियासए । चरगा अदुवा वि भेरवा, अदुवा तत्थ सिरीसिवा सिया ||१४||
सविता यत्र एव अस्तमितस्तत्रैव तिष्ठन् मुनिरनाकुलः सन् समविषमानि शयनासनादीनि अध्यासीत तत्र चरका: दंशमशकादयः अथवापि भैरवा:-भयानका रक्ष:शिवादय: अथवा सरिसृपाः स्युः तत्कृतांश्च परीषहान सम्यग अधिसहेतेति ।।१४।। साम्प्रतं त्रिविधोपसर्गाधिसहनमधिकृत्याहतिरिया मणुया य दिवगा, उवसग्गा तिविहाऽघियासिया । लोमादीयं पि ण हरिसे, सुन्नागारगते महामुणी ||१५||
तैरचा मानुषा दिव्याश्च उपसर्गास्त्रिविधाः तान् अध्यासीत शून्यागारगतो महामुनिः जिनकल्पिकादिर्यथा भयेन लोमादिकमपि न हर्षेत् यदिवा एवमुपसर्गास्त्रिविधा अपि अध्यासिता भवन्ति यदि रोमोद्गमादिकमपि न कुर्यादिति ।।१५।। किञ्चणो आवऽभिकंखे जीवियं, णो वि य पूयणपत्थए सिया । अब्भत्थमुवैति भेरवा, सुन्नागारगयस्स भिक्खुणो ||१६||
एवमुपसगैस्तुद्यमानोऽपि स नाभिकाक्षेद् जीवितं नापि च एवं सहनद्वारेण पूजनप्रार्थक: स्यात्, एवं च भिक्षोः शून्यागारगतस्य सम्यक् सह्यमाना भैरवा अभ्यस्तं-स्वात्मताम् उपयान्ति, भिक्षोः शून्यागारगतस्य तत्सहनाच्च उपसर्गा: सुसहा एव भवन्तीति भावः ।।१६।। पुनरप्युपदेशान्तरमाहउवणीततरस्स ताइणो, भयमाणस्स विवित्तमासणं । सामाइयमाहु तस्स जं, जो अप्पाणं भए ण दंसए ।।१७।।
__ आत्मानं ज्ञानादौ उपनीततरस्य त्रायिणो विविक्तमासनं-स्त्रीपशुपण्डकविवर्जितं वसत्यादिकं भजमानस्य यः च आत्मानं परीषहोपसर्गजनिते भये न दर्शयेत् तस्य सामायिकं समभावरुपं सामायिकादिचारित्रम् आहुः सर्वज्ञा यत् यस्मात्ततश्चारित्रिणा प्राग्व्यवस्थितस्वभावेन भाव्यमिति ।।१७।। किञ्च-. ---- उसिणोदगतत्तभोइणो, धम्मट्ठियस्स मुणिस्स हीमतो। संसग्गि असाहु रायिहिं, असमाही उ तहागयस्स वि ||१८||
Page #39
--------------------------------------------------------------------------
________________
akadchakakakist श्री सूत्रकृताङ्गसूत्रम् aaaaaaad ३४]
त्रिदण्डोवृत्तत्वेनोष्णं सन्न शीतीकुर्यादिति उष्णोदकतप्तभोजिनो धर्मे स्थितस्य पाठान्तरं वा 'धम्माट्ठिस्स'त्ति धर्मार्थिनः, असंयमं प्रति ह्रीमतो मुने राजभिः सार्धं संसर्गि: असाधु: यत: तथागतस्यापि-यथोक्तानुष्ठायिनोऽपि असमाधिरेव स्यात्, न कदाचित् स्वाध्यायादिकं भवेदिति ।।१८।। परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाहअहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं । अढे परिहायती बहू, अहिगरणं न करेज्ज पंडिए ।।१९।।
अधिकरणकरस्य-कलहकरस्य भिक्षोः प्रसह्य प्रकटमेव परोपघातिनी दारुणां वाचं वदमानस्य अर्थ: संयमो वा बहु परिहीयेत ध्वंसमुपयातीति मत्वा अधिकरणं न कुर्यात् पण्डित इति ।।१९।। तथा- . सीओदगपडिदुगुंछिणो, अपडिण्णस्स लवावसप्पिणो । सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥२०॥
___अप्रासुकं शीतोदकं प्रति जुगुप्सकस्य अप्रतिज्ञस्य अनिदानस्य लवावसर्पिण:लव-कर्म तस्मादवसर्पिण:- कर्मबन्धोपादानभूतानुष्ठानपरिहारिण: यश्च गृहिमात्रे गृहस्थभाजने अशनादिक न भुङ्क्ते, तस्य सामायिकादिचारित्ररूपं सामायिकमाहुः सर्वज्ञा यत् यस्मादेवं तस्माच्चारित्रिणा यथोक्तस्वभावेन भाव्यमिति ।।२०।। किञ्चन य संखयमाहु जीवियं, तह वि य बालजणे पगब्मती । बाले पावेहिं मिज्जती, इति संखाय मुणी ण मज्जती ।।२१।।
न च जीवितं-आयुष्कं त्रुटितं सत् संस्कारार्ह सन्धातुं शक्यते तथापि बालजन: प्रगल्भते-पापं कुर्वन्न लज्जते, स चैवं बाल: पापैः मीयते पूर्यत इति संख्याय-ज्ञात्वा मुनिर्न माद्यति तेष्वसदनुष्ठानेष्वहं शोभन: कर्तेत्येवं प्रगल्ममानो मदं न करोतीति ।।२१।। उपदेशान्तरमाहछंदेण पलेतिमा पया, बहुमाया मोहेण पाउडा । विग्रडेण पलेति माहणे, सीउण्हं वयसाऽहियासते ।।२२।।
'छागादिवधमपि धर्मसाधनमि'त्यादि प्रकारेण छन्देन स्वकीयाभिप्रायेण इमा प्रजा कुगतिषु प्रलीयते तथ्यं प्रजा बहुमाया यतो मोहेन प्रावृता तदेतदवगम्य माहणो विकटेन प्रकटेन अमायेन कर्मणा मोक्षे संयमे वा प्रलीयते शोभनभावयुक्तो भवतीति भावः तथा शीतोष्णं शीतोष्णान् वा परीषहान् वचसा कायेन मनसा च अध्यासीतेति ।।२२ ।। अपि च
Page #40
--------------------------------------------------------------------------
________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐadakibaat३५] कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दिव्वयं । । कडमेव गहाय णो कलिं, नो तेयं नो चेव दावरं ||२३||
___ कुत्सितो जयोऽस्येति कुजयः-द्युतकार: अपराजित: अक्षैर्दिव्यन्-क्रीडन् कुशलत्वात् यथा कृतमेव-कृतयुगं चतुष्कमेव गृहीत्वा लब्धजयत्वात्तेनैव दिव्यति, ततोऽसौ तल्लब्धजयः सन् न कलिम्-एककं, न त्रैतं-त्रिकं, न च द्वापरं-द्विकं गृह्णातीति ।।२३ ।। दान्तिकमाहएवं लोगंमि ताइणा, बुइएऽयं धम्मे अणुत्तरे । तं गिण्ह हितं ति उत्तम, कडमिव सेसऽवहाय पंडिए ।॥२४॥
एवं लोके त्रायिणा-सर्वज्ञेन बूतः कथितो य: अयं धर्मः अनुत्तर: एकान्तेन हितमिति कृत्वा गृहस्थकुप्रावनिकपार्श्वस्थादिभावमपहाय तम् उत्तमं गृहाण त्वमपि पण्डितः सन् यथा द्युतकार: शेषमपहाय कृतं-चतुष्कं गृह्णातीति ।।२४।। पुनरप्युपदेशान्तरमाहउत्तर मणुयाण आहिया, गामधम्मा इति मे अणुस्सुतं । जंसी विरता समुट्ठिता, कासवस्स अणुधम्मचारिणो ॥२५॥ . दुर्जयत्वाद् उत्तराः प्रधाना मनुजानां ग्रामधर्माः-शब्दादिविषया मैथुनरूपा वा सर्वज्ञैः आख्याता इति एतन्मयाऽनुश्रुतं येभ्यो ग्रामधर्मेभ्यो ये विरता: संयमोत्थानेन च समुत्थितास्ते काश्यपस्य-ऋषभस्वामिनो वर्धमानस्वामिनो वा अनुधर्मचारिणः, तीर्थंकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः ।।२५।। किञ्चजे एय चरंति आहियं, नाएणं महता महेसिणा । ते उद्वित ते समुट्ठिता, अन्नोन्नं सारेंति धम्मओ ||२६||
___महता महर्षिणा ज्ञातेन ज्ञातपुत्रेण आख्यातम् एतं धर्म ये सम्यक् चरन्ति ते एव उत्थितास्ते एव समुत्थिताः सन्त: अन्योऽन्यं धर्ममाश्रित्य धर्मतो वा भ्रश्यन्तं सारयन्ति चोदयन्ति पुनरपि सद्धर्मे प्रवर्तयन्तीति ।।२६।। किञ्चमा पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए । जे दूवणतेहिं णो णया, ते जाणंति समाहिमाहियं ॥२७॥
___ मा प्रेक्षस्व-स्मर पुरा भक्तान् दुर्गति प्रणामयन्ति प्राणिनमिति प्रणामकास्तान् प्रमाणकान्-शब्दादिविषयान् अनागतांश्च नाऽऽकाक्षेत् अपि तु अभिकाक्षेत् उपधिं मायाम् अष्टप्रकार वा कर्म हन्तुम् । पाठान्तरं वा ‘धुणित्तए' त्ति धवितुम्-आत्मनः पृथक्कर्तुम्, तथा ये दुरुपनतेषु-दुष्टधर्मं प्रत्युपनतेषु तीथिकेषु यदिवा दूमणत्ति दुष्टमन: कारिण उपतापकारिणो वा
Page #41
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् Shaadaas ३६ ] शब्दादिविषयास्तेषु न नताः न प्रह्वीभूता: ते जानन्ति समाधिम् आहितम् आत्मनि व्यवस्थितं सर्वथा वा हितमिति ।।२७।। तथा-.. णो काहिए होज्ज संजए, पासणिए ण य संपसारए । णच्चा धम्मं अणुत्तरं, कयकिरिए य ण यावि मामए ।।२८।। .. अनुत्तरं धर्मं ज्ञात्वा संयतो गोचरादौ न काथिकः कथया चरति काथिक: यदिवा विरुद्धां पैशून्यापादनी स्त्र्यादिकथां करोतीति, न प्राश्निकः प्रश्नेन राजादिकिंवृत्तरूपेण दर्पणादिप्रश्ननिमित्तरूपेण वा चरतीति, नापि च संप्रसारको देववृष्ट्यर्थकाण्डादिसूचककथाविस्तारका:, न चापि ममेदमहमस्य स्वामीत्येवं परिग्रहाग्रही मामको भवेद्, अपितु कृतक्रियः स्यादिति ।।२८।। किञ्चछण्णं च पसंस णो करे, न य उक्कास पगास माहणे । तेसिं सुविवेगमाहिते, पणया जेहिं सुज्झोसितं धुयं ।।२९।।
माहणः छन्नां स्वाभिप्रायप्रच्छादनरूपत्वान्माया तां मायां, प्रशस्य सर्वेरविगानेन प्रशस्यते=आद्रियत इति प्रशस्यो-लोभस्तम् लोभम, उत्कर्ष-मानं, प्रकाशं च मुखदृष्टिभूभङ्गविकारैः प्रकाशीभवतीति प्रकाश क्रोधस्तम्क्रोधं च न कुर्यात्, तेषाम् एव सुविवेक आख्यातः, त एव च धर्मं प्रति प्रणताः यैः सुजुष्टं सुसेवितं धूतं धूयतेऽष्टप्रकारं कर्म तद् धूतं संयमा नुष्ठानं यदिवा सुजोषितं सुक्षिप्तं धूतं-कर्मेति ।।२९ ।। अपि चअणिहे सहिए सुसंवुडे, धम्मट्ठी उवहाणवीरिए । विहरेज्ज समाहितिंदिए, आयहियं खुदुहेण लब्मई ॥३०॥
अस्निहः अनिहो वा पाठान्तरं वा 'अणहे'त्ति अनघो निरवद्यानुष्ठायी, ज्ञानादिभिः सहितः स्वहितो वा सुसंवृतो धर्मार्थी उपधानवीर्य:-तपोवीर्यवान् सन् विहरेत् समाहितेन्द्रियः-संयतेन्द्रियो यत आत्महितं दुःखेन लभ्यत इति ।।३० ।। एतच्च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतद्दर्शयितुमाहण हि णूण पुरा अणुस्सुतं, अदुवा तं तह णो समुट्टियं । मुणिणा सामाइयाहितं, णाएणं जगसव्वदंसिणा ||३१||
यदेतत्-सामायिकं जगत्सर्वदर्शिना ज्ञातेन-ज्ञातपुत्रीयेण मुनिना आख्यातं, तद् नूनं न हि पुरा जन्तुभिः अनुश्रुतं अथवा श्रुतमपि तत्तथा न समनुष्ठितम्, पाठान्तरं वा 'अवितहन्ति अवितथं नानुष्ठितमत: कारणादसुमतामात्महितं सुदुर्लभमिति ।।३१।। पुनरप्युपदेशान्तरमधिकृत्याह
Page #42
--------------------------------------------------------------------------
________________
aaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम्
३७ एवं मत्ता महंतरं, धम्ममिणं सहिता बहू जणा । गुरुणो छंदाणुवत्तगा, विरता तिण्णा महोघमाहितं ||३२|| त्ति बेमि ।
एवं सुदुर्लभमात्महितं धर्माणां च महदन्तरं कर्मणो वा विवरं यदिवाऽवसरं सदनुष्ठानस्य मत्वा ज्ञात्वा एनं जैन धर्म ज्ञानादिभिः सहिता बहवो जनाः समाश्रिताः सन्तो गुरोः आचार्यादेस्तीर्थकरस्य वा छन्दानुवर्तका-तदुक्तमार्गानुष्ठायिनो पापेभ्य: कर्मभ्यो विरताः सन्तस्तीर्णा: महौघम्-अपारसंसारसागरमेवम् आख्यातं तीर्थकृद्भिरिति ब्रवीमि- ।।३२।।
द्वितीयोद्देशकः समाप्तः ।। अथ वैतालीयाध्ययनस्य तृतीयोदेशकस्य प्रारम्भः ।।
अस्य चायमभिसंबन्धः-इहानन्तरोद्देशके विरता इत्युक्तं, तेषां च कदाचित् परीषहाः समुदीर्येरन्ते च सम्यक् सोढव्या यथाऽज्ञानोपचितकर्मणोऽपचयो भवेदित्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्यादि सूत्रम्संवुडकम्मस्स मिक्खुणो, जं दुक्खं पुढं अबोहिए। तं संजमओऽवचिज्जइ, मरणं हेच्च वयंति पंडिता ||१||
संवृतकर्मणो भिक्षोर्यहुःखं तदुपादानभूतं वा कर्म अबोधिना-अज्ञानेन स्पृष्ट=बद्धस्पृष्टनिकाचितं तत् संयमतोऽपचीयते । एवं क्षीणे कर्मणि मरणम् उपलक्षणत्वात् जातिजरामरणशोकादिकं हित्वा-त्यक्त्वा मोक्षं व्रजन्ति पण्डिताः, यदिवा पण्डिताः सर्वज्ञा एवं वदन्तीति ।।१।। येऽपि च तेनैव भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याहजे विण्णवणाहिऽज्झोसिया, संतिण्णेहिं समं वियाहिया । तम्हा उद्धं ति पासहा, अदक्खू कामाइं रोगवं ।।२।।
ये विज्ञपनाभिः-स्त्रीभिः अजोषिता:-असेविता ये च कामान् रोगवदद्राक्ष : ते संतीर्णे: मुक्तैः समं व्याख्यातास्तस्मात् स्त्र्यादिपरित्यागाद् ऊर्ध्वं मोक्षं भवतीति पश्यत यूयं, तृतियपादस्य पाठान्तरं वा ‘उड्डे तिरियं अहे तह' त्ति ऊर्ध्वाधस्तिर्यग्लोके ये कामास्तान्, शेषं पूर्ववत् ।।२।। पुनरप्युपदेशान्तरमधिकृत्याहअग्गं वणिएहिं आहियं, धारेति राईणिया इहं । एवं परमा महत्वया, अक्खाया उ सराइभोयणा ||३||
यथा वणिग्भिः आहितं-ढौकितम् अग्रं-प्रधानं रत्नवस्त्राभरणादिकं राजन्या:-राजानस्तत्कल्पा वा ईश्वरादयः इह धारयन्ति, एवम् आचार्य: आख्यातानि परमाणि महाव्रतानि
Page #43
--------------------------------------------------------------------------
________________
ॐassiaksad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaw३८ । सरात्रिभोजनविरमणानि तु महासत्त्वा एव साधवो धारयन्ति तेषामेव तत्पात्रत्वादिति ।।३।। किञ्च
जे इह सायाणुगा णरा, अज्झोववन्ना कामेसु मुच्छिया । किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहियं ॥४॥
ये नरा इह सातं-सुखमनुगच्छन्तीति सातानुगा:-सुखशीला ऋद्धिरससातागौरवेषु अध्युपपन्नाः कामेषु च मूर्च्छिताः कृपणेन समाः प्रगल्भिता: कृपणो-दीनो वराकक इन्द्रियैः पराजितस्तेन समा: तद्वत्कामासेवने प्रगल्भिता-धृष्टतां गताः, यदिवा किमनेन स्तोकेन दोषेणेत्येवं प्रमादवन्त: संयमं पटवन्मणिकुट्टिमवद्वा मलिनीकुर्वन्तीति । ते सर्वज्ञैः आख्यातम् अपि समाधिधर्म ध्यानादिकं न जानन्तीति ।।४।। पुनरप्युपदेशान्तरमधिकृत्याहवाहेण जहा व विच्छते, अबले होइ गवं पचोइए। से अंतसो अप्पथामए, नातिवहति अबले विसीयति ||५||
यथा व्याधेन गौः मृगादिपशु: कूटपाशादिना विक्षत: पीडितः सन् प्रचोदित : अपि गन्तुम् अबलो भवति, यदिवा वाहेन-शाकटिकेन विषमे पङ्कादौ यथावद् अवहन् गौ: बलीवर्दः प्रतोदादिना विक्षतः सन् प्रचोदितः अपि गन्तुम् अबल:-असमर्थो भवति, स च अन्तशः मरणान्तमपि यावद् अल्पस्थामा-अल्पसामर्थ्यो भारं नातिवहति अपि तु तत्रैव पङ्कादौ अबलो विषीदतीति ।।५।। दार्टान्तिकमाहएवं कामेसणं विदू, अज्ज सुए पयहेज्ज संथवं । कामी कामे ण कामए, लद्धे वा वि अलद्ध कन्हुई ॥६॥
___ एवं कामैषणायां विद्वान्-निपुणः शब्दादिपङ्के मग्नः अद्य श्वो वा संस्तवं-परिचयं कामसंबन्धं प्रजहामीत्यध्यवसाय्येव सर्वदाऽवतिष्ठते, न च तान् कामान् अबलो बलीवर्दवत् त्यक्तुमलमत: कामी भूत्वा लब्धान् वाऽलब्धान् वाऽपि कामान् न कामयेत कुत्रचिद् निमन्त्रयमाणोऽपि यथा “जो कण्णाए धणेणय णिमंतिओजोवणम्मि गहवतिणा।णेच्छति विणीतविणयो तं वइररिसिं णमंसामि" ।।१।।६।।किमिति कामपरित्यागो विधेय इत्याशङ्कयाहमा पच्छ असाहुया भवे, अच्चेही अणुसास अप्पगं । अहियं च असाहु सोयती, से थणती परिदेवती बहुं |७||
मा पश्चात्-मरणकाले भवान्तरे वा असाधुता भवेत् अत: कामानुषङ्गम् अत्येहित्यज, तथा आत्मानं च अनुशाधि, यथा हे जीव ! यो हि असाधुः स च दुर्गतौ पतित: सन् अधिकं शोचति स्तनति परिदेवति च आक्रन्दति बहु "हा मातर्मियत इति त्राता, नैवास्ति
Page #44
--------------------------------------------------------------------------
________________
ॐ०.००८ श्री सूत्रकृताङ्गसूत्रम्
३९
साम्प्रतं कश्चित् । किं शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य ?” ।। १ ।। इत्यादि ।।७।। किञ्च
इह जीवियमेव पासहा, तरुणए वाससयाउ तुट्टती । इत्तरवासे व बुज्झहा, गिद्धनरा कामेसु मुच्छिया ॥८॥
इह आस्तां तावदन्यद् जीवितमेव अशाश्वतं पश्यत तरुण एव उपक्रमतो वर्षशतायुषः त्रुट्यति यदिवा सुबह्वपि आयुर्वर्षशतं तच्च तस्य तदन्ते त्रुट्यति, एवम्भूतमपि सागरोपमापेक्षया कतिपयनिमेषप्रायत्वात् इत्वरवासम्-अल्पकालमित्येवं बुध्यध्वं यूयं, एवं सत्यपि कामेषु गृद्धा नरा मूर्च्छिता नरकादियातनास्थानमाप्नुवन्तीति शेषः ।। ८ ।। अपि चजे इह आरंभनिस्सिया, आयदंड एगंतलूसगा ।
गंता ते पावलोगयं, चिररायं आसुरियं दिसं ॥ ९ ॥
ये इह मोहाकुलितचेतस आरम्भे निश्रिता आत्मानं दण्डयन्तीति आत्मदण्डा एकान्तलूषका:- एकान्तहिंसकाः सद्नुष्ठानस्य वा ध्वंसकाः ते गन्तारः पापलोकं नरकादिगतिं तत्र च चिररात्रं- प्रभूतं कालं निवसन्ति, तथा बालतपश्चरणादिना यद्यपि देवत्वापत्तिस्तथाऽप्यसुराणामियं ताम् आसुरीं दिशं यान्ति, तत्रापि किल्बिषिका भवन्तीत्यर्थः ।। ९ ।। किञ्चणय संखयमाहु जीवियं, तह वि य बालजणे पगब्भती । पच्चुप्पन्नेण कारितं, के दुहं परलोगमागते ||१० ॥
न च त्रुटितं सत् जीवितम् - आयुः संस्कारार्हं सन्धातुं शक्यत इति सर्वज्ञा आहुः तथापि बालजन : असदनुष्ठानं कुर्वन् प्रगल्भते न लज्जते, परेण च चोदितो भणति, यथा प्रत्युत्पन्नेन - वर्तमानेन सुखेन मे कार्यं - प्रयोजनं तथा कः परलोकं दृष्ट्वा आगत इह ? परलोको न विद्यत इति ।।१ ० ।। एवमैहिकसुखाभिलाषिणा परलोकं निह्नवानेन नास्तिकेनाऽभिहिते सत्यु
त्तरप्रदानायाह
अदक्खुव दक्खुवाहितं, सद्दहसु अदक्खदंसणा । हंदि हु सुनिरुद्धदंसणे, मोहणिज्जेण कडेण कम्मुणा ||११||
यथा अद्रष्टा- अन्धो द्रष्ट्रा व्याहृतं चक्षुष्मता कथितं श्रद्धत्ते एवं त्वमपि हे अदृष्टदर्शन ! हे असर्वज्ञदर्शन ! हे अर्वाग्दर्शन ! सर्वज्ञोक्तं श्रद्धत्स्व यदिवा 'अदक्खुव इत्यादिहेऽपश्यवद्-अन्धसदृश ! यदिवा अदक्षो वा दक्षो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शनः = केवलद. निस्तस्मादवाप्यते हितं तत् श्रद्धत्स्व । प्रत्यक्षस्यैवैकस्याभ्युपगमे समस्तव्यवहारविलोपेन हन्त
Page #45
--------------------------------------------------------------------------
________________
ॐsaakaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐadaaaas४० हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्याऽसिद्धेरिति, किमित्येवमुच्यते ? आह-'हंदी' ति गृहाण भाषायां 'लो' इति स्वयं कृतेन मोहनीयेन कर्मणा सुनिरुद्धदर्शन: प्राणी सर्वज्ञोक्तं न श्रद्धत्त इति ।।११।। पुनरप्युपदेशान्तरमाहदुक्खी मोहे पुणो पुणो, निविंदेज्ज सिलोग-पूयणं । एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजते ।।१२।।
दुःखी सन्नार्तो मूढस्तत्तत्करोति येन पुन: पुन: मोहं याति, तदेवम्भूतं मोहं परित्यज्य निर्विद्येत परिहरेत् श्लोकं-श्लाधां तथा पूजनं, एवं ज्ञानादिभिः सहित: संयतः सर्वेषु प्राणिषु आत्मतुलाम्-आत्मतुल्यताम्-अधिपश्येत्, आत्मतुल्यान् सर्वानपि प्राणिनः पालयेदिति ।।१२।। किञ्चगारं पि य आवसे नरे, अणुपुलं पाणोहिं संजए । समया सव्वत्थ सुब्बए, देवाणं गच्छे स लोगतं ।।१३।।
अगारमपि-गृहमपि आवसन्नर: आनुपूर्व्या-श्रवण-धर्मप्रतिपत्त्यादिलक्षणया प्राणिषु संयतः सुव्रतः सन् स देवानां पुरन्दरादीनां लोकं गच्छेत्, किं पुनर्यो पञ्चमहाव्रतधारी यति: ? यतः समता-आत्मपरतुल्यता सर्वत्र-यतौ गृहस्थे च श्रूयत इति ।।१३।। अपि चसोच्चा भगवाणुसासणं, सच्चे तत्थ करेहुवक्कमं । सव्वत्थऽवणीयमच्छरे, उंछं भिक्खु विसुद्धमाहरे ।।१४।।
भिक्षुः श्रुत्वा भगवदनुशासनं सर्वत्रापनीतमत्सर:=अरक्तद्विष्टः सन् तत्र-अनुशासने तदुक्ते वा सत्ये सद्भ्यो हिते संयमे उपक्रम प्राप्त्युपायं कुर्यात् तथा विशुद्धम् उञ्छंभैक्ष्यम् आहरेत्- गृह्णीयादभ्यवहरेद्वेति ।।१४।। किञ्चसबं णच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सदा जए, आय-परे परमाययहिए ।।१५।।
सर्वं हेयमुपादेयं च ज्ञात्वा सर्वसंवररूपं मार्गम् अधितिष्ठेत् आश्रयेत् धर्मार्थी उपधानवीर्य : तपोवीर्यवान्, गुप्तो युक्तो ज्ञानादिभिः सदा परमायतार्थिक:-मोक्षार्थी सन् आत्मनि परस्मिंश्च यतेत । तथा चोचुः-भाविय जिणवयणाणं ममत्तरहियाणं नत्थि हु विसेसो । अप्पणंमि परंमि य तो वज्जे पीडमुभये वि ।।१।।।।१५।। पुनरप्युपदेशान्तरमाहवित्तं पसवो य णातयो, तं बाले सरणं ति मण्णती । एते मम तेसु वी अहं, नो ताणं सरणं च विज्जइ ।।१६।।
Page #46
--------------------------------------------------------------------------
________________
saddadddd श्री सूत्रकृताङ्गसूत्रम् Saamaais४१
वित्तं पशवो ज्ञातयश्च एतान् बाल: शरणमिति मन्यते, तथाहि-एते मम तेषु-तेषां चाहं न पुनर्जानीते यद् वित्तादिकं नरकादौ पततो नैव त्राणं भवति नापि रोगादिनोपद्रुतस्य क्वचित् शरणं विद्यत इति तथा च जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ।।१।। ।।१६ ।। एतदेवाहअब्भागमितम्मि वा दुहे, अहवोवक्कमिए भवंतए । एगस्स गती य आगती, विदुमंता सरणं न मन्नती ||१७||
पूर्वोपात्तासातावेदनीयोदयेन अभ्यागमिते अभ्यागते वा दुःखे सत्येकाक्येवानुभवति दुःखम् अथवा उपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तिके-मरणे समुपस्थिते सति एकस्य एव गतिरागतिश्च भवतीति विद्वान् वित्तादिकमीषदपि शरणं न मन्यते, कुतः सर्वात्मना त्राणमिति, तथाहि-“एक्को करेइ कम्मं फलमवि तस्सिक्कओ समणुहवइ । एक्को जायइ मरइ य परलोयं एक्कओ जाइ ।।१।।।।१७।। अन्यच्चसवे सयकम्मकप्पिया, अव्वत्तेण दुहेण पाणिणो। हिंडंति भयाउळा सढा, जाति-जरा-मरणेहिऽभिद्रुता ||१८||
___ सर्वे प्राणिनः स्वकर्मकल्पिता: स्वकृतकर्मणा पृथिव्यादिभेदेन व्यवस्थिता अव्यक्तेन व्यक्तेन च दुःखेन दु:खिता भयाकुलाः शठा: आत्मवञ्चका जातिजरामरणैरभिद्रुता अरघट्टघटीयन्त्रन्यायेन तास्वेव योनिषु हिण्डन्ति भ्रमन्तीति ।।१८।। किञ्चइणमेव खणं वियाणिया, णो सुलभ बोहिंच आहितं । एवं सहिएऽहिपासए, आह जिणे इणमेव सेसगा ।।१९।।
___ इममेव क्षणम्-अवसरं, न च सुलभा बोधि प्रेत्यधर्मावाप्तिमिति, एवम् आख्यातं विज्ञाय ज्ञानादिभिः सहितः सन् अधिपश्येत्-पर्यालोचयेत् । पाठान्तरं वा 'अहियासए' त्ति परीषहानुदीर्णान् सम्यगधिसहेत । एतच्च आह जिन: ऋषभस्वामी तथा शेषका अपि जिना इदम् एवाहुरिति ।।१९।। एतदेवाहअभविंसु पुरा वि भिक्खवो, आएसा वि भविंसु सुव्वता | एताइं गुणाई आहु ते, कासवस्स अणुधम्मचारिणो ।।२०।।
हे भिक्षवः ! ये अभूवन् पुराऽपि जिना एष्यन्तोऽपि ये भविष्यन्ति, पाठान्तरं वा 'भवन्ती'ति-ये च विद्यन्ते ते सर्वे सुव्रता अविगानेन एतान्-अनन्तरोक्तान् गुणानाहुः, ते च सर्वेऽपि काश्यपस्य-ऋषभस्वामिनो वर्धमानस्वामिनो वा अनुधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मार्ग इत्यावेदितं भवतीति ।।२० ।। अभिहितांश्च गुणानुद्देशत
Page #47
--------------------------------------------------------------------------
________________
aaaaaaad श्री सूत्रकृताङ्गसूत्रम्
४२ आहतिविहेण वि पाणि मा हणे, आयहिते अणियाण संवुडे । एवं सिद्धा अणंतगा, संपति जे य अणागयाऽवरे ||२१||
त्रिविधेनाऽपि योगात्रिकेण करणत्रिकेण वा प्राणिनो मा हन्यात्-, तथा आत्महितः अनिदान: संवृतः सन्नवश्यं सिद्धिमवाप्नोतीत्येतद्दर्शयति-एवं-अनन्तरोक्तमार्गानुष्ठानेन अनन्ताः सिद्धाः संप्रति च सिध्यन्ति, अपरे चानागतकाले सेत्स्यन्ति, नापर: सिद्धिमार्गोऽस्तीति भावार्थः ।।२१।। एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्य: स्वशिष्येभ्य: प्रतिपादयतीत्याहएवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरनाणदंसणधरे । अरहा णायपुत्ते भगवं, वेसालीए वियाहिए ।।२२।।
एवं स ऋषभस्वामी उदाहृतवान् प्रतिपादितवान् अनुत्तरज्ञानी अनुत्तरदर्शी अनुत्तरज्ञानदर्शनधर : अर्हन् ज्ञातपुत्रः वर्धमानस्वामी भगवान् विशाल्यां नगर्यां अथवा विशालकुलोद्भवो वैशालिको ऋषभस्वामी व्याख्यातेति ।।२२।। इति कम्मवियालमुत्तमं जिणवरेण सुदेसियं सया। जे आचरंति आहियं खवितरया वइहिंति ते सिवं गतिं ।।२३त्ति बेमि गतार्था । तृतीय उद्देशक : समाप्तः, तत्समाप्तौ च समाप्तं द्वितीयं वेतालीयमध्ययनम् ।।
।। अथ तृतीयमुपसर्गाध्ययनं प्रारभ्यते ।।
अस्य चायमभिसम्बन्धः इहानन्तरं परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्यभिहितं, तस्य च प्रतिबुद्धस्य सम्यगुत्थानेनोत्थितस्य सत: कदाचिदनुकूलप्रतिकूलोपसर्गा: प्रादुर्भवेयुः ते चोदीर्णा: सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते, ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्यादिसूत्रमिदम्सूरं मन्नति अप्पाणं, जाव जेतं न पस्सति । जुज्झंतं दढधम्माणं, सिसुपाले व महारहं ।।१।।
कश्चिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते सति तावदेव आत्मानं शूरं मन्यते यावज्जेतारं न पश्यति यथा वासुदेवदर्शनात् प्राग्गर्जनाप्रधानोऽपि शिशुपाल:पश्चाद् युध्यमानं दृढधर्माणं-सङ्ग्रामाभङ्गरूपदृढस्वभावं महारथं नारायणं दृष्ट्वा क्षोभं गतः, एतच्चोतरत्र दालन्तिके
Page #48
--------------------------------------------------------------------------
________________
aadiaddaddeddae श्री सूत्रकृताङ्गसूत्रम् dehchichadieas४३ | योजनीयमिति ।।१ ।। साम्प्रतं सर्वजनप्रतीतं दृष्टान्तमाहपयाता सूरा रणसीसे, संगामम्मि उवद्विते । माता पुत्तं ण याणाइ, जेतेण परिविच्छए ||२||
रणशिरसि प्रयाताः शूराः-शूरंमन्याः, तत उपस्थिते सङ्ग्रामे सति सर्वस्याकुलीभूतत्वात् माता कटीतो भ्रश्यन्तं पुत्रम् अपि न जानाति-न सम्यक् प्रतिजागर्तीत्येवम्भूते सङ्ग्रामे जेत्रा परिविक्षत:- हतश्छिन्नो वा यथा कश्चिदल्पसत्त्वो दीनो भवति भङ्गमुपयातीति ।।२।। दार्टान्तिकमाहएवं सेहे वि अप्पुढे, भिक्खाचरियाअकोविए | सूरं मन्नति अप्पाणं, जाव लूहं न सेवई ||३||
एवं शैक्षोऽपि भिक्षुचर्यायाम् अकोविदः परीषहैश्च अस्पृष्टः शिशुपालवत् शूरं मन्यत आत्मानं यावत् जेतारमिव रुक्षं कर्मश्लेषाभावात् संयमं न सेवते, संयमप्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा: कण्डरिकवद् भङ्गमुपयान्तीति ।।३।। संयमस्य रुक्षत्वप्रतिपादनायाहजदा हेमंतमासम्मि, सीतं फुसति सवातगं । तत्थ मंदा विसीयंति, रज्जहीणा व खत्तिया ||४||
यदा हेमन्तमासे सवातकं-सहिमकणवातं शीतं स्पृशति तत्र असो शीतस्पर्शे लगति सति मन्दा विषीदन्ति राज्यहीना इव क्षत्रियाः ।।४।। उष्णपरीषहमधिकृत्याहपुढे गिम्हाभितावेणं, विमणे सुपिवासिए। तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ||५||
ग्रीष्मेऽभितापेन स्पृष्टः सन् विमनाः सुपिपासितो बाहुल्येन दैन्यमुपयातीति दर्शयति तत्र उष्णपरीषहोदये सति मन्दा विषीदन्ति यथा मत्स्या अल्पोदके मरणमुपयान्ति, एवं सत्त्वाभावात् संयमाद् भ्रश्यन्तीति ।।५।। साम्प्रतं याञ्चापरीषहमधिकृत्याहसदा दत्तेसणा दुक्खं, जायणा दुप्पणोल्लिया । कम्मर्ता दुभगा चेव, इच्चाहंसु पुढो जणा ||६||
सदा याचिते परेण दत्ते एषणा दुःखा क्षुधादिवेदनातैरनेषणीयं दुःखेन प्रतिषिध्यते इति, तथा धर्मसाधनप्रवृत्तानां या याचना साऽपि दुष्प्रणोद्या-दुस्त्याज्येति गताभिमाना महासत्त्वा याञ्चापरीषहं सहन्ते । श्लोकपश्चार्द्धनाऽऽक्रोशपरीषहं दर्शयति-पृथग्जना: प्राकृतपुरुषा इत्याह :एते यतयः कर्मात्ता: पूर्वस्वकृतकर्मण: फलमनुभवन्ति यदिवा कृष्यादिकर्मभिरार्ताः, तथा दुर्भगा:
Page #49
--------------------------------------------------------------------------
________________
aadaacksociaticist श्री सूत्रकृताङ्गसूत्रम् adodaai ४४ | सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गताः सन्तो यतय: संजाता इति ।।६।। एतान् शब्दान् सोढुमशक्नुवतां यद्भवति तदाह- ... -- - - एते सद्दे अचायंता, गामेसु नगरेसु वा । तत्थ मंदा विसीयंति, संगामंसि व भीरुणो ||७||
एतान् आक्रोशरूपान् शब्दान् सोढुम् अशक्नुवन्तो ग्रामेषु नगरेषु तदन्तराले वा व्यवस्थिताः तत्र आक्रोशे सति मन्दा विषीदन्ति सङ्ग्रामे मरणभयादिव भीरवः ।।७।। वधपरीषहमधिकृत्याहअप्पेगे झुझियं भिक्खुं, सुणी दसति लूसए । तत्थ मंदा विसीयंति, तेजपुट्ठा व पाणिणो ||८||
अप्येको लूषक: क्रूरो भक्षकः श्वादिः क्षुधितं भिर्धा दशति, तत्र भक्षणे सति तद्दुःसहत्वाद् मन्दा विषीदन्ति-संयमाद भ्रश्यन्ति यथा तेजः स्पृष्टा दह्यमानाः प्राणिनो वेदनार्ता गात्रं सङ्कोचयन्तीति ।।८।। पुनरपि तानधिकृत्याहअप्पेगे पडिभासंति, पाडिपंथियमागता | पडियारगया एते, जे एते एवंजीविणो ||९||
अप्येके अपुष्टधर्माण: प्रतिपथमागतान् यतीन् दृष्ट्वा प्रतिपन्थितामागताः-विद्वेषितां प्राप्ताः सन्त: प्रतिभाषन्ते, तद्यथा एते पूर्वाचरितस्य कर्मणः प्रतिकारं गताः प्राप्ताः स्वकृतकमफलभोगिनो य ऐते यतय एवंजीविन:-भिक्षावृतयोऽदत्तदाना दु:खं जीवन्तीति ।।९।। किञ्चअप्पेगे वइं जुंजंति, निगिणा पिंडोलगाहमा । मुंडा कंडूविणटुंगा, उज्जल्ला असमाहिया ।।१०।।
__अप्येके अनार्या वाचं युञ्जन्ति-भाषन्ते, तद्यथा-एते जिनकल्पिकादयो नग्ना: पिण्डावलगका: परपिण्डप्रार्थका अधमा मुण्डाः कण्डूविनष्टाङ्गा-क्वचित्कण्डूकृतक्षतै रेखाभिर्वा विकृतशरीराः, अप्रतिकर्मशरीरतया वा क्वचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गः तथा उज्जल्ला: उपचिततनुमला असमाहिता: अशोभना दुष्टा वाऽसमाधिमुत्पादयन्तीति ।।१०।। साम्प्रतमेतद्भाषकाणां विपाकदर्शनायाहएवं विप्पडिवण्णेगे, अप्पणा तु अजाणगा । तमाओ ते तमं जंति, मंदा मोहेण पाउडा ||११||
एवम् एके विप्रतिपन्नाः साधुमार्गद्वेषिण आत्मना-स्वयं तु अजानका अन्येषां च विवेकिनां वचनमकुर्वाणा अज्ञानरूपात् तमसः सकाशात् उत्कृष्टं तमो यान्ति, यदिवाऽधस्ता
Page #50
--------------------------------------------------------------------------
________________
aadbadchudaededadiad श्री सूत्रकृताङ्गसूत्रम् trackadedadedas४५) दप्यधस्तनीं गतिं गच्छन्ति यत: ते मन्दा मोहेन-अज्ञानेन प्रावृता इति ।।११।। अथ दंशमशकपरीषहमधिकृत्याहपुट्ठो य दंस-मसएहिं, तणफासमचाइया । न मे दिढे परे लोए, जइ परं मरणं सिया ||१२||
स्पृष्टो दंशमशकैस्तृणस्पर्श च सोढुम् अशक्नुवन् कदाचिदेवं चिन्तयेत्, तद्यथायन्निमित्तं क्लेश: सह्यतेऽसौ परलोको न मया दृष्टः तथापि क्लेशसहनस्य यदि परं फलं स्यात् तदा मरणम् एव, नान्यत्किञ्चिदिति भावः ।।१२।। अपि चसंतत्ता केसलोएणं, बंभचेरपराजिया । तत्थ मंदा विसीयंति, मच्छा पविट्ठा व केयणे ||१३||
संतप्ताः केशलोचेन ब्रह्मचर्येण च पराजिताः सन्तः तत्र केशोत्पाटनेऽतिदुर्जयकामोद्रेके वा सति मन्दा विषीदन्ते-शीतलविहारिणो भवन्ति सर्वथा वा संयमाद् भ्रश्यन्ति यथा मत्स्याः केतने मत्स्यबन्धने प्रविष्टाः सन्तो जीविताद् भ्रश्यन्तीति ।।१३।। किञ्चआतदंडसमायारा, मिच्छासंठियभावणा | हरिसप्पदोसमावण्णा, केयि लूसंतिऽणारिया ||१४||
आत्मदण्डसमाचारा: आत्मानं दण्डनशीला, मिथ्यासंस्थितभावनाः मिथ्यात्वोपहृतदृष्टयः केचिदनार्या हर्षप्रद्वेषमापन्ना: क्रीडया प्रद्वेषेण वा साधुं लूषयन्ति-कदर्थयन्तीति ।।१४।। एतदेव दर्शयितुमाहअप्पेगे पलियंते सिं, चारि चोरो त्ति सुव्वयं । बंधंति भिक्खुयं बाला, कसायवयणेहि य ||१५||
अप्येके अनन्तरोक्तस्वरूपा बालस्तेषां देशस्य पर्यन्ते वर्तमानं सुव्रतम् अपि भिक्षुकं चरः अयं चौरो वाऽयम् इति मत्वा बध्नन्ति कषायवचनैश्च क्रोधप्रधानकटुवचनैश्च निर्भत्स्यन्तीति ।।१५।। अपि चतत्थ दंडेण संवीते, मुट्ठिणा अदु फलेण वा | णातीणं सरती बाले, इत्थी वा कुद्धगामिणी ||१६|| ... तत्र अनार्यदेशपर्यन्ते वर्तमानः साधुरनायें: दण्डेन मुष्टिना अथवा फलेन-खड्गा
दिना संवीत : प्रहतः सन् बालो ज्ञातीनां स्वजनानां स्मरति यथा स्त्री क्रुद्धागामिनी-क्रुद्धा सती --- स्वगृहाद् गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चा
Page #51
--------------------------------------------------------------------------
________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
तापा ज्ञातीनां स्मरति, एवमसावपीति ।। १६ ।। उपसंहारार्थमाहएते भो ! कसिणा फासा फरुसा दुरहियासया । हत्थी वा सरसंवीता, कीवाऽवस गता गिहं ||१७|| त्ति बेमि ।
४६
भो ! शिष्याः ! एते पुर्वोक्ताः कृत्स्नाः परुषा : स्पर्शा दुरध्यासा: दुस्सहाः, तांश्चासहमाना: केचन क्लीबा अवशा: कर्मायत्ता अश्लाघामङ्गीकृत्य पुनरपि गृहं गताः, यथा रणशिरसि शरसंवीता शरशताकुला हस्तिनो भङ्गमुपयान्ति, पाठान्तरं वा 'तिव्वसढगा गता हिं बेमि' ि तीव्रैरुपसर्गैरभिद्रुता: शठाः शठानुष्ठाना: संयमं परित्यज्य गृहं गता इति ब्रवीमि ।।१७।। । इति उपसर्गाध्ययने प्रथमोद्देशक: ।
॥ अथ द्वितीयोद्देशकः ||
अस्य चायममिसम्बन्धः अनन्तरोद्देशके प्रतिकूला उपसर्गा: प्रतिपादिताः, इह त्वनुकूला: प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्अहिमे सुहुमा संगा, भिक्खूणं जे दुरुत्तरा । जत्थ एगे विसीयंति, ण चयंति जवित्तए ||१||
अथ इमे अनन्तरमेवाभिधीयमानाः प्रायश्चेतोविकारकारित्वात् सूक्ष्माः सङ्गाः मातापित्रादिसम्बन्धाः सन्ति ये भिक्षूणाम् अपि दुरुत्तरा : दुर्लङ्घया यत्र एके विषीदन्ति न चात्मानं संयमे यापयितुं-व्यवस्थापयितुं शक्नुवन्ति ।। १ ।। तानेव सूक्ष्मसङ्गान् दर्शयितुमाहअप्पे णायओ दिस्स, रोयंति परिवारिया ।
पोसणे तात ! पुट्ठोऽसि, कस्स तात ! चयासि णे ॥२॥
अप्येके ज्ञातयः स्वजना मातापित्रादयः प्रव्रजितं दृष्ट्वा परिवार्य - वेष्टयित्वा रुदन्ति वदन्ति च यथा पालको भविष्यतीति तात ! पुत्र ! पुष्टोऽसि, ततोऽधुना नः पोषय, कस्य कृते न कारणेन कस्य वा बलेन तात ! जहासि नः ।। २ ।। किञ्च
पिता ते थेओ तात ! ससा ते खुड्डिया इमा । भायरो ते सगा तात ! सोयरा किं चयासि णे ॥३॥
aa ! पिता ते स्थविर : वृद्धः स्वसा ते क्षुल्लिका इयं तथा भ्रातरस्ते स्वका: सोदरा: किं जहासि नः ? ।। ३ ।। तथा
Page #52
--------------------------------------------------------------------------
________________
ociadaachaadaare श्री सूत्रकृताङ्गसूत्रम् skachchhades ४७ | मातरं पितरं पोस, एवं लोगो भविस्सइ । एयं खु लोइयं ताय ! जे पालंति मातरं ||४||
मातरं पितरं च पोषय एवं लोको भविष्यति अयं परश्च तात ! एवं खलु लौकिकंलोकाचीर्णमिदमेव ये पालयन्ति मातरं पितरं च तेषामुभयलोकसिद्धिरिति, तथा चोक्तम्-गुरवो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ।।१।। इति ।।४।। अपि चउत्तरा महुरुल्लावा, पुत्ता ते तात ! खुड्डगा | भारिया ते णवा तात ! मा से अण्णं जणं गमे ||५||
हे तात ! उत्तरा:-प्रधाना उत्तरोत्तरजाता वा मधुरोल्लापाः पुत्रास्ते क्षुल्लका: तथा हे तात ! भार्या ते नवा मा सा त्वया परित्यक्ता सती अन्यं जनं गच्छेत्-उन्मार्गयायिनी स्यादिति ।।५।। अपि चएहि ताय ! घरं जामो, मा तं कम्म सहा वयं । बीयं पि तात ! पासामो, जामु ताव सयं गिह ||६||
जानिमो वयं यत्त्वं कर्मभीरुस्तथापि एहि तात ! गृहं थामो मा त्वं किमपि साम्प्रतं कर्म कृथाः, अपि तु तव कर्मणि समुपस्थिते वयं सहायका भविष्यामः, एवं द्वितीयमपि वारं तात ! त्वं स्वगृहे तिष्ठन्तं पश्यामः, अतो यामस्तावत् स्वकं गृहमिति ।।६।। किञ्चगंतुं तात ! पुणाऽऽगच्छे, ण तेणऽसमणो सिया । अकामगं परक्कम्म, को ते वारेउमरहति |७||
तात ! गृहं गत्वा पुनरागच्छेः, न हि त्वं तेन गृहगमनमात्रेण अश्रमणः स्याः अकामकंगृहव्यापारेच्छारहितं वार्द्धक्ये वा मदनेच्छाकामरहितं संयमानुष्ठानं प्रति पराक्रमन्तं कस्त्वां वारयितुमर्हतीति ।।७।। अन्यच्चजं किंचि अणगं तात ! तं पि सबं समीकतं । हिरण्णं ववहारादी, तं पि दासामु ते वयं ||८||
यत्किञ्चिद् ऋणम् आसीत् तात ! तदपि सर्वं समीकृतम्-उत्तारितं, यत्किञ्चिद् हिरण्यं व्यवहारादौ उपयुज्यते तदपि दास्यामस्ते वयं येन त्वं सुखेन व्यवहरसीति ।।८।। उपसंहारार्थमाह
Page #53
--------------------------------------------------------------------------
________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् saaaaai ४८ इच्चेव णं सुसेहंति, कालुणिया समुट्ठिया । विबद्धो नातिसंगेहिं, ततोऽगारं पधावति ॥९॥
इत्येवं करुणानि क्रदन्तो रुदन्तश्च कारुणिकं दैन्यं समुपस्थिताः सन्तस्ते ज्ञातयः तं प्रव्रजितं प्रव्रजन्तं वा सुशिक्षयन्ति-व्युद्ग्राहयन्ति, स च ज्ञातिसङ्गैविबद्धः-परवशीकृत: ततः अगारं-गृहं प्रति प्रधावतीति ।।९।। किञ्चान्यत्-.. जहा रुक्खं वणे जायं, मालुया पडिबंधति । एवं णं पडिबंधंति, णातओ असमाहिणा ||१०||
__यथा वने जातं रुक्षं-वृक्षं मालुका-वल्ली प्रतिबध्नाति वेष्टयति एवं ज्ञातयस्तंप्रव्रजितम् असमाधिना प्रतिबध्नन्ति, ते तत् कुर्वते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तम्अमित्तो मित्तवेसेणं, कंठे घेत्तूण रोयइ । मा मित्ता ! सोग्गइं जाहि, दोवि गच्छामु दुग्गइं ।।१।। ।।१०।। अपि चविबद्धो णातिसंगेहिं, हत्थी वा वि नवग्गहे । पिट्टतो परिसप्पंति, सूतीगो व्ब अदूरगा ||११||
- यथा नवग्रहे-अभिनवग्रहणे हस्ती अपिधृत्युतपादनार्थमिक्षुशकलादिभिरुपचर्यते एवमसावपि ज्ञातिसङ्गैर्विबद्धः परवशीकृत: सर्वानुकूलैरुपायैरुपचर्यते, दृष्टान्तरमाह-यथा सूताअभिनवप्रसूता गौ: निजस्तनन्धयस्य अदूरगा सती पृष्ठतः परिसर्पति एवं तेऽपि निजा उत्प्रवजितं पुनर्जातमिव मन्यमान: पृष्ठतः परिसर्पन्तीति ।।११।। सङ्गदोषदर्शनायाहएते संगा मणुस्साणं, पाताला व अतारिमा । कीवा जत्थ य कीसंति, नातिसंगेहिं मुच्छिता ।।१२।।
एते सङ्गाः मातपित्रादिसम्बन्धा मनुष्याणां पाताला इव समुद्रा इव अतारिमा:दुस्तरा यत्र च ज्ञातिसङ्गेषु क्लीबा मूर्छिता: सन्त: क्लिश्यन्त इति ।।१२।। अपि च-. तं च भिक्खू परिण्णाय, सब्वे संगा महासवा । जीवितं नाहिकंखेज्जा, सोच्चा धम्ममणुत्तरं ।।१३।।
भिक्षुः तं च ज्ञातिसङ्गं संसारैकहेतुं परिज्ञाय परिहरेत् यत: सर्वे सङ्गाः महाश्रवाः सन्ति, तथा श्रुत्वा धर्ममनुत्तरम् अनुकूलैरुपसर्गेरुपस्थितैरपि जीवितं-असंयमजीवितं-गृहवासपाशं नाभिकाङ्क्षदिति ।।१३।। अन्यच्च
Page #54
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
अहिमे संति आवट्टा, कासवेण पवेदिता |
बुद्धा जत्थावसप्पंति, सीयंति अबुहा जहिं ||१४||
अथ इमे वक्ष्यमाणाः प्राणिनं भवसमुद्रे आवर्तयन्ति-भ्रामयन्तीति आवर्ता :-विषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः काश्यपेन श्रीवर्द्धमानस्वामिना प्रवेदिताः सन्ति यत्र येषु सत्सु बुद्धा दूरत एव अवसर्पन्ति अबुधास्तु यत्र- येषु सीदन्ति आसक्ति कुर्वन्तीति ।।१४।। ताने वावर्तान् दर्शयितुमाह
रायाणो रायमच्चा य, माहा अदुव खत्तिया | निमंतयंति भोगेहिं, भिक्खुयं साहुजीविणं ||१५|
राजानो राजामात्याश्च ब्राह्मणा अथवा क्षत्रिया निमन्त्रयन्ति भोगैर्भिक्षुकं साधुजीविनं-संयमजीविनं यथा ब्रह्मदत्तेन चित्रसाधुरुपनिमन्त्रित इति ।। १५ ।। एतदेव दर्शयितु
माह
४९
हत्थऽस्स-रह-जाणेहिं, विहारगमणेहि य ।
भुंज भोगे इमे सग्घे, महरिसी पूजयामु तं ॥१६॥
हस्त्यश्वरथयानैः विहारगमनैश्च-उद्यानिकागमनैश्चोपनिमन्त्रयेयुः, तद्यथा-भुङ्क्ष्व भोगानिमान् श्लाध्यान् महर्षे ! एवमपि पूजयामस्त्वामिति ।। १६ ।। किञ्चान्यत्
वत्थगंधमलंकारं, इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई, आउसो ! पूजयामु तं ||१७||
वस्त्रगन्धमलङ्कारं स्त्रियः शयनानि च अस्माभिर्यौकितान् इमान् भोगान् भुङ्क्ष्व हे आयुष्मन् ! पूजयामस्त्वामिति ।।१७।। अपि च
जो तुमे नियमो चिण्णो, भिक्खुभावम्मि सुव्वता । अगारमावसंतस्स, सव्वो संविज्जए तहा ||१८||
यस्त्वया पूर्वं भिक्षुभावे- प्रव्रज्यावसरे नियमो यथा चीर्ण: अनुष्ठित: हे सुव्रत ! स साम्प्रतमपि अगारमावसतो भवतः सर्वः संविद्यते तथा, न हि सुकृतदुष्कृतस्यानुचीर्णस्य नाशोऽस्तीति भावः ।। १८ ।। किञ्च
चिरं दूइज्जमाणस्स, दोसो दाणि कुतो तव ।
इच्चेव णं निमंतेंति, नीवारेण व सूयरं ||१९||
चिरं द्रवत :- विहरतः सतः इदानीं दोष: कुतस्तव ? इत्येवं हस्त्यश्वरथवस्त्रादिभिः
Page #55
--------------------------------------------------------------------------
________________
aadhariddad श्री सूत्रकृताङ्गसूत्रम्
५० तं भिक्षु निमन्त्रयन्ति यथा नीवारेण व्रीहिविशेषेण सूकरमिति ।।१९।। अनन्तरोपन्यस्तवाकॊपसंहारार्थमाहचोदिता भिक्षुचरिया, अचयंता जवित्तए । तत्थ मंदा विसीयंति, उज्जाणंसि व दुब्बला |२०||
भिक्षुचर्यया-दशविधचक्रवालसामाचार्या यदिवा करणभूतया सीदन्तश्चाचार्यादिकैः चोदिताः सन्त: संयमानुष्ठानेनात्मानं यापयितुम् अशक्नुवन्तस्तत्र संयमे मन्दा विषीदन्ति यथा उद्याने मार्गस्योन्नते भागे उत्क्षिप्तमहाभारा दुर्बला वृषभा न निर्वाहका भवन्त्येवं भावमन्दा उत्क्षिप्तपञ्चमहाव्रतभारं वोढुमसमर्थाः पूर्वोक्तभावार्ते: पराभग्ना: संयमं परित्यजन्तीति ।।२०।। किञ्चअचयंता व लूहेण, उवहाणेण तज्जिता । तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा ।।२१।।
रुक्षेण-संयमेन आत्मानं यापयितुम् अशक्नुवन्त उपधानेन च-तपसा च तर्जिताः सन्तः तत्र-संयमे मन्दा विषीदन्ति यथा उद्याने-उट्टकमस्तके जरगौरिति ।।२१।। एवं निमंतणं लद्धं, मुच्छिया गिद्ध इत्थीसु । अज्झोववण्णा कामेहं, चोइज्जंता गिहं गय ||२२|| त्ति बेमि ।
एवं निमन्त्रणं लब्ध्वा हस्त्यश्वरथादिषु मूर्छिता: स्त्रीषु गृद्धाः कामेषु च अध्युपपन्नाचोद्यमानाः चोदनां सोढुमशक्नुवन्तः प्रव्रज्यां परित्यज्याऽल्पसत्त्वा गृहं गता इति ब्रवीमि ।।२२।।
॥ इति द्वितीयोद्देशकः ॥
|| अथ तृतीयोद्देशकः ।। साम्प्रतं तृतीयोद्देशक: समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकाभ्यामुपसर्गा अभिहिता: तैश्चाध्यात्मविषीदनं भवतीति तदनेनोद्देशेन प्रतिपाद्यत इत्यस्योद्देशकस्यादिसूत्रम्जहा संगामकालम्मि, पिट्ठतो भीरु पेहति । वलयं गहणं नूमं, को जाणेइ पराजयं ||१|| .. यथा सङ्ग्रामकाले व्रजन् कश्चिद्भीरु:आदावेवापत्प्रतिकारहेतुभूतं पृष्ठतो वलयंवलयाकारं गर्तापरिक्षेपं, गहनं-वनं, नूम-गिरिगुहां वा प्रेक्षते यतः स एवं मन्यते को जानाति
Page #56
--------------------------------------------------------------------------
________________
aaaaadalatakarad श्री सूत्रकृताङ्गसूत्रम् aadaradises ५१ | पराजयं ? कस्यात्र पराजयो भविष्यतीति ।।१।। किञ्चमुहुत्ताणं महत्तस्स, मुहत्तो होति तारिसो । पराजियाऽवसप्पमो, इति भीरू उवेहति ||२||
मुहूर्तानाम् एकस्य वा मुहूर्तस्य अपरो मुहूर्त: कालविशेषलक्षणोऽवसर: तादृशो भवति यत्र विजय: पराजयो वा भवति, तत: पराजिता: चेद् अवसाम इति भीरुः शरणम् उत्प्रेक्षते ।।२।। इति श्लोकद्वयेन दृष्टान्तं प्रदर्श्य दाटन्तिकमाहएवं तु समणा एगे, अबलं नच्चाण अप्पगं | अणागतं भयं दिस्सा, अवकप्पंतिमं सुयं ||३||
__एवं तु श्रमणा एके-अल्पसत्त्वा आत्मानं यावज्जीवं संयमभारवहनाय अबलं ज्ञात्वा अनागतं च भयं आजीविकाभयं दृष्ट्वा उत्प्रेक्ष्य इदं व्याकरण-गणित-ज्योतिष्क-वैद्यकं होराशास्त्रं मन्त्रादिकं वा श्रुतम् अधीतं त्राणाय स्यादिति अवकल्पयन्ति ।।३।। यथा ते भयं त्राणं चोत्प्रेक्षन्ते तथाहको जाणति विओवातं, इत्थीओ उदगाओ वा । चोइज्जंता पवक्खामो, न णे अत्थि पकप्पितं ।।४।।
को जानाति संयमाद् व्यवपातं ? किं स्त्रीतः स्त्रीपरीषहात् उदकात् स्नानाद्यर्थमुदकासेवनाभिलाषाद् वा स्यात् ? इत्येवं ते प्रकल्पयन्ति नास्ति नः किञ्चित् प्रकल्पितं पूर्वोपाजितं द्रव्यजातम्, अत: चोद्यमानाः-पृच्छयमानाः परेण प्रवक्ष्यामः अधीतं श्रुतं प्रयोक्ष्याम इत्येवं सम्प्रधार्य ते व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति ।।४।। उपसंहारार्थमाहइच्चेवं पडिलेहंति, वलाइ पडिलेहिणो । वितिगिंछसमावण्णा, पंथाणं व अकोविया ||५||
सङ्ग्रामे प्रविवक्षवो भीरवो वलयादिप्रतिलेखिनो भवन्ति इत्येवं प्रव्रजिता अपि अल्पसत्त्वा विचिकित्सां-चित्तविप्लुतिं समापन्ना व्याकरणादिकं जीवनोपायत्वेन प्रतिलेखयन्ति परिकल्पयन्ति यथा पन्थानं प्रति अकोविदाः पथि चित्तविलमिया विषीदन्ति इति ।।५।। साम्प्रतं महापुरुषचेष्टिते दृष्टान्तमाहजे उ संगामकालम्मि, नाता सूरपुरंग ण ते पिट्ठमुवेहंति, किं परं मरणं सिय ई
Page #57
--------------------------------------------------------------------------
________________
dailad श्री सूत्रकृताङ्गसूत्रम् daa ५२ ]
ये तु ज्ञाता शूरपुरङ्गमाः-शूराणामग्रगामिनः सङ्ग्रामकाले सङ्ग्रामं प्रविशन्तो न ते पृष्ठं वलयादीन् उत्प्रेक्षन्ते, अपित्वेवं मन्यन्ते-किम् अपरमस्माकं भविष्यति ? यदि परं मरणं स्यात् तच्च शाश्वतं यश:प्रवाहमिच्छतामस्माकं स्तोकं वर्तत इति यदिवा मरणात् परं अधिकं किं अस्माकं भविष्यतीति ।।६।। तदेवं सुभटदृष्टान्तं प्रदर्श्य दार्टान्तिकमाहएवं समुट्ठिए भिक्खू, वोसिज्जाऽगारबंधणं । आरंभ तिरियं कट्ट, अत्तत्ताए परिब्बए |७||
____एवं संयमानुष्ठानेन समुत्थितो भिक्षुः व्युत्सृज्य अगारबन्धनम् आरम्भं च तिर्यक्कृत्य-तिरस्कृत्य आत्मत्वाय-कृत्स्नकर्मक्षयाय परिव्रजेदिति ।।७।। उक्तमध्यात्मविषीदनं, साम्प्रतं परवादिवचनमधिकृत्याहतमेगे परिभासंति, भिक्खुयं साहुजीविणं । जे ते उ परिभासंति, अंतए ते समाहिए ||८||
तं साधुजीविनं भिक्षु ये ऐके-गोशालकमतानुसारिण आजीविका दिगम्बरा वा एवं वक्ष्यमाणनीत्या परिभाषन्ते निन्दन्ति ते समाधे: चित्तसमाधानात् सम्यग्ध्यानात् सदनुष्ठानाद् मोक्षाद् वा अन्तके-पर्यन्ते दूरे वर्तन्त इति ।।८।। यत्ते प्रभाषन्ते तद्दर्शयितुमाहसंबद्धसमकप्पा, अन्नमन्नेसु मुच्छिता | पिंडवायं गिलाणस्स, जं सारेह दलाह य ।।९।।
यूयं तु सम्बद्धसमकल्पाः गृहस्थतुल्याऽऽचारा अन्येष्वन्येषु मूर्च्छिता यत् पिण्डपातं भैक्ष्यं ग्लानाय सारयथ-अन्वेषयथ ददध्वं च ।।९।। साम्प्रतमुपसंहारव्याजेन दोषदर्शनायाहएवं तुब्भे सरागत्था, अन्नमन्नमणुव्वसा । नट्ठसप्पहसब्भावा, संसारस्स अपारगा ||१०||
एवं परस्परोपकारादिना यूयं सरागस्था:-सरागस्वभावस्था अन्योऽन्यम् अनुवशा इति नष्टसत्पथसद्भावा अत: संसारस्य अपारगा इति ।।१०।। अयं तावत्पूर्वपक्षः, अस्य च दूषणाया समाभासंप्याक्खू मोक्खविसारए । एवं तुभ पभासद दुषक चेव सेवहा ।।११।।
अथ तान-पान मोक्षवशारदः-मोक्षमार्गप्ररूपको भिक्षुः प्रतिभाषेत, तद्यथा
Page #58
--------------------------------------------------------------------------
________________
aadebeddedbaddakad श्री सूत्रकृताङ्गसूत्रम् sardakadaas ५३ | एवं यूयं प्रभाषमाणा दुष्पक्षं असत्प्रतिज्ञाभ्युपगमं यदिवा द्विपक्षं-रागद्वेषात्मकं सदोषात्मीयपक्षसमर्थनाद् रागो, निष्कलङ्कस्यास्मदभ्युपगमस्य दूषणाद् द्वेषः, अथवा वक्ष्यमाणनीत्या बीजोदकोद्दिष्टकृतभोजित्वाद् गृहस्थत्वं यतिलिङ्गाभ्युपगमात्किल प्रव्रजितत्वं चैव सेवध्वमिति ।।११।। आजीविकादीनां दिगम्बराणां चासदाचारनिरुपणायाहतुब्भे भुंजह पाएसु, गिलाणा अभिहडं ति य । तं च बीओदगं भोच्चा, तमुद्देसादि जं कडं ||१२||
यूयं आजीविकादयो गृहस्थगृहे तेषां पात्रेषु भुङ्ग्ध्वं ततश्च पूर्वकर्मपश्चात्कर्मापत्तिः, तथा दिगम्बराणां यतेरानयनाधिकाराभावात् गृहस्थैः अभ्याहते सति, तं च आहारं भुक्त्वा ग्लानो तमुद्दिश्य यत् गृहस्थैः बीजोदकम् उपमर्च कृतं-निष्पादितं तदौदेशिकादि दोषजातं प्राप्नोतीति ।।१२।। किञ्चान्यत्लित्ता तिव्बाभितावेण उज्झिआ, असमाहिया । नातिकंडुइतं सेयं, अरुयस्सावरज्झती ।।१३।।
साधुनिन्दारूपं यूयममर्षरूपेण तीव्राभितापेन लिप्ता: सद्विवेकेन च उज्झिता: अत एव असमाहिताः । यथा अरुषः व्रणस्य अतिकण्डूयितं न श्रेयः, अपितु पीडाहेतुत्वात् अपराध्यति, एवं भिक्षापात्रादिकमपि संयमोपकरणं परिहरतां युष्माकमशुद्धाहारपरिभोगरूपव्रणवतां सम्बद्धसमकल्पाद्यभ्याख्यानरूपमतिकण्डूयितं न श्रेय इति भावः ।।१३।। अपि चतत्तेण अणुसट्टा ते अपडिण्णेण जाणया । ण एस णियए मग्गे असमिक्खा वई किती ||१४||
तत्त्वेन अनुशासिताः ते आजीविकादयो बोटिका वा अप्रतिज्ञेन-असदपि समर्थनीयमित्येवंप्रतिज्ञारहितेन साधुना हेयोपादेयार्थपरिच्छेदकेन जानता, तथाहि-एष न नियत:-न निश्चितो न युक्तिसङ्गतो भवदभ्युपगतो मार्ग: अतो भवतां 'संबद्धसमकल्पा' इत्यादिका वाक्
औदेशिकाभ्याहृतादिभोजनादिका च कृतिः असमीक्षिता एव ।।१४।। एतदेव दृष्टान्तेनाहएरिसा जा वई एसा, अग्गे वेणु व करिसिता । गिहिणं अभिहडं सेयं, भुंजितुं न तु भिक्खुणं ||१५||
या ईदृक्षा भवतां वाक् यथा गृहिणां सम्बन्धि यद् अभ्याहतं तद् यतेर्भोक्तुं श्रेयः, न तु भिक्षूणां सम्बन्धीति एषा वाक् अग्रे वेणुवत् कर्षिता-तन्वी दुर्बला युक्त्यक्षमत्वात् । तनुत्वं चास्या वाच एवं द्रष्टव्यं यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूगमादिदोषरहितमिति ।।१५।। किञ्च
Page #59
--------------------------------------------------------------------------
________________
Bassaiachaat श्री सूत्रकृताङ्गसूत्रम् aadbasidd५४ धम्मपण्णवणा जा सा, सारंभाण विसोहिया ।। न तु एताहिं दिट्ठीहिं, पुबमासि पकप्पियं ।।१६।।
यतीनां दानादिनोपकर्तव्यमित्येवंभूता या धर्मस्य प्रज्ञापना देशना सा सारम्भाणांगृहस्थानां विशोधिका, यतयस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् परवादिमतं दूषयितुं प्रक्रमते-न तु युष्मदीयाभिः एताभिः दृष्टिभिः धर्मदेशनाभिः पूर्वं सर्वज्ञैः प्रकल्पितं-प्ररूपितम् आसीद् इति, यतो न हि सर्वज्ञा एवं प्ररूपयन्ति यथा-असंयतैरेषणाद्यनुपयुक्तैग्लानादेवैयावृत्त्यं विधेयं न तूपयुक्तेन संयतेनेति, अपि च-भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिणस्तत्पद्वेषिणश्चेत्यापन्नमिति ।।१६।। अपि चसव्वाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुज्जो वि पगब्भिता ||१७||
___ आजीविका बोटिका वा सर्वाभिः अनुयुक्तिभिः अशक्नुवन्त: स्वपक्षं यापयितुं व्यवस्थापयितुं ततो वादं निराकृत्य परित्यज्य ते भूयोऽपि वादपरित्यागे सत्यपि प्रगल्भिताः धृष्टतां गता इदमुचुः, तद्यथा-अस्माकं परम्परैव प्रमाणमिति ।।१७।। अपि चरागदोसाभिभूतप्पा, मिच्छत्तेण अभिधुता । अक्कोसे सरणं जंति, टंकणा इव पव्वयं ||१८||
रागद्वेषाभिभूतात्मानो मिथ्यात्वेन च अभिद्रुताः परवादिनो वादपराजिताः क्रोधानुगा आक्रोशान् असभ्यवचनादिरूपान् शरणं यान्ति, पराजिता: टङ्कणा:-म्लेच्छा: पर्वतम् इव ।।१८।। किञ्चान्यत्बहुगुणप्पगप्पई, कुज्जा अत्तसमाहिए। जेणऽण्णो ण विरुज्झेज्जा, तेण तं तं समायरे ।।१९।।
वादकालेऽन्यदा वा बहुगुणप्रकल्पानि-हेतुदृष्टान्तादीनि कुर्यात् उपन्यस्येत् आत्मसमाधिक: साधु: येन-उपन्यस्तेन स्वपक्षसिद्धिलक्षण आत्मसमाधिः स्यात् तथा अन्य:परतीर्थिकश्च धर्मश्रवणादौ प्रवृत्तो न विरुध्येत तेन कारणेन तत्तत् अविरुद्धं समाचरेदिति ।।१९।। तदेवं परमतं निराकृत्योपसंहारद्वारेण स्वमतस्थापनायाहइमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिते ॥२०॥
काश्यपेन-श्रीवर्धमानस्वामिना प्रवेदितमिमं धर्ममादाय भिक्षुः स्वत: अग्लानतया
Page #60
--------------------------------------------------------------------------
________________
aadaasakase श्री सूत्रकृताङ्गसूत्रम् assad५५] समाहितः यथासमाधि ग्लानस्य वैयावृत्त्यं कुर्यादिति ।।२०।। किंकृत्वैतद्विधेयमिति दर्शयितुमाहसंखाय पेसलं धम्म, दिट्ठिमं परिनिबुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएज्जासि ||२१|| त्ति बेमि |
संख्याय-ज्ञात्वा पेशलं दोषशोषकं गुणपोषकं च धर्म तत्त्वतो दृष्टिमान् परिनिर्वृतः शान्तीभूत: उपसर्गान् नियम्य-सोढ्वा आमोक्षाय अशेषकर्मक्षयप्राप्ति यावत् त्वं परिव्रजेरिति ब्रवीमि ।।२१।।
उपसर्ग परिज्ञायास्तृतीयोद्देशकः समाप्तः ।।३।।
|| अथ चतुर्थोद्देशः ॥ अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूलप्रतिकूलोपसर्गाः प्रतिपादितास्तैः साधुर्यदि क्षोभं यायात्तदाऽनेन तस्य प्रज्ञापना प्रतिपाद्यत इत्यस्यादिसूत्रमिदम्आहंसु महापुरिसा, पुदि तत्ततवोधणा । उदएण सिद्धिमावण्णा, तत्थ मंदे विसीयती ||१||
केचनाऽविदितपरमार्था एवम् आहुः-वल्कलचीरितारागणर्षि प्रभृतयो महापुरुषाः पूर्व पञ्चाग्नयादितपोविशेषेण तप्ततपोधना उदकेन शीतोदकपरिभोगेन सिद्धिमापन्ना इत्याकर्ण्य मन्दःअज्ञ: अस्नानादिपरीषहपराजित: तत्र-शीतोदकपरिभोगे विषीदति-लगति निमज्जतीतियावत् । यदिवा तत्र अस्नानव्रते प्रासुकोदकपाने वा विषीदति । न त्वसौ वराक एवमवधारयति, यथातेषां तापसादिव्रतानुष्ठायिनां कुतश्चित् जातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादीनामिव मोक्षावाप्तिः, न तु शीतोदकपरिभोगादिति ।।१।। किञ्चअभुंजिया णमी वेदेही, रामगुत्ते य भुजिया । बाहुए उदगं भोच्चा, तहा नारागणे रिसी ||२||
___ केचन कुतीथिका: साधुप्रतारणार्थमेवमुचुः यदिवा स्वयुथ्या: शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-अशनादिकम् अभुक्त्वा नमी राजर्षि: विदेही-विदेहदेशीयो रामगुप्तश्च राजर्षिराहारादिकं भुक्त्वा बाहुक ऋषिः तथा नारायण ऋषि: उदकं-शीतोदकादिकं भुक्त्वा सिद्धिं गता इति ।।२।। अपि च
Page #61
--------------------------------------------------------------------------
________________
Madaanadaadase श्री सूत्रकृताङ्गसूत्रम् sadaaaaaaad ५६ | आसिले देविले चेव, दीवायण महारिसी । पारासरे दगं भोच्चा, बीयाणि हरियाणि य ॥३॥
आसिलो देविलो द्वैपायनः पाराशरश्च महर्षयो दकं शीतोदकं बीजानि हरितानि च भुक्तवा सिद्धा इति श्रूयते ।।३ ।। एतदेव दर्शयितुमाहएते पुव्वं महापुरिसा, आहिता इह संमता । भोच्चा बीओदगं सिद्धा, इति मेतमणुस्सुतं ||४||
एते नम्यादयो महर्षयः पुर्वमहापुरुषा आख्यातास्ते इह-आर्हतप्रवचनेऽपि केचन सम्मता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः तद्यथा-एते सर्वेऽपि बीजोदकादिकं भुक्त्वा यथा सिद्धा इत्येतन्मया भारतादौ पुराणे अनुश्रुतं तथा वयमप्येवमेव सिद्धिं साधयिष्याम इति ।।४।। एतदुपसंहारद्वारेण परिहरन्नाहतत्थ मंदा विसीयंति, वाहछिन्ना व गद्दभा । पिट्ठतो परिसप्पंति, पीढसप्पी व संभमे ||५||
तत्र-कुश्रुत्युपसर्गोदये मन्दा विषीदन्ति-शीतलविहारिणो भवन्ति यथा वाहच्छिन्ना वा भारोद्वहनत्रुटिता गर्दभाः पृष्ठसर्पिणो-भग्नगतयो वा अग्न्यादिके सम्भ्रमे प्रणष्टजनस्य पृष्ठतः परिसर्पन्ति नाग्रगामिनो भवन्ति, अपितु तत्रैवाग्न्यादिसम्भ्रमे विनश्यन्ति । एवं मोक्षं प्रति प्रवृत्ता अपि तस्मिन्नेव संसारे अनन्तमपि कालं यावदास्त इति ।।५ ।। अथ मतान्तरं निराकर्तुं पूर्वपक्षयितुमाहइहमेगे उ भासंति, सातं सातेण विज्जती । जे तत्थ आरियं मग्गं, परमं च समाहियं ॥६॥
इह एके शाक्यादयः स्वयूथ्या वा एवं भाषन्ते, तथाहि-सातं सातेन विद्यते, सुखं सुखेन लभ्यत इत्यर्थः, न च लोचादिकष्टान्मुक्तिरिति । एवं ये तत्र-मोक्षविचारप्रस्तावे भाषन्ते ये च आर्य मार्ग परमं च समाधि-ज्ञानदर्शनचारित्रात्मकं परिहरन्ति ते सर्वे भवोदधौ पर्यटन्तीति ।।६।। अत उपदिश्यतेमा एयं अवमन्नता, अप्पेणं लुपहा बहुं । एतस्स अमोक्खाए, अयहारि व जूरहा ||७||
मा एनं-जैनेन्द्रमार्गम् अवमन्यमाना यूयम् अल्पेन वैषयिकसुखेन बहु-मोक्षसुखं लुम्पथ विध्वंसथ । अपि च-एतस्य ‘सुखं सुखेनैव विद्यत' इत्येतदसदभ्युपगमस्य अमोक्षे-अपरित्यागे
Page #62
--------------------------------------------------------------------------
________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
सति यूयम् अयोहारीव जूरयिष्यथ । यथाऽसौ लोहवाहक : अपान्तराले रुप्यसुवर्णरत्नादिलाभेऽपि दूरमानीतमिति लोहं नोज्झितवान्, पश्चात् स्वस्थानावाप्तावल्पलाभे सति जूरितवानिति ।।७।।
यतः
पाणाइवा वट्टंता, मुसावाए असंजता । अदिन्नादाणे वट्टंता, मेहुणे य परिग्गहे ॥८॥
ते पचनपाचनादिकं कुर्वन्त: प्राणातिपाते वर्तमाना:, मृषावादेऽपि असंयताः संयताः स्म इति भणन्तः येषां जीवानां शरीराण्यभ्यवहरन्ति तैरदत्तानीति अदत्तदानेऽपि, गोपशुधनधान्यग्रामादिपरिग्रहात् मैथुने परिग्रहे च वर्तमाना जूरयिष्यन्तीति ।। ८ ।। अथ मतान्तरदूषणाय पूर्वपक्षयितुमाह
एवमेगे तु पासत्था, पण्णवेंति अणारिया |
इत्थीवसं गता बाला, जिणसासणपरम्मुहा || ९ ||
५७
एवमेके तु पार्श्वस्थादयः अनार्याः स्त्रीवशगता बाला जिनशासनपराङ्मुखाः प्रज्ञापयति ।। ९ ।। किमित्याह
जहा गंडं पिलागं वा, परिपीलेज्ज महुत्तगं ।
एवं विण्णवणित्थी, दोसो तत्थ कुतो सिया ||१०||
यथा काश्चिद् गण्डं पिटकं वा निष्पीड्य पूयरुधिरादिकं निर्माल्य मुहूर्तं सुखित भवति तत्र को दोष: ? एवं स्त्रीविज्ञापनायां - स्त्रीपरिभोगे दोषस्तत्र कुतः स्यात् ? ।। १० ।। किञ्चजहा मंधादए नाम, थिमितं भुंजती दगं ।
एवं विण्णवणित्थीसु, दोसो तत्थ कुतो सिया ॥ ११॥
यथा मन्धादन :- मेषो नाम स्तिमितम् अकलुषयन्नुदकं पिबति एवं स्त्री परिभोगे दोषस्तत्र कुतः स्यात् ? ।। ११ ।। अपि च
जहां विहंगमा पिंगा, थिमितं भुंजती दगं ।
एवं विण्णवणित्थीसु, दोसो तत्थ कुतो सिया ||१२||
यथा पिंगा-कपिञ्जला विहङ्गमा आकाशस्थाः स्तिमितम् उदकं पिबति एवं स्त्रीपरिभोगे दोषस्तत्र कुत: स्यात् ? अपितु न कोऽपीत्यर्थः ।। १२ ।।
अत्रोत्तरदानं-अवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्धके कुतो निर्दोषतेति ।
तथा चोक्तं
Page #63
--------------------------------------------------------------------------
________________
5.
श्री सूत्रकृताङ्गसूत्रम्
प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकप्रवेशज्ञाततस्तथा ।। १ ।। मूलं चैतदधर्मस्य भवभावप्रवर्धनम् । तस्माद्विषान्नवत्त्याज्यमिदं पापमनिच्छता ।। २ ।। उपसंहरन्नाहएवमेगे उ पासत्था, मिच्छादिट्ठी अणारिया । अज्झोववन्ना कामेहिं, पूतणा इव तरुणए ||१३||
एवमेके तु पार्श्वस्थादयो मिथ्यादृष्टयः अनार्या अध्युपपन्ना: कामेषु पूतनेव - डाकिनीव यदि वा मेषीव तरुणके-स्तनन्धये । श्रूयते यतो जिझासुभि: कतरस्यां कतरस्यां जातौ प्रियाणि शिशूनि ? सर्वजातीनाम् अपत्यानि अनुदके कूपे प्रक्षिप्तानि । ताश्च सर्वाः पशुजातय: कूपतटे स्थित्वा स्वछावकानां शब्दं श्रुत्वा रुदन्त्यस्तिष्ठन्ति, नात्मानं कूपे मुञ्चन्ति तत्रैकया पूतनया आत्मा मुक्तः । त एवं पूतनेव तरुणके कामेषु गृद्धाः ।। १३ ।। एवं कामेषु मूर्च्छितानां दोषमाविष्कुर्वन्नाह
अणागयमपस्संता, पच्चुप्पन्नगवेसगा ।
ते पच्छा परितप्पंति, झीणे आउम्मि जोव्वणे ||१४||
५८
अनागतमपश्यन्तः प्रत्युत्पन्नं गवेषकास्ते पश्चात् क्षीणे स्वीये आयुषि यौवने वाऽपगते परितप्यन्ते-अनुशोचन्ति । एवं तेऽपि मरणकाले नाऽस्माभिर्जितेन्द्रियत्वं भावितं वैराग्यं वा, परलोकं च प्राप्याऽनुशोचन्ति ।। १४ ।। ये तूत्तमास्ते नानुशोचन्तीति दर्शयतिजेहिं काले परक्कतं, न पच्छा परितप्पए ।
धीरा बंधणुम्मुक्का, नावकंखंति जीवियं ||१५||
यैः काले पराक्रान्तं न ते पश्चात् परितप्यन्ते । 'सुकडं तेसिं सामण्णं द्वितीयपदपाठान्तरमाश्रित्य-तेषां सुकृतं श्रामण्यमिति । त एव धीरा बन्धनोन्मुक्ता ये नावकाङ्क्षन्ति जीवितं असंयमजीवितं यदिवा जीविते मरणे वा नि:स्पृहा संयमोद्यतमतयो भवन्तीति ।। १५ ।।
अन्यच्च
जहा नदी वेयरणी, दुत्तरा इह सम्मता ।
एवं लोगंसि नारीओ, दुत्तरा अमतीमता ॥१६॥
यथा नदी वैतरणी दुरुत्तरा इह प्रवचने सम्मता, एवं लोकेऽपि नार्यो दुरुत्तरा अमतिमता-निर्विवेकेनेति ।। १६ ।। अपि च
जेहिं नारीण संजोगा, पूयणा पिट्ठतो कता ।
सव्वमेयं निराकिच्चा, ते ठिता सुसमाहिए ||१७||
Page #64
--------------------------------------------------------------------------
________________
aaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaad ५९ ]
यैर्विवेकिभिर्नारीसंयोगाः पूजना-कामविभूषा च पृष्ठतः कृता परित्यक्ता, ते सर्वमेतत्-अनुकूलप्रतिकूलोपसर्गकदम्बकं च निराकृत्य सुसमाधिना स्थिता इति ।।१७।। एतत्फलमाहएते ओघं तरिस्संति, समुदं (व) ववहारिणो । जत्थ पाणा विसण्णा सि, कच्चंती सयकम्मुणा ||१८||
एते स्त्रीपरीषहादिजेतार ओधं-संसारसागरं तरिष्यन्ति समुद्रमिव व्यवहारिणो यत्र संसारसागरे प्राणिनो विषण्णा:-निमग्ना आसते ते कृत्यन्ते स्वकर्मणा आत्मानुष्ठितेनेति ।।१८।। उपसंजिहीर्षुराहतं च भिक्खू परिण्णाय, सुव्वते समिते चरे । मुसावायं विवज्जेज्जा, अदिण्णादाणाइ वोसिरे ।।१९।।
तच्च-उपसर्गजयपराजयफलं भिक्षुः परिज्ञाय सुव्रतः समित : सन् चरेत् । मृषावादं विवर्जयेत्, अदत्तादि च-अदत्तादानं च व्युत्सृजेद् आदिग्रहणात् मैथुनादिकं च परिहरे दिति ।।१९।। अथ सर्वप्रधानप्राणातिपातविरतिमाहउड्डमहे तिरियं वा, जे केई तस-थावरा ।। सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहितं ॥२०॥
ऊर्ध्वमधस्तिर्यग्लोके च ये केचन त्रसाः स्थावराश्च सर्वत्र काले विद्वान् विरतिं कुर्यात् । विरतिरेव विरतितो वा शान्तिः तदेव निर्वाणं वाऽऽख्यातमिति ।।२०।। सर्वेषां मूलोत्तरगुणानां फलमुद्देशेनाहइमं च धम्ममादाय, कासवेण पवेदितं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिते ||२१||
इमं काश्यपेन-श्रीमन्महावीरेण प्रवेदितं धर्ममादाय कुर्यात् भिक्षु : ग्लानस्य वैयावृत्त्यं अग्लान्या समाहितः सन् । इदमुक्तं भवति-कृतकृत्योऽहमिति मन्यमानो वैयावृत्त्यादिकं कुर्यादिति ।।२१।। अन्यच्चसंखाय पेसलं धम्म, दिट्ठिमं परिनिबुडे । उवसग्गे नियामित्ता, आमोक्खाए परिवएज्जासि ||२२|| त्ति बेमि ।।
संख्याय-ज्ञात्वा पेशलं-मोक्षप्रापकं धर्मं दृष्टिमान्-सम्यग्दर्शनी परिनिर्वृतः कषायोपशमाच्छीतीभूत: सन् उपसर्गान् नियम्य-अतिसय 'निरेकिच्चा' पाठान्तरमाश्रित्य निरा
Page #65
--------------------------------------------------------------------------
________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् sadaka६० कृत्य आमोक्षाय-मोक्षं यावत् परिव्रजेरिति ब्रवीमि ।।२२।।
।। तृतीयमध्ययनं समाप्तम् ।।
|| अथ स्त्रीपरिज्ञानाम चतुर्थमध्ययनम् ।। इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां च प्रायोऽनुकूला दु:सहाः ततोऽपि स्त्रीकृताः । अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनाऽऽयातस्याध्ययनस्येदमादिसूत्रम्जे मातरं च पितरं च, विप्पजहाय पुनसंयोगं । एग सहिते चरिस्सामि, आरतमेहुणे विवित्तेसु ।।१।।
यो मातरं पितरं भ्रातृपुत्रादिकं च पूर्वसंयोगं विप्रहाय-त्यक्त्वा एकः रागद्वेषरहितो ज्ञानादिभिः सहित: स्वहितो वा चरिष्यामि संयमम् आरतमैथुन: उपरतकामाभिलाषो विवि
तैषी स्त्रीपशुपण्डवर्जितं शून्यागारादिकं स्थानं विविक्तानां वा मागं कर्मविविक्तं वा मोक्षमेषितुं शीलमस्य तथेति, पठ्यते च-'विवित्तेषु' तथा चोक्तप्रकारविविक्तेषु स्थानेषु संयमं करिष्यामीत्यर्थः ।।१।। तस्यैवंभूतस्य साधोर्यद्भवति तदाहसुहुमेण तं परक्कम्म, छन्नपदेण इथिओ मंदा। उवायं पि ताओ जाणिंसु, जहा लिस्संति भिक्खुणो एगे ||२||
तं महापुरुषं साधुं सूक्ष्मेण-वन्दनादिनिपुणोपायेन पराक्रम्य-उपेत्य अभिभूय वा छन्नपदेन-गुप्ताभिधानेन, तद्यथा-'काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे ! ते प्रत्यया ये प्रथमाक्षरेषु' ।।१।। इत्यादिः, नानाविधकपटशतकरणदक्षा: स्त्रियो मन्दा:-विवेकविकला: संयमाद् भ्रंशयन्ति, यतस्ता: स्त्रियः प्रतारणस्य उपायमपि जानन्ति, पाठान्तरं च 'जाणिंसु' तथा च-ज्ञातवत्यो यथा श्लिष्यन्ते-सङ्गमुपयान्ति भिक्षव एक इति ।।२।। ते तूपाया इमेपासे भिसं नीसियंति, अभिक्खणं पोसवत्थ परिहिंति । कायं अहे वि दंसेंति, बाहुमुद्ध? कक्खमणुवज्जे ||३|| सयणा-ऽऽसणेण जोगे (ग्गे) ण, इत्थीओ एगता निमंतेति । एताणि चेव से जाणे, पासाणि विरूवरूवाणि ||४||
पार्श्वे भृशं निषीदन्ति, अभिक्ष्णं पोषवस्त्रं-कामोत्कोचकारि निवसनं शिथीलादिव्य
Page #66
--------------------------------------------------------------------------
________________
aaaaaaad श्री सूत्रकृताङ्गसूत्रम् sitaas६१] पदेशेन परिहरन्ति परिदधति, अध:कायं-जङ्घोर्वादिकं दर्शयन्ति तथा बाहूध्दृत्य कक्षामादर्य साधुमनुव्रजेत् अभिमुखं व्रजेत् ।।३।। अपि च-ताः स्त्रियस्तं साधुं योग्यैः शयनासनादिभिरेकदा निमन्त्रयन्ति । एवमादीनि अन्यान्यपि भ्रूकटाक्षविक्षेपादीनि विरूपरूपाणि नानारूपाणि तस्य साधो: पाशा : बन्धनरूपाणि जानीयादिति ।।४।। तानि पुन: कथं परिहर्तव्यानि ? उच्यतेनो तासु चक्खु संधेज्जा, नो वि य साहसं समभिजाणे । नो सद्धियं पि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ||५||
नैव तासु चक्षुः सन्दध्यात् सन्धयेद्वा, नापि च साहसं-अकार्यकरणं समनुजानीयात्, नैव स्त्रीभिः सार्धमपि ग्रामादौ विहरेत् । एवमात्मा सुरक्षितो भवति । पाठान्तरं च 'रक्खित्तु सेओ' रक्षित्वा श्रेयः, स इह परलोके च सुरक्षितो भवतीति ।।५ ।। पुनरिदानीं पाशा: एता: कथं भवन्तीत्याहआमंतिय उस्सविया, भिक्खं आतसा निमंति । एताणि चेव से जाणे, सद्दाणि विरूवरूवाणि ||६||
आमन्त्र्य-संकेतं ग्राहयित्वा 'उस्सविया' विश्रम्भे पातयित्वा च भिक्षुमकार्यकरणायऽऽत्मनोपभोगेन निमन्त्रयन्ति यथा युष्मदीयमिदं शरीरमित्यादि प्रलोभनेन । स च भिक्षुः विरूपरूपान्-नानाप्रकारान् एतान् शब्दादिविषयान् सन्मार्गार्गलाभूतान् दुर्गतिगमनैकहेतून् जानीयात् परिहरेच्चेति ।।६।। अन्यच्चमणबंधणेहिं णेगेहिं, कलुणविणीयमुवगसित्ताणं । अदु मंजुलाइं भासंति, आणवयंति भिन्नकहाहिं ||७||
अनेकैर्मनोबन्धनैः मञ्जुलालापस्निग्धावलोकनादिभि: करुणालापविनयपूर्वकम् उपक्रम्य पाठान्तरं च ‘उवगसिताणं' उपकस्य-समीपमागत्य अथ अनन्तरं मञ्जुलानि भाषन्ते तथा भिन्नकथाभिः तं साधुमकार्यकरणं प्रति आनामयन्ति स्ववशं वा ज्ञात्वा आज्ञापयन्ति आज्ञां कारयन्तीति ।।७।। अपि चसीहं जहा व कुणिमेणं, णिब्भयमेगचरं पासेणं । एवित्थिया उ बधंति, संवुडं एगतियमणगारं ||८||
यथा च निर्भयमेकचरं सिंहं कुणिमेण-मांसादिना प्रलोभ्य पाशेन बध्नन्ति तथैव स्त्रियो गतिविभ्रमेङ्गिताकारहास्यादिना संवृतमेकचरमनगारं बध्नन्ति, किं पुन: असंवृतम् ? ।।८।। किञ्च
Page #67
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् adddddes६२ ] अह तत्थ पुणो नमयंति, रहकारु व णेमि आणुपुवीए । बद्धे मिए व पासेण, फंदंते वि ण मुच्चती ताहे ॥९॥
अथ-तदनन्तरं ता: स्त्रियः पुनस्तत्र-स्वकार्यानुकूल्ये तं साधुम् आनुपूर्व्या नमयन्ति प्रवर्तयन्ति यथा रथकारो नेमिकाष्ठम् । एवं स साधुर्मंगवत् पाशेन बद्धो मोक्षार्थं स्पन्दमानोऽपि तत: पाशान्न मुच्यत इति ।।९।। किञ्च- .. अह सेऽणुतप्पती पच्छा, भोच्चा पायसं व विसमिस्सं । एवं विवागमायाए, संवासो न कप्पती दविए ||१०||
____ अथ स: अहर्निशं क्लिश्यमान: पश्चात् अनुतप्यते यथा विषमिश्रं पायसं भुक्त्वा । एवं विपाकम् अन्विष्य ज्ञात्वा 'विवेगमादाय' वा क्वचित्पाठः-विवेकमादाय स्त्रीभिः सार्धं संवासो न कल्पते द्रविके-साधौ, यतः स्त्रीभिः सार्धं संवासोऽवश्यं सदनुष्ठानविधातकारीति ।।१०।। उपसंहरन्नाहतम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं णच्चा । ओए कुलाणि वसवत्ती, आघाति ण से वि णिग्गंथे ||११||
तस्माद् वर्जयेत् स्त्री विषलिप्तमिव कण्टकं ज्ञात्वा । ओजः एकः असहायो वशवर्ती कुलानि-गृहस्थगृहाणि गत्वा गत्वा धर्मकथाम् आख्याति सोऽपि न निर्ग्रन्थः । निषिद्धाचरणसेवनादवश्यं तत्रापायसम्भवात् । किमु यस्ताभिभिन्नकथां कथयति ? ।।११।। किञ्चजे एयं उंछं अणुगिद्धा, अण्णयरा हु ते कुसीलाणं | सुतवस्सिए वि से भिक्खू, णो विहरे सह णमित्थीसु ||१२||
ये मन्दमतय एतद् ‘उच्छं'- निन्दनीयं एकाकिस्त्रीधर्मकथनादिकम् तत्र अनुगृद्धास्ते हि कुशीलानाम् अन्यतरा भवन्ति । अत: सुतपस्वी-विकृष्टतपोनिष्टप्तदेहोऽपि स भिक्षुः स्त्रीभिः सह न विहरेदिति ।।१२।। कतमा: स्त्रियो वाः इत्याहअवि धूयराहिं सुण्हाहिं, धातीहिं अदुव दासीहिं । महतीहिं वा कुमारीहिं, संथवं से णेव कुज्जा अणगारे ||१३॥
___ अपिशब्दः प्रत्येकमभिसम्बध्यते तथा च-दुहितृभिरपि, एवमग्रेऽपि स्नुषाभिः, धात्रीभिः अथवा दासीभिः, महतीभिर्वा कुमारीभिः सः अनगारः संस्तवं न कुर्यादिति ।।१३।। स्यात् किमोत्याह
Page #68
--------------------------------------------------------------------------
________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
अदु णातिणं व सुहिणं वा, अप्पियं ट्टु एगता होति । गिद्धा सत्ता कामेहिं, रक्खण-पोसणे मणुस्सोऽसि ||१४||
I
अथ स्त्रीभि: सह साधुं दृष्ट्वा ज्ञातीनां वा सुहृदां वा एकदा अप्रियं भवति, तथाहिएते प्रव्रजिता अपि गृद्धाः सक्ताः कामेषु । तथैवमपि ते वदेयुः हे ! श्रमण ! त्वमस्या रक्षणं पोषणं च कुरु । अतः परं त्वमेवाऽस्याः मनुष्योऽसीति ।। १४ ।। किञ्चान्यत्समणं पि दट्ठदासीणं, तत्थ वि ताव एगे कुप्पंति ।
अदुवा भोयणेहिं णत्थेहिं, इत्थीदोससंकिणो होंति ||१५||
स्त्रीसहगतम् उदासीनमपि श्रमणं दृष्ट्वा तत्रापि श्रमणेऽपि तावदेके कुप्यन्ति । अथवा प्रतिलम्भनार्थम् उपन्यस्तै : ढौकितैः पानभोजनैः स्त्रीदोषशंकिनो व्यभिचारिणीति शंकाविधायिनो गृहस्था भवन्तीति ।। १५ ।। किञ्च -
कुव्वंति संथवं ताहिं पब्भट्ठा समाहिजोगेहिं ।
"
तम्हा समणा ण समेंति, आतहिताय सण्णिसेज्जाओ ||१६||
६३
कुर्वन्ति संस्तवं ताभि: स्त्रीभिर्ये ते प्रभ्रष्टाः समाधियोगेभ्य:- ज्ञानदर्शनचारित्रयोगेभ्यः । तस्मात् श्रमणा न समेन्ति - समुपागच्छन्ति आत्महिताय संज्ञिशय्याः - स्त्रीवसतीः । पठ्यते च-‘तम्हा समणा उ जहाहि अहिताओ सन्निसेज्जाओ । तथा च - यस्मात् स्त्रीसम्बन्धः अहिताय तस्मात् हे श्रमण ! जहाहि-त्यज संज्ञिशय्या इति ।। १६ ।। किं प्रव्रजिता अप्येवं स्त्रीसम्बन्धं कुर्युः ? ओमित्युच्यते
बहवे गिहाइं अवहट्टु, मिस्सीभावं पत्थुता एगे । धुवमग्गमेव पवदंति, वायावीरियं कुसीलाणं ||१७||
बहवः साध्वाभासा गृहाणि अपहृत्य त्यक्त्वा पुनर्मोहोदयात् मिश्रीभावं द्रव्यलिंगमात्रं प्रस्तुताः-समनुप्राप्तास्ते न गृहस्था नापि प्रव्रजिताः । एवम्भूता अपि ध्रुवमार्गं - मोक्षमार्गं संयममार्गं वा भाषन्ते, तथाहि अस्मदारब्धोऽयमेव मध्यमो मार्गः श्रेयान् । तत्तेषां कुशीलानां वाचावीर्यमेव नानुष्ठानकृतमिति ।।१७।। अपि च
सुद्धं रवति परिसाए, अह रहस्सम्मि दुक्कडं करेति । जाणंति य णं तहावेदा, माइल्ले महासढेऽयं ति ||१८||
शुद्धं रवति-गर्जति पर्षदि, अथ रहसि दुष्कृतं करोति । स हि मोहमूढो मन्यते यथा- न मां कश्चित् पश्यति तथापि जानन्ति च तं तथाविदः कामविदः सर्वज्ञा वा, तथाहि
Page #69
--------------------------------------------------------------------------
________________
००००० श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐॐ६४ मायावी महाशठ: अयमिति ।। १८ ।। किञ्च -
सयं दुक्कडं च न वयइ, आउट्ठो वि पकत्थति बाले । वेणुवी मा कासी, चोइज्जंतो गिलाइ से भुज्जो ॥१९॥
स्वयं दुष्कृतं च न वदति यथाऽहं दुष्कृतकारीति । आक्क्रुष्ट आपृष्टो वा पाठान्तरं 'आइट्ठोवि' आदिष्टोऽपि प्रकत्थते - 2 - श्लाघत आत्मानं बाल : अकार्यं चापलपति । वेदानुवीचि-पुंवेदोदस्याऽऽनुकूल्यं मैथुनगमनं मा कार्षीः । एवं चोद्यमानोऽसौ मानोत्कटतया ग्लायति भूय इति ।। १९ ।। अपि च
उसिया वि इत्थिपोसेसु, पुरिसा इत्थिवेदखेतण्णा । पण्णासमन्निता वेगे, णारीण वसं उवकसंति ||२०||
उषिता अपि स्त्रीपोषेषु स्त्रीपोषकानुष्ठानेषु भुक्तभोगिनोऽपीत्यर्थः पुरुषाः स्त्रीवेदखेदज्ञा: प्रज्ञासमन्विता अप्येके नारीणां वशम् उपकषन्ति व्रजन्ति । पाठान्तरं च 'उवणमंति' उपनमन्तीति ।। २० ।। इहलोक एव विपाकं दर्शयति
अवि हत्थ पादछेदाए, अदुवा वद्धमंस उक्कंते ।
अवि तेयसाऽभितवणाइं, तच्छिय खारसिंचणाइं च ॥२१॥
अदु कण्ण णासियाछेज्जं, कंठच्छेदणं तितिक्खति ।
इति एत्थ पावसंतता, न य बेंति पुणो न काहिं ति ॥२२॥
स्त्रीसम्पर्को हि हस्तपादच्छेदायाऽपि भवति अथवा वर्धमांसोत्कर्तनं चर्ममांसोत्कर्तनमपि, तेजसाऽभितापनानि, त्वक् छित्त्वा क्षारसेचनानि चाऽथ कर्णनासिकाछेदं, कण्ठच्छेदनं तितिक्षन्ते सहन्ते स्त्रीवशगा इति । इत्थं एवं पापसंतप्ता वेदनामनुभवन्ति न च पुनरेतत् न करिष्यामीति ब्रुवते ।। २१-२२।। किञ्चान्यत्
सुतमेतमेवमेगेसिं, इत्थीवेदेति हु सुअक्खायं ।
एवं पिता वदित्ताणं, अदुवा कम्मुणा अवकरेंति ॥२३॥
श्रुतमेवैतदेकेषां लोकश्रुतिषु तथा स्त्रीवेदे वैशिकादिकेऽपि स्वाख्यातं, तद्यथा “दुर्विर्ज्ञेयो हि भावः प्रमदानाम्” । एवमपि तावदुक्त्वा यदा तून्मार्गप्रस्थिता निवारिता भवति यथा, “मैवं कार्षीः,” तदा ‘“न भूयः करिष्यामि ” इत्येवमपि तावदभ्युपगम्य अथ पुनः कर्मणाचेष्टया अपकरोति-प्रतिपन्नं न करोतीति ।। २३ ।। अथ स्त्रीस्वभावमाविष्करोति
Page #70
--------------------------------------------------------------------------
________________
dedeseseardaare श्री सूत्रकृताङ्गसूत्रम् karanatakar६५] अन्नं मणेण चिंति, अन्नं वायाइ कम्मुणा अन्नं । तम्हा ण सद्दह भिक्खू, बहुमायाओ इथिओ णच्चा ||२४||
__ मनसाऽन्यच्चिन्तयति, वाचाऽन्यत् भाषते कर्मणा चान्यत् करोति तस्मात् भिक्षुर्न श्रद्दधीत स्त्रीषु । किं कृत्वा ? बहुमायाः स्त्रिय इति ज्ञात्वा ।।२४।। किञ्चजुवती समणं बूया उ, चित्तलंकारवत्थगाणि परिहेत्ता । विरता चरिस्सहं लूह, धम्ममाइक्ख णे भयंतारो ||२५||
विचित्राऽलङ्कारवस्त्राणि परिधाय युवती श्रमणं बूयात् यथा-विरताऽहं चरिप्यामि ऋक्षं-संयमं तस्मात् हे भयत्रात: अस्माकं धर्ममाचक्षस्वेति ।।२५ ।। अपि चअदु साविया पवायेण, अहमंसि साधम्मिणी य समणाणं । जतुकुंभे जहा उवज्जोई, संवासे विदू विसीएज्जा ||२६||
___ अथवाऽनेन प्रवादेन-व्याजेन, यथा-श्राविकाडिहमितिकृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवं नेदीयसी भूत्वा साधुं धर्मा भ्रंशयति । दृष्टान्तमाह-यथा जतुकुम्भः लाक्षाघटो ज्योतिष:-अग्ने: समीपे विलीयते तथा स्त्रीणां संवासे विद्वानपि विषीदेतेति ।।२६।। अथ स्त्रीसंस्पर्शजं दोषं दर्शयतिजतुकुंभे जोइउवगूढे, आसुऽभितत्ते णासमुपयाति । एवित्थियाहिं अणगारा, संवासेण णासमुवयंति ||२७||
यथा जतुकुम्भो ज्योतिषोपगूढ आशु अभितप्तः सन् द्रवीभूय नाशमुपयाति एवं स्त्रीभिः सार्धं संवासेन-परिभोगेनाऽनगारा आशु विनश्यन्ति ।।२७।। अपि चकुव्वंति पावगं कम्मं, पुट्ठा वेगेवमाहिंसु । नोहं करेमि पावं ति, अंकेसाइणी ममेसत्ति ||२८||
कुर्वन्ति पापकं कर्म परिभ्रष्टाः पृष्टा वाऽऽचार्यादिना एके एवमुक्तवन्तः यथा नाहं करोमि पापं यतो ममैषा दुहितृतुल्या पूर्वम् अङ्केशायिनीति ।।२८।। एवमपलपतो द्विगुणं दोषं दर्शयतिबालस्स मंदयं बितियं, जं च कडं अवजाणई भुज्जो । दुगुणं करेइ से पावं, पूयणकामो विसण्णेसी ||२९।। --- इमां बालस्य द्वितीयां मन्दतां जानीयात् । एका तावत् चतुर्थव्रतभङ्गो द्वितीया तदप
Page #71
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
एवं
०.६६ लापेन मृषावादः, यत्-यस्माद् कृतम्-असदाचरणम् अपजानीते अपलपति भूय:- पुनः, द्विगुणं करोति स पापं यतः स पूजनकाम: अकार्यं प्रच्छादयति विषण्णः - असंयमस्तमेषितुं शीलमस्येति विषण्णैषीति ।। २९ ।। किञ्चसंलोकणिज्जमणगारं, आयगतं णिमंत णे ? णाऽऽहंसु । वत्थं व ताइ ! पातं वा, अन्नं पाणगं पडिग्गाहे ||३०||
संलोकनीयं- दर्शनीयम् अनगारम् आत्मगतं - आत्मज्ञं काश्चन स्वैरिण्यो निमन्त्रणपुरःसरम् आहुः तथाहि-हे त्रायिन् ! वस्त्रं वा पात्रं वाऽन्नं वा पानकं वा प्रतिग्राह्ये- दास्यामहमागत्य गृहाण त्वमिति ।। ३० ।। उपसंहारार्थमाह
णीवारमेयं बुज्झेज्जा, णो इच्छे अगारमागंतुं ।
बद्धे य विसयपासेहिं, मोहमावज्जइ पुणो मंदे ||३१|| त्ति बेमि | एतद्-वस्त्रादिनिमन्त्रणं नीवारं कूटपाशकल्पं बुध्येत तथा नेच्छेद् अगारं गृहं गन्तुम्, पाठान्तरं ‘अगारमावतं’ गृहावर्तं नाभिलषेत्, यत एवं विषयदामभिः शब्दादिपाशैः बद्धःवशीकृतो मोहमापद्यते मोहमूढो भवति पुनर्मन्द इति ब्रवीमि ।। ३१ ।।
-
।। प्रथमोद्देशकः समाप्तः ॥
॥ अथ चतुर्थाऽध्ययने द्वितीयोद्देशकः ||
अनन्तरोद्देशके स्त्रीसंस्तवाच्चारित्रस्खलनमुक्तं, स्खलितशीलस्य याऽवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते
ओजे सदा ण रज्जेज्जा, भोगकामी पुणो विरज्जेज्जा । भोगे समणाण सुणेहा, जह भुंजंति भिक्खुणो एगे ||१||
एवं विपाकं ज्ञात्वा ओज : रागद्वेषरहितो भिक्षुः सदा नीवारकल्पासु स्त्रीषु न रज्येत । मोहोदयात् कदाचिद् भोगकामी पुनः भोगाभिलाषी भवेत्तथापि ताभ्यो ज्ञानाङ्कुशेन विरज्येत । तथा भोगान् विडम्बनाप्रायान् श्रमणानां श्रृणुत यूयं यथा च एके मन्दा भिक्षवो भुञ्जते ॥ १ ॥ विडम्बनामेव दर्शयति
अह तं तु भेदमावन्नं, मुच्छित्तं भिक्खु काममतिवट्टं । पलिभिंदियाण तो पच्छा, पादुद्धट्टु मुद्धि पहणंति ||२||
अथ तं तु भिक्षं भेदं चारित्रस्वलनम् आपन्नं कामेषु मूर्च्छितं काममतिवर्तं कामाभिलाषुकं परिभिद्य वशगं परिज्ञाय कोपाटोपं प्रादुष्कृत्य पादयोः पातयित्वा ततः पश्चात् ताः
Page #72
--------------------------------------------------------------------------
________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐasai६७ स्त्रियः पादमुध्दृत्य मूर्ध्नि प्रहन्ति ।। २ ।। अन्यच्चजइ केसिया णं मए भिक्खू, णो विहरे सह णमित्थीए । केसाणऽविह लुचिस्सं, नऽन्नत्थ मए चरिज्जासि ||३|| अह णं से होई उवलद्धो, तो पेसंति तहाभूएहिं । अलाउच्छेदं पेहेहि, वग्गुफलाइं आहाराहित्ति ||४|| दारुणि सागपागाए, पज्जोओ वा भविस्सती राओ । पाताणि य मे रयावेहि, एहि य ता मे पिट्टओमद्दे ।।५।। वत्थाणि य मे पडिलेहेहि, अन्नपाणं च आहाराहित्ति । गंधं च रओहरणं च, कासवगं च मे समणुजाणाहि ||६||
हेभिक्षो ! यदि केशिकया सकुन्तलया मया स्त्रिया सहन विहरेस्तदाऽहं केशानपि लुञ्चयिष्यामि परं मया रहितस्त्वं नान्यत्र चरेरिति ।।३।।
__अथ स मदनुरक्त इत्येवं भवति उपलब्धः ज्ञातः । ततस्ताः तथाभूतैः लिङ्गस्थयोग्यैर्व्यापारै: प्रेषयन्ति, तथाहि अलाबु-तुम्बं छिद्यते येन तद् अलाबुछेदं-पिष्पलकादि शस्त्रं प्रेक्षस्व-लभस्व, तथा वल्गूनि-शोभनानि फलानि नालिकेरादीनि अलाबुफलानि वा यदि वा वाक्फलानि-धर्मकथाफलानि वस्त्रादिलाभरूपाणि त्वम् आहर आनयेति ।।४।। अपि च
दारूणि-काष्ठानि शाकपाकाय पाठान्तरेण चान्नपाकाय, रात्रौ प्रद्योतो वा भविष्यतीति अटवीत आहर, पादौ च मे अलक्तादिना रञ्जय तथोपविष्टया मेऽङ्गं बाधतेऽत एहि तावन्मे पृष्ठिम् उन्मर्दयेति ।। ५ ।। किञ्च
वस्त्राणि च मे जीर्णप्रायाणीति अन्यानि प्रत्युपेक्षस्व निरूपय यतो लभ्यन्ते, नाहं शक्नोमि हिण्डितुमिति अन्नं पानं च मे आहर आनयेति । तथा गन्धं पाठान्तरेण च ग्रन्थं वा हिरण्यादि रजोहरणं च शोभनं तथा लोचं कारयितुमशक्तेति काश्यपं नापितं च मे आनयेति पाठान्तरमाश्रित्य 'समणुजाणिहि' तथा च हे श्रमण ! अनुजानिहि नापितमिति ।।६।। अनन्तरं लिङ्गस्थोपकरणान्याश्रित्योक्तम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयतेअदु अंजणिं अलंकारं, कुक्कुहयं च मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ||७||
अथ अञ्जनी-कज्जलनलिकाम् अलङ्कारं वा कुक्कुहगं खुंखुणकं वीणाविशेषं मे प्रयच्छ येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि । तथा लोधं च लोध्रकु
Page #73
--------------------------------------------------------------------------
________________
०.००० श्री सूत्रकृताङ्गसूत्रम्
०० ६८
सुमं च वेणुपलासिकां वंशकम्बिकां वाजिंत्रविशेषं तथा गुटिकाम् औषधगुटिकामानय येनाहमविनष्टयौवना भविष्यामीति ।। ७ ।। तथा
·
कुटुं अगरुं तगरुं च संपिडं समं उसीरेण । तेल्लं मुहं भिलिंजाए, वेणुफलाई सन्निधाणाए ॥८ ॥ नंदीचुण्णगाइं पाहराहि, छत्तोवाहणं च जाणाहि । सत्थं च सूवच्छेयाए, आणीलं च वत्थयं रयावेहि ||९|| सुफणिं च सागपागाए, आमलगाइं दगाहरणं च । तिलगकरणिमंजणसलागं, घिसु मे विघूणयं विजाणाहि ||१०|| संडासगं च फणिहं च, सीहलिपासगं च आणाहि । आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि ||११|| पूयफलं तंबोलं य, सूईसुत्तगं च जाणाहि ।
"
कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ चंदालगं च करगं च वच्चघरगं च आउसो ! खणाहि । सरपाययं च जाताए, गोरहगं च सामणेराए ||१३|| घडिगं च सडिंडिमयं च, चेलगोलं कुमारभूताए ।
वासं समभिआवन्नं, आवसहं च जाण भत्तं च ||१४||
आसंदियं च नवसुत्तं, पाउल्लाई संकमट्ठाए । अदु पुत्तदोहलट्ठाए, आणप्पा हवंति दासा वा ||१५||
कुष्ठम्-उत्पलकुष्ठं तगरम् अगर चैते द्वे गन्धिकद्रव्ये उशीरेण सह पिष्टे सति यथा सुगन्धि भवति तथा कुरु, तैलं च मुखाभ्यङ्गाय मुखम्रक्षणाय ढौकयस्व, वेणुफलानि वेणुकार्याणि च करण्डकपेटिकादीनि वस्त्रादीनां सन्निधानायाऽऽनयेति ॥ ८ ।। किञ्च ओष्ठम्रक्षणाय नन्दिचूर्णान्यप्याहर, छत्रम् उपानहौ च जानीहि आनय यतो जानासि, शस्त्रं च सूपच्छेदनाय शाकपत्रादिच्छेदनार्थं ढौकयस्व तथा आनीलम् - इषन्नीलं च वस्त्रं रञ्जयेति ।। ९ ।। अन्यच्चयत्र सुखेन फण्यते क्वाथ्यते तक्रादिकं तत् सुफणि-स्थालीपिठरादिकं तत् सूपपाकाय आनय, शिरोधावनार्थम् आमलकानि दकाऽऽहरणीं जलाऽऽनयनार्थं घटिकां च, तिलककरणीम् अञ्जनशलाकां, गीष्मेषु वीजनार्थं विधूनकं तालवृन्तं चानयेति ।। १० ।। एवं संदंशकं च फणिहं
Page #74
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् decaddid६९ कङ्कतकं, सीहलिपासगं-वीणासंयमनार्थमूर्णामयं कङ्कणं चानय । आदर्शकं च प्रयच्छ दन्तप्रक्षालनं दन्तकाष्ठादिकं मदन्तिके प्रवेशयेति ।।११।। तथा-पूगफलं ताम्बूलं सूची सूत्रं च कोशं वारकादिभाजनं च मोकमेहाय प्रस्रवणार्थं शूर्पम् उदूखलं च क्षारगालनकं-सर्जिकादिगालनार्थं चालनीकास्थानीयं च जानीहि-आनयेति ।।१२।। किञ्च-हे आयुष्मन् ! देवपूजार्थं चन्दालकं-ताम्रमयं भाजनविशेषं, करकं बृहद्घटं चानय । वर्चीगृहं-पुरीषोत्सर्गस्थानं च खन संस्कुरु, शरपातकं-धनुश्च जाताय-पुत्राय ढौकय, गोरथकं-त्रिहायनं बलीवदं च ढौकय स च सामणेराय श्रमणस्यापत्यं श्रामणिस्तस्मै श्रमणपुत्राय गन्त्र्यादिकृते भविष्यतीति ।।१३।। तथाघटिकां च मृन्मयकुल्लडिकां, सडिण्डिमकं सह पटहकादिवाजिंत्रविशेषेण चेलगोलं वस्त्रतन्तुमयं कन्दुकं च कुमारभूताय-क्षुल्लकरूपाय राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमानय, वर्षवर्षाकालश्च समभ्यापन्न-समभिमुखमापन्न: अत आवसथं गृहं च संस्थापय भक्तं तन्दुलादिकं च जानीहि-निष्पादयेति ।।१४।। तथा-आसन्दिकाम् उपवेशनयोग्यां मञ्चिकां च नवसूत्रां कारय, पादुके च सङ्क्रमणार्थमानयेति, अथवा पुत्रदौहृदार्थम् एवं ते स्त्रीवशगा दासा इव आज्ञाप्या भवन्तीति ।।१५।। अन्यच्चजाते फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अह पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ||१६||
जाते फले कामभोगफले पुत्रे समुत्पन्ने सति सा पति भणति-यावन्नव मासान् मया कुक्षौ धृत इदानीं तवैष इति गृहाण वाऽथवा जहाहि त्यज वा । अथ पुत्रपोषिण उष्ट्रा इव एके भारवहा भवन्तीति ।।१६।। किञ्चराओ वि उठ्ठिया संता, दारगं संठवेंति धाती वा । सुहिरामणा वि ते संता, वत्थधुवा हवंति हंसा वा ||१७||
रात्रावप्युत्थिताः सन्तो रुदन्तं च दारकं संस्थापयन्ति, पाठान्तरं संज्ञापयन्ति-उल्लापयन्ति धात्रीव सुह्रीमनसः लज्जालवोऽपि सन्तस्ते विहाय लज्जां हंसा:-रजका इव वस्त्रधावका भवन्ति उपलक्षणं चैतद् जलवहनादिकं सर्वजघन्यमपि कर्म कुर्वन्तीति ।।१७।। किमेवममिधीयते ? यत:एवं बहुहिं कयपुवं, भोगत्थाए जेऽभियावन्ना । दासे मिए व पेस्से वा, पसुभूते वा से ण वा केइ ॥१८॥
एवं पूर्वोक्तं सर्वं बहुभिः कृतपूर्वं तथा परे कुर्वन्ति करिष्यन्ति च ये भोगार्थं स्त्रिया अभ्यापन्नाः अभिमुखमापन्नाः । तथा यो रागान्धः स स्त्रीभिः दास इवादिश्यते, मृग इव
Page #75
--------------------------------------------------------------------------
________________
ॐॐॐॐॐ श्री सूत्रकृताङ्गसूत्रम् ०० ७०
परवशो धार्यते, प्रेष्य इव वर्च: शोधनादावपि नियोज्यते । तथा विवेकविकलतया पशुभूत इवावज्ञायते । यदिवा स उभयभ्रष्टत्वाद् दासमृगप्रेष्यपशुभ्योऽप्यधमत्वाद् न कश्चिदिति ।। १८ ।। उपसंहारयाऽऽह—
खु तासु विण्णप्पं, संथवं संवासं च वज्जेज्जा । तज्जातिया इमे कामा, वज्जकरा य एवमक्खाताए ॥१९॥
एवं पूर्वोक्तं तासु तासां वा स्त्रीणां विज्ञप्तं विज्ञप्यं वा तद्यथा - यदि सकेशाया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकम् अतस्ताभिः सार्ध संस्तवं संवासं च वर्जयेद् यतः तज्जातिकाः स्त्रीजा इमे कामा अवद्यकरा :- पापकरा वज्रकरा वा गुरुत्वादधः पातकराश्च आख्याता इति ।। १९ ।। सर्वोपसंहारार्थमाह
एवं भयं ण सेयाए, इति से अप्पगं निरुंभिता ।
इथो पक्खूि, णो सयपाणिणा णिलिज्जेज्जा ||२०||
एतत् स्त्रीविज्ञप्तं संस्तवादिकं चेहलोके भयं परलोके च न श्रेयसेऽत आत्मानं निरुध्य नैव स्त्रियं नापि पशुं निलीयेत-आश्रयेत्, संवासं त्यजेदित्यर्थः । तथा स्वेन पाणिना अवाच्यं न निलीयेत-सम्बाधयेत, यदिवा स्वकीयेन हस्तेन वा स्त्रीपश्वादिकं न स्पृशेदिति ।। २० ।। अपि चसुविसुद्धलेस्से मेघावी, परकिरियं च वज्जए णाणी । मणसा वयसा कायेणं, सव्वफाससहे अणगारे ||२१||
सुविशुध्धलेश्याको मेधावी विषयभोगोपाधिना परक्रियां परेण परस्य वा स्त्र्यादेः पादादिसम्बाधनादिक्रियां ज्ञानी मनसा वचसा कायेन च कृतकारितानुमतिभिश्च वर्जयेद् यतः सर्वस्पर्शसह : अनगारो भवति अयं भावः स्त्रीस्पर्शवशगो न भवतीति ।। २१ । । क एवमाहेति दर्शयति
इच्चेवमाहु से वीरे, घूअरए घूयमोहे से भिक्खू | तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिव्वएज्जासि ॥२२॥ त्ति बेमि ।
इत्येवं धूतरजा धूतमोहः पाठान्तरेण च धूतरागमार्गः स भगवान् वीर एवाह । यत एवं तस्मात् स भिक्षुः अध्यात्मविशुद्धः सुविमुक्तः सन् आमोक्षाय परिव्रजेदिति ब्रवीमीति ।। २२ ।।
।। स्त्रीपरिज्ञानामकं चतुर्थाध्ययनं समाप्तम् ।।
Page #76
--------------------------------------------------------------------------
________________
hidaidadacide श्री सूत्रकृताङ्गसूत्रम् Sharadaadak ७१ |
|| अथ पञ्चमं नरकविभक्त्यध्ययनम् ।। अनन्तरं स्त्रीवशग उक्तस्तस्य नरके भवेदुपपातस्तत्र च यादृशा वेदना: प्रादुर्भवन्ति ता अत्रोच्यतेपुच्छिस्सऽहं केवलियं महेसिं, कहंऽभितावा णरगा पुरत्था । अजाणतो मे मुणि बूहि जाणं, कहं णु बाला णरगं उति ।।१।। एवं मए पुढे महाणुभागे, इणमब्बवी कासवे आसुपण्णे । पवेदइस्सं दुहमट्टदुग्गं, आदीणियं दुक्कडियं पुरत्था ||२||
श्रीसुधर्मा जम्बूस्वामिनं प्रत्याह-यथा भवन्तो मां पृच्छन्ति तथैवाऽहं पुरस्तात् पूर्व केवलिनं महर्षि वीरभगवन्तं पृष्टवान् तथाहि-कथम् अलोपादभिमुखेन तापयन्तीति अभितापाः तदन्विता: नरका: नरकावासा भवन्तीत्येतद् अजानतो मे हे मुने ! त्वं जानन् बूहि-कथं नु बाला: विवेकविकला: नरकमुपयन्तीति ।।१।। एवं मया पृष्टो महानुभाव आशुप्रज्ञः केवलज्ञानी काश्यपः वीरप्रभुः इदमब्रवीत्-दु:खं नरकं दु:खमेव वाऽर्थो यत्र स तथा तं दुःखार्थं नरकं स एव दुरुत्तरत्वाद् दुर्गस्तं दुर्ग आदीनिकम् अत्यन्तदीनसत्त्वाऽऽश्रयं तथा दुष्कृतं महारम्भं तत्फलं वा यस्मिन् स तथा तं दुष्कृतिकं नरकमेव 'दुक्कडिणं' पाठान्तरमाश्रित्य दुष्कृतिनां नारकाणां चरितं पुरस्ताद्अग्रतः प्रवेदयिष्यामि प्रतिपादयिष्य इति ।। २ ।। यथा प्रतिज्ञातमाहजे केइ बाला इह जीवियही, पावाइं कम्माइं करेंति रुद्दा । ते घोररुवे तिमिसंधयारे, तिब्वाभितावे नरए पडंति ||३||
ये केचिद् बाला: अज्ञत्वेन रौद्राः इह मनुष्यभवे जीवितार्थिन: असंयमजीविताभिलाषिणः पापानि कर्माणि वक्ष्यमाणानि कुर्वन्ति ते धोररूपे तमिस्रान्धकारे बहलतमोंधकारे तीव्राभितापे नरके पतन्तीति ।।३।। तथातिवं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पडुच्चा । जे लूसए होति अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥४||
य आत्मसुखं प्रतीत्य तीव्रम् अतिनिर्दयं हिनस्ति प्राणिनस्त्रसान् स्थावरांच, एवं यो लूषक : उपमर्दकारी अदत्ताऽपहारी च भवति स पापोदयात् न शिक्षते नाऽभ्यस्यति किञ्चित् सेवनीयस्य संयमस्येति ।।४।। तथापागभि पाणे बहुणं तिवाती, अणिबुडे घातमुवेति बाले । णिहो णिसं गच्छति अंतकाले, अहोसिरं कट्ट उवेइ दुग्गं ||५||
Page #77
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐॐॐॐ
७२
प्रागल्भी धृष्टः बहूनां प्राणिनां प्राणान् अतिपाती ध्वंसक : अनिर्वृतः अशान्तः बालः अज्ञः घातहेतुत्वाद् घातं नरकम् उपैति । स्निहयतीति स्निहः रागादिमान् निशाम् अन्धकारप्रचुरां नरकभूमिं गच्छति अन्तकाले । किं कृत्वेत्याह- अधः शिरं कृत्वा उपैति दुर्गं नरकमिति ।। ५ ।। तत्र यद्भवति तदाह
1
हण छिंदह भिंदह णं दहेति, सद्दे सुणेत्ता परधम्मियाणं ।
ते नारगाओ भयभिन्नसण्णा, कंखंति के नाम दिसं वयामो ॥६॥
हत छिन्त भिन्त दहत इति परमाधार्मिकाणां शब्दान् श्रुत्वा ते नारका भयभिन्नसंज्ञा : भयेन नष्टचेतना: कां दिशं नाम व्रजाम इति त्राणं काङ्क्षन्तीति || ६ || दिक्षु नष्टा यदनुभवन्ति तदाह
इंगालरासि जलियं सजोतिं, ततोवमं भूमि अणोक्कमंता ।
ते डज्झमाणा कलुणं थांति, अरहस्सरा तत्थ चिरद्वितीया ||७|| अङ्गारराशिं ज्वलितां सज्योतिषं नरकेषु बादरतेजस्कायाऽभावादाह - तप्तोपमां भूमिमनुक्रमन्त: ते चिरस्थिकास्तत्र दह्यमानाः करुणं स्तनन्ति क्रन्दन्ति अरहः स्वराः प्रकटस्वरा इति ।। ७ ।। अपि च
जइ ते सुता वेतरणीऽभिदुग्गा, निसिओ जहा खुर इव तिक्खसोया । तरंति ते वेयरणि भिदुग्गा, उसुचोइया सत्तिसु हम्ममाणा ॥८॥
श्रीसुधर्मा जम्बूस्वामिनमाह-यदि त्वया श्रुता वैतरणी नदी अलोपाद् आभिमुख्येन दुरुत्तरत्वाच्च अभिदुर्गा निशित: तीक्ष्ण: यथा क्षुर : शरीराऽवयवकर्तनात् तथा तीक्ष्णस्रोता : सा वैतरणी एवम्भूतां वैतरणीमभिदुर्गां नरकपालैः इषुचोदिता: शक्तिभिश्च हन्यमानाः ते नारकाः तरन्तीति ।। ८ ।। किञ्च
कीलेहिं विज्झंति असाहुकम्मा, नावं उविंते सतिविप्पहूणा । अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विद्धूण अहे करेंति ॥९॥
तत्र वैतरण्यां परमाधार्मिकैर्लोहकीलकसङ्कला नावोऽपि विकुर्विताः सन्ति, एवम्भूतां नावम् उपयत: आश्रयतो नारकान् असाधुकर्माणः नरकपालाः कीलकै : विध्यन्ति । ते च विध्यमानाः स्मृतिविप्रहीणा भवन्ति । अन्ये नरकपालास्तु शूलाभिः दीर्घाभिश्च त्रिशूलि - काभि: विद्ध्वा तान् अधः कुर्वन्तीति ।। ९ ।। अपि च
केसि च बंधित्तु गले सिलाओ, उदगंसि बोलेंति महालयंसि । कलंबुयावालुय मुम्मुरे य, लोलंति पच्चंति य तत्थ अन्ने || १० ॥
Page #78
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
.. ७३
केषाञ्चिच्च नारकाणां गलके शिला : बद्ध्वा महति उदके ब्रूडयन्ति निमज्ज - यन्ति । पुनस्ततः समाकृष्य अन्ये परमाधार्मिकाः तत्र नरके कलम्बुवालुकायां मुर्मुराग्नौ च तान् इतस्ततश्चणकानिव लोलयन्ति घोलयन्ति पचन्ति भर्जयन्ति चेति ।। १० ।। तथाअसूरियं नाम महब्भितावं, अंधतमं दुप्पतरं महंतं । उड्डुं अहे य तिरियं दिसासु, समाहितो जत्थऽगणी झियाति ||११||
न विद्यते सूर्यो यस्मिन् स तथा तम् असूर्यं नाम महाभितापम् अन्धतमसं दुष्प्रतरं दुरुत्तरं महान्तं नरकं महापापा व्रजन्ति यत्र चोर्ध्वमधस्तिर्यक् सर्वासु दिक्षु समाहितः सम्यग् व्यवस्थापितः अग्निः ज्वलति 'समूसिओ जत्थऽगनी झियाइ' इति पाठान्तरं चाश्रित्य समुच्छ्रितोऽग्निर्ज्वलतीति ।। ११ ।। किञ्चान्यत्
जंसि गुहाए जलणेऽतिउट्टे अजाणओ डज्झति लुत्तपण्णो । सया य कलुणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खवधम्मं ||१२||
·
यत्र गुहायाम् उष्ट्रिकाकारे नरके ज्वलने अतिवृत्तः प्रविष्टस्ततो निर्गमनार्थं द्वारम् अविजानन् लुप्तप्रज्ञः अपगताऽवधिविवेकः दह्यते तथा-सदा च करुणं करुणास्पदं घर्मस्थानम् उष्णवेदनं गाढोपनीतं दुर्मोक्षत्वात् अतिदुः खधर्मम् अतिशयितदुःखस्वभावं नरकं व्रजन्ति पापा इत्यर्थः ।। १२ ।। अपि च
चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितवेंति बालं । ते तत्थ चिद्वंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ||१३||
चतसृष्वपि दिक्षु चतुर : अग्नीन् समारभ्य यत्र नरके क्रूरकर्माणो नरकपाला: अभितापयन्ति बालं नारकम् । ते नारकाः तत्र अभितप्यमानास्तिष्ठन्ति उपज्योति : प्राप्ता: जीवन्तो मत्स्या इवेति ।। १३ ।। किञ्च
संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा । हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ||१४||
यत्र नरकावासे संतक्षणं नाम महाभितापम् अनुभवन्ति जीवास्तत्र असाधुकर्माणो नरकपाला: कुठारहस्ताः तान् नारकान् हस्तयोः पादयोश्च बद्धवा फलकमिव काष्ठमिव तक्षन्तीति ।। १४ ।। अपि च
रुहिरे पुणो वच्चसमूस्सिअंगे, भिन्नुत्तमंगे परियत्तयंता । पयंति णं णेरइए फुरंते, सजीवमच्छे व अयोकवल्ले ||१५||
Page #79
--------------------------------------------------------------------------
________________
ॐadakidisaot श्री सूत्रकृताङ्गसूत्रम् aaaaad७४
ते परमाधार्मिकास्तान्नैरयिकान् पुनः तप्तायाम् अयः कवल्यां स्वकीये रुधिरे प्रक्षिप्ते, वर्चसा समुच्छ्रितानि खरण्टितानि अङ्गानि येषां ते तथा तान् वर्च:समुच्छ्रिताङ्गान् भिन्नोत्तमाङ्गान् चेतस्तत: स्फुरतस्तान् उद्वर्तयन्तः परिवर्तयन्तश्च पचन्ति सजीवमत्स्यानिवेति ।।१५।। तथापिणो चेव ते तत्थ मसीभवंति, ण मिज्जती तिव्वभिवेयणाए । तमाणुभागं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ||१६||
__नच ते नारका: तत्र अय:कवल्यां मषीभवन्ति भस्मीभवन्ति तथा तीव्रवेदनयाऽभिभूतो न अन्यः कोऽपि जीवोऽस्ति येन स नारको मीयते उपमीयते । अशुभवेदनात्मकं तमनुभागं विपाकम् अनुवेदयन्त: तिष्ठन्ति । तथा-स्वकीयेन दुष्कृतेन दुःखिनो दुःखयन्ति पीड्यन्त इति ।।१६।। किञ्चान्यत्तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । न तत्थ सायं लहतीऽभिदुग्गे, अरहिताभितावा तहवी तविति ॥१७॥
नारकाणां लोलनेन संप्रगाढः तत्र लोलनसंप्रगाढे नरकावासविशेषे शीतार्ता नारका गाढं सुतप्तमग्निं व्रजन्ति, न च तत्र अग्निस्थाने अभिदुर्गे सातं लभन्ते, अरहितो-निरन्तरोऽभितापो येषां ते अरहिताऽभितापास्ते नारका: तथापि नरकपालास्तान्तप्ततैलाग्निना तापयन्तीति ।।१७।। अपि चसे सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति ॥१८॥
तत्र नरके नगरवधे इव परमाधार्मिकै: कदर्थ्यमानानां नारकाणांशब्दः श्रूयते, तथाहि, दुःखोपनीतानि करुणाजनकानि हा मातर् ! हा पितर् ! त्रायस्व ममेत्येवमादीनि पदानि उदीर्णकर्मणां नारकाणां श्रूयन्त इत्यर्थः । उदीर्णकर्माणः हास्यादीनामुदये वर्तमाना नरकपाला: पुनः पुनस्तान् नारकान् सरहं सरभसं सोत्साहं दुःखयन्ति पीडयन्तीति ।।१८।। किञ्चपाणेहि णं पाव विजोजयंति, तं भे पवक्खामि जहातहेणं । दंडेहिं सरयंति बाला, सव्वेहिं दंडेहिं पुराकएहिं ।।१९।।
___ श्रीसुधर्मा श्रीजंबूं प्रत्याह-पापाः नरकपाला नारकान् प्राणैः वियोजयन्ति तत् भे युष्माकं प्रवक्ष्यामि याथातथ्येन अवितथरूपेण । दण्डै : उत्पादितदुःखविशेषैः तत्र नरके बाला: परमाधर्मिका नारकान् पुराकृतैः सर्वैः दण्डै: प्राणातिपातादिभि: स्मारयन्ति ।।१९।। किञ्च
Page #80
--------------------------------------------------------------------------
________________
aaaaaaaaaaise श्री सूत्रकृताङ्गसूत्रम् saasheddi७५ ] ते हम्ममाणा णरए पडंति, पुण्णे दुरुवस्स महब्भितावे । ते तत्थ चिटुंती दुरूवभक्खी, तुटुंति कम्मोवगता किमीहिं ॥२०॥
ते नारका: हन्यमानाः नष्टाः सन्त: दुरूपस्य तृतीयार्थषष्ठीति विष्ठादिना पूर्णे महाभितापे अन्यस्मिन् नरके नरकैकदेशे पतन्ति । ते नारका: दूरूपभक्षिण: अशुच्यादिभक्षका: तत्र नरके चिरं तिष्ठन्ति । तथा परस्परं नरकपालैश्च विकुर्वितैः कृमिभिः कर्मोपगता : स्वकविबद्धाः नारका: तुद्यन्ते खाद्यन्त इत्यर्थः ।।२०।। किञ्चान्यत्सया कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्म । अंदूसु पक्खिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ।।२१।।
सदा नारकाणां कृत्स्नं पुन: नरके धर्मस्थानम् उष्णप्रधानं स्थानं भवति, तच्च स्वकृतकर्मभि: गाढोपनीतम् अतिदुःखधर्मम् अतीवदुःखप्रदस्वभावं स्थानम्, तत्र च परमाधार्मिकाः अन्दूषु निगडेषु देहं विहत्य प्रक्षिप्य च शीर्षं च तस्य नारकस्य वेधेन रन्ध्रकरणेन अभितापयन्ति कीलकैश्च कीलयन्तीति ।।२१।। अपि चछिंदंति बालस्स खुरेण नक्कं, उठेवि छिंदंति दुवेवि कण्णे । जिब्मं विणिक्कस्स विहत्थिमित्तं, तिक्खाहिं सूलाहिंऽभितावयंति||२२||
___ तत्र नरके असिपत्रा नरकपाला: बालस्य विवेकविकलस्य नारकस्य क्षुरप्रेण नासिकां छिन्दन्ति तथा ओष्ठावपि द्वावपि को छिन्दन्ति, तथा जिह्वां वितस्तिमात्रां विनिष्कास्य आकृष्य तीक्ष्णाभिः शूलाभि: अभितापयन्ति अपनयन्तीति ।।२२।। तथाते तिप्पमाणा तलसंपुडं व्व, रातिंदियं जत्थ थणंति बाला । गलंति ते सोणितपूयमंसं, पज्जोविता खारपदिद्धितंगा ।।२३।।
ते बाला: अज्ञनारका: तत्र नरकपालैः तिप्यमानाः पीड्यमाना: पवनप्रेरिता: शुष्का: तालसम्पुटा इव रात्रिन्दिवं स्तनन्ति आक्रन्दन्ति । वह्निना प्रद्योतिताः तापिता: तथा क्षारप्रदिग्धाङ्गा ते नारका: शोणितपूयमांसं च गलन्तीति ।।२३।। किञ्चजइ ते सुता लोहितपूअपाई, बालागणीतेअगुणा परेणं । कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुण्णा ||२४||
पुनरपि श्रीसुधर्मा जम्बूस्वामिनमाह-यदि त्वया श्रुता श्री वीरेण प्रतिपादिता लोहितपूयपाचिनी बालाग्नितेजोगुणा अभिनववह्नितापगुणा परेण प्रकर्षेण तप्तेत्यर्थः महती पुरुप्रमाणाधिका समुच्छ्रिता उष्ट्रिकाकृतिरूपेण व्यवस्थिता कुम्भी लोहितपूयपूर्णा तत्र परमा
Page #81
--------------------------------------------------------------------------
________________
ॐॐॐॐॐ श्री सूत्रकृताङ्गसूत्रम् ७६ धार्मिकैर्नारकाः प्रक्षिप्यन्त इत्यर्थः ।। २४ ।। ततो यत् क्रियते तद्दर्शयितुमाहपक्खिप्प तासुं पययंति बाले, अट्टस्सरे ते कलुणं रसंते । तण्याहाइता ते तउतंबतत्तं, पज्जिज्जमाणऽट्टतरं रसति ॥ २५॥
प्रक्षिप्य तासु कुम्भीसु नरकपालाः तान् आर्तस्वरं करुणं रसतो बालान् नारकान् पचयन्ति । एवं तृष्णायितास्ते नारकाः प्राकृतत्वेन पदव्यत्ययात् तप्तत्रपुताम्रं पाय्यमानाः आर्त्ततरं रसन्ति आक्रन्दतीति ।। २५ ।। उपसंहरन्नाह
अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुव्वसते सहस्से ।
चिद्वंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहा सि भारे ||२६|| बहुक्रूरकर्माणः कूटतुलादिना मत्स्यबन्धलुब्धकत्वादिना वा इह मनुष्यभवे आत्मनाऽऽत्मानं वञ्चयित्वा भवाधमे नारकभवे सततं त्रस्ताः भीता: पूर्वाणां शतानि सहस्त्राणि यावत् त्रयस्त्रिंशत् सागरोपमाणि तिष्ठन्ति । कथमेतत् सर्वमित्याह-यथा कृतं कर्म तथा तेषां वेदनारूपो भारः प्रादुर्भवति स्वतः परत उभयतो वेति ।।२६।। किञ्च– समज्जिणित्ता कलु अणज्जा, इट्ठेहि कंतेहि य विप्पहूणा ।
दुभिगंधेकसि फासे, कम्मोवगा कुणिमे आवसंति ||२७||
अनार्याः कलुषं कर्म समर्ज्य इष्टैः कलत्रपुत्रादिभिः कान्तैः शब्दादिविषयैश्च विप्रहीणा : ते नारका एकाकिनः दुरभिगन्धे कृत्स्ने अत्यन्ताशुभे च स्पर्शे कर्मोपगा : अशुभकर्मोपेताः कुणिमे अमेध्ये नरके आवसन्तीति ब्रवीमीति ।। २७ ।।
।। प्रथम उद्देशकः समाप्तः ।।
|| अथ द्वितीयोद्देशकः ।।
अनन्तरोद्देशे नारकजीवानां दुःखानि प्रतिपादितानि । इहापि तान्येव विशिष्टतराणि प्रतिपाद्यन्ते, तद्यथा—
"
अहावरं सासयदुक्खधम्मं तं मे पवक्खामि जहातहेणं । बाला जहा दुक्कडकम्मकारी, वेदेंति कम्माइं पुरेकडाई ॥१॥
अथाऽपरं शाश्वतं दुःखं तदेव धर्मः स्वभावो यत्र यस्य वा नरकस्य स तथा तं शाश्व
Page #82
--------------------------------------------------------------------------
________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् sciends७७ | तदु:खधर्म नरकं युष्माकं याथातथ्येन अवितथरूपेण प्रवक्ष्यामि, तथाहि-बालाः साम्प्रतैक्षिणो यथा दुष्कृतकारिणो वेदयन्ति पुराकृतानि कर्माणि तथा प्रवक्ष्यामीत्यर्थः ।।१ ।। यथाप्रतिज्ञातमाहहत्थेहि पाएहि य बंधिऊणं, उदरं विकतंति खुरासिएहिं । गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्ठतो उद्धरंति ।।२।।
नरकपालास्तान् हस्तेषु पादेषु च बद्धवोदरं क्षुरप्राऽसिभिः विकर्तयन्ति तथा गृहीत्वा बालस्य देहं विहत्य प्रपीड्य पृष्ठतः स्थिरं बलवत् वधं चर्म उद्धरन्तीति ।।२।। अपि चबाहू पकतंति य मूलतो से, थूलं वियासं मुहे आडहति । रहंसि जुत्तं सरयंति बालं, आरुस्स विज्झंति तुदेण पढे ॥३॥
परमाधार्मिका: तस्य नारकस्य बाहू मूलत आरभ्य प्रकर्तयन्ति । तथा मुखे विकाशं कृत्वा मुखं विदार्य स्थूलं तप्तायोगोलादिकं प्रक्षिप्य आ समन्ताद् दहन्ति । तथा रथे शकटे वा बालं नारकं युगे योजयित्वा युक्तं वाहयन्ति पुराकृतानि च दुष्कृतानि स्मारयन्ति । 'रहसि' इति पाठान्तरमाश्रित्य एकान्ते युक्तं स्वकृतवेदनानुरूपं पूर्वदुष्कृतं स्मारयन्ति । तथा आरुष्य प्रकुप्य पृष्ठे तुदेन प्रतोदनादिना विध्यन्तीति ।।३।। तथाअयंव तत्तं जलितं सजो, ततोवमं भूमिमणुक्कमंता । ते डज्झमाणा कलुणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ||४||
तप्तयुगेषु युक्ता इषुचोदिताः तप्ताऽयः सदृशीं ज्वलितां ज्योतिर्भूतां तप्तत्रपूपमां वा भूमिम् अनुक्रामन्तः गच्छन्त: ते नारका: दह्यमानाः करुणं स्तनन्ति आक्रन्दन्तीति ।।४।। अन्यच्चबाला बला भूमिमणुक्कमंता, पविज्जलं लोहपहं व तत्तं । जंसीऽभिदुग्गंसि पवज्जमाणा, पेसेव दंडेहिं पुरा करेंति ||५||
___यस्मिन् अभिदुर्गे नरके प्रज्वलितं लोहपथमिव तप्तां तथा रुधिरपूयादिना प्रपिच्छिलां भूमिम् अनिच्छन्तोऽपि बलाद् बाला अनुक्रम्यमाणा: विरसमारसन्तीति शेषः । तथातत्र क्रूरकर्माण:परमाधार्मिकास्तान् नारकान् प्रेष्यानिव दण्डै : प्रतोदनादिभिः पुरतः अग्रत: कुर्वन्तीति ।।५।। किञ्चते संपगाढंसि पवज्जमाणा, सिलाहिं हम्मति निपातिणीहिं । संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ।।६।।
Page #83
--------------------------------------------------------------------------
________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaii७८
ते नारका: संप्रगाढे बहुवेदनाऽऽक्रान्ते नरके मार्गे वा रथादिकं वोढुं प्रपद्यमानाः प्रवर्तमाना: निपातिनिभिः अभिमुखं पतन्तीभिः शिलाभिः हन्यन्ते । तथा-यत्र नरके चिरस्थितिका संतापिनी कुम्भी तत्र असाधुकर्मा नारक: सन्तप्यत इति ।।६।। तथाकंदूसु पक्खिप्प पयंति बालं, ततो वि उड्डा पुण उप्पयंति । ते उड्डकाएहिं पखज्जमाणा, अवरेहिं खज्जति सण'फएहिं ।।७।।
___नरकपाला: बालं नारकं कन्दुषु प्रक्षिप्य पचन्ति ततोऽपि कन्दुभ्य: पुन: चनका इव भृज्यमानाः ऊर्ध्वम् उत्पतन्ति । ते च ऊर्ध्वं वैक्रियैः काकैः प्रखाद्यमाना: अध: पतन्त: अपरैः सिंहव्याघ्रादिभिः खाद्यन्त इति ।।७।। तथासमूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति । अहोसिरं कट्ठ विगत्तिऊणं, अयं व सत्येहिं समोसवेंति ||८||
समुच्छ्रितं चितिकाकृति नाम संभावनायां संभवति च यातनास्थानं विधूमस्थानं निधूमाऽङ्गाराणां स्थानं यत् प्राप्य शोकतप्ता: करुणं स्तनन्ति । तथा-अध:शिर: कृत्वा विक
या॑ऽयोवत् शस्त्रैः समोसवेंति दैश्यशब्दः खण्डशः खण्डयन्तीति ।।८।। अपि चसमूसिया तत्थ विसूणियंगा, पक्खीहिं खज्जति अओमुहेहिं । संजीवणी नाम चिरद्वितीया, जंसि पया हम्मति पावचेया ॥९॥
____ तत्र नरके स्तम्भादौ समुच्छ्रिता: लम्बिता: विसूणियंगा: उत्कृत्ताङ्गाश्च नारका: अयोमुखैः वज्रतुण्डैः पक्षिभि: काकगृध्रादिभिः खाद्यन्ते ।छेदनभेदनादिभिर्मूर्च्छिता: सन्तोऽपि पुनः पुन: सञ्जीवनात् सञ्जीवनी नरकभूमि: नाम सम्भावनायां संभवति च चिरस्थितिका यावत् त्रयस्त्रिंशत् सागरोपमाणि यस्यां पापचेतसः प्रजा: नारकलक्षणा: हन्यन्ते तथापि न म्रियन्ते इति भावः ।।९।। किञ्चतिक्खाहिं सूलाहिं निवाययंति, वसोगयं सावयं व लद्धं । ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ||१०||
वशोपगतं लब्ध्वा श्वापदमिव नारकं परमाधार्मिका: तीक्ष्णाभिः शूलाभिः निपातयन्ति । ते नारका: द्विधा अन्तर्बहिश्च ग्लानाः शूलविद्धाः एकान्तदुःखम् अनुभवन्त: अपगतप्रमोदा: करुणं स्तनन्ति तथापि प्राणैर्न मुच्यन्त इति ।।१०।। तथासदा जलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्ठो । चिटुंती बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ||११||
Page #84
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
७९
सदा ज्वलतु नाम महत् निहन्यन्ते प्राणिनो यत्र तद् निहम् आधातस्थानं यस्मिन् अकाष्ठाऽग्निर्ज्वलन् आस्ते, तत्र बहुक्क्रूरकर्माणः स्वकर्मनिगडैः बद्धाः निगडिताः केचित् चिरस्थितिका: अरहः स्वराः व्यक्तऽऽक्रन्दध्वनयः तिष्ठन्तीति ।। ११ ।। तथाचिता महंतीउ समारभित्ता, छुब्भंति ते तं कलुणं रसंतं । आवट्टति तत्थ असाहुकम्मा, सप्पी जहा पतितं जोतिमज्झे ॥१२॥
महतीं चितां समारभ्य तं नारकं करुणं रसन्तं ते नरकपालाः क्षिपन्ति । यथा ज्योतिर्मध्ये पतितं सर्पिः तथा तत्र चितायां पतित: असाधुकर्मा नारक: आवर्तत इति ।। १२ ।। अपरं यातनाप्रकारमाह
सदा कसिणं पुण घम्मठाणं, गाढोवणीयं अइदुक्खधम्मं । हत्थेहिं पाएहि य बंधिऊणं, सत्तुव्व दंडेहिं समारभंति ||१३||
सदा पुन: अपरम् अतिदुःखधर्मं अतीवदुःखस्वभावं कृत्स्नं संपूर्णं घर्मस्थानम् उष्णस्थानं नारकाणां गाढोपनीतं गाढकर्मभिरुपढौकितम्, तत्र हस्तेषु पादेषु च बद्ध्वा नरकपालाः प्रक्षिप्य नारकान् शत्रुमिव दण्डैः समारभन्ते ताडयन्तीति ।।१३।। किञ्चभंजंति बालस्स वहेण पुट्ठि, सीसं पि भिंदति अयोघणेहिं । ते भिन्नदेहा फलगावतट्ठा, तत्ताहिं आराहिं नियोजयंति ॥१४॥
भञ्जयन्ति बालस्य अज्ञनारकस्य व्यथेन लकुटादिप्रहारेण पृष्ठिम्, शीर्षमपि भिन्दन्ति अयोधनैः । एवं भिन्नदेहानपि तान् फलकमिव तक्षितान् तनुकृतान् ते परमाधार्मिकाः तप्ताभिः आराभिः प्रेर्य तप्तत्रपुपानादिके कर्मणि नियोजयन्तीति । ।४ । । किञ्चअभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्यिवहं वहंति । गं दुहितु दुवे तो वा, आरुस्स विज्झति ककाणओ से ||१५||
रौद्रे अपरनारकहननादिके कर्मणि अभियुज्य यदिवा पूर्वकृतं रौद्रं सत्त्वघातादिकम् अभियुज्य स्मारयित्वा अशुभकर्मण: नारकान् इषुचोदितान् हस्तिवहं हस्तितुल्यं भारं यदिवा हस्तिनमिव एकं नारकं द्वौ त्रयो वा समारुह्य आरुष्य प्रकुप्य तस्य ककाणओ मर्माणि विध्यन्तीति ।। १५ ।। अपि च
बाला बला भूमिमणुक्कमंता, पविज्जलं कंटइलं महंतं । विबद्धतप्पेहिं विवण्णचित्ते, समीरिया कोट्ट बलिं करिंति ||१६|
बाला : विवेकविरहिता नारका रुधिरादिना पिच्छिलां कण्टकाकीर्णां च महतीम्
Page #85
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
८०
अनोरपारां भूमिम् अनुक्रामन्तो मन्दगतयो बलात् प्रेर्यन्ते, तथा पापकर्मणा समीरिता: नरकपालास्तान् विपन्नचित्तान् मूर्च्छितान् मात्स्यिका नदीमुखेषु तर्पकैः वंशदलनिष्पन्नैर्जालैर्मत्स्यानिव विबद्धवा कुट्टयित्वा खण्डयित्वा बलिं कुर्वन्ति यदिवा कोट्टबलिं नगरबलिं कुर्वन्त इवेतश्चेतश्च क्षिपन्तीत्यर्थः ।। १६ ।। किञ्च
वेतालिए नाम महाभितावे, एगायते पव्वतमंतलिक्खे | हम्मंति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ||१७||
नाम सम्भावनायां संभाव्यते च नरकेषु यथा अन्तरिक्षे महाभितापः एक आयतः दीर्घः वैतालिकः वैक्रियः पर्वतः तमारोढुं प्रेर्यमाणा अपि पर्वतस्य छिन्नमूलत्वात् क्षेत्रस्य चान्धकारमयत्वात् अनारोहन्तो बहुक्क्रूरकर्माणः नारकाः हन्यन्ते सहस्राणामपि मुहूर्तानां परं प्रकृष्टं कालमिति ।।१७।। तथा
संबाहिया दुक्कडिणो थणंति, अहो य राओ परितप्पमाणा । एगंतकूडे नरए महंते, कूडेण तत्था विसमे हता उ || १८ ||
एकान्तेन कूटानि दुःखोत्पत्तिस्थानानि यत्र स तथा तस्मिन् एकान्तकूटे महति नरके पतिता: कूटेन गलपाशयन्त्रेण पाषाणसमूहलक्षणेन वा हताः तत्र विषमे संबाधिता : संपीडिता: दुष्कृतिन: अहनि रात्रौ च परितप्यमानाः स्तनन्त्येव तुशब्दोऽवधारणार्थः ।। १८ ।। अपि चभंजंति णं पुव्वमरी सरोस, समुग्गरे ते मुसले गहेतुं । ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरणितले पडंति ॥१९॥
ते पूर्वमरय इवाऽरयो गतभववैरिणः ते परमाधार्मिका अन्यनारका वा समुद्गराणि मुसलानि गृहीत्वा सरोषम् अङ्गानि भञ्जन्ति । ते च भिन्नदेहाः नारकाः रुधिरं वमन्तः अवमूर्धान: अधोमुखाः धरणितले पतन्तीति ।। १९ ।। किञ्चअणासिया नाम महासियाला, पगब्मिणो तत्थ सयायकोवा | खज्जंति तत्था बहुकूरकम्मा, अदूरया संकलियाहिं बद्धा ||२०||
अनशिता: बुभुक्षिताः नाम सम्भावनायां संभाव्यन्ते च तत्र वैक्रियाः महाशृगालाः प्रगल्भिन: धृष्टाः सदाऽवकोपा : नित्यकुपितास्तै: अदूरगाः समीपवर्तिनः श्रृङ्खलिकादिभिः बद्धाः तत्र धरणितले पतिता: बहुक्रूरकर्माणः नारकाः खाद्यन्त इति ।। २० ।। अपि चसदाजला नाम नदी भिदुग्गा, पविज्जलं लोहविलीणतत्ता । जंसी भिदुग्गंसि पवज्जमाणा, एगाइऽताणुक्कमणं करेंति ||२१|
Page #86
--------------------------------------------------------------------------
________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaad८१ ]
सदा ज्वलतीति सदाज्वला यदिवा सदाजला नामा अभिधाना नदी अकारलोपाद् अभिदुर्गा प्रपिच्छिला रुधिरादिना तथा पदव्यत्ययात् तप्तविलीनलोहा तप्तविलीनलोहसदृशजला वर्तते यस्यामभिदुर्गायां प्रपद्यमानाः प्रेर्यमाना नरकपालैः एकात्मानः एकाकिन: अत्राणा: अनुक्रमणं प्लवनं कुर्वन्तीति ।।२१।। उपसंहरन्नाहएयाइं फासाइं फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं । ण हम्ममाणस्स तु होइ ताणं, एगो सयं पच्चणुहोइ दुक्खं ।।२२।।
एते विरूपाः स्पर्शाः स्पृशन्ति चिरस्थितिकं बालं स्पृशन्ति निरन्तरं तत्र नरके । न तु हन्यमानस्य भवति त्राणं कोऽपि परं एक: नारकजीव: स्वयं स्वकं वा दुःखं प्रत्यनुभवतीति ।।२२।। किञ्चान्यत्जं जारिसं पुवमकासि कम्म, तमेव आगच्छति संपराए । एगंतदुक्खं भवमज्जणित्ता, वेदंति दुक्खी तमणंतदुक्खं ।।२३।।
यत् यादृशं च पूर्वमकार्षीत् कर्म तदेव तादृक् च आगच्छति विपाकरूपेण सम्पराये संसारे । एकान्तदुःखम् एव भवमर्जयित्वा दुःखीनो जीवा: तत् पूर्वनिर्दिष्टम् अनन्तदुःखं वेदयन्तीति ।।२३।। अथोपदेशमाहएताणि सोच्चा णरगाणि धीरे, न हिंसते किंचण सव्वलोए । एगंतदिट्ठी अपरिग्गहे उ, बुज्झिज्ज लोगस्स वसं न गच्छे ।।२४।।
___एतान् नरकान् तात्स्थ्यात्तदव्यपदेश इति नरकदु:खविशेषान् श्रुत्वा धीर: न हिंस्यात् कञ्चन सर्वलोके । अपरिग्रहे तु मोक्षे संयमे वा एकान्तदृष्टिः सम्यग्दृष्टिः बुध्येत लोकम् अशुभकर्मकारिणं तद्विपाकभुजं वा, न तु लोकस्य विषयकषायलक्षणस्य वशं गच्छेदिति ।।२४।। एतद्दुःखविशेषं सर्वत्रापि संसारे दर्शयन्नाहएवं तिरिक्खे मणुयामरेसुं, चतुरंतऽणंतं तवणुविवागं । स सव्वमेयं इति वेदयित्ता, कंखेज्ज कालं धुवमाचरंतो |२५|| त्ति बेमि ।
___ एवम् अनन्तरोक्तप्रकारेण तिर्यङ्मनुजाऽमरेषु अपि चतुरन्तं चतुर्गतिकम् अनन्तं तदनुरूपं दु:खविपाकं स बुद्धिमान् सर्वमेतद् दुःखरूपमिति विदित्वा ध्रुवं मोक्षमाद्रियमाण: तत्कारणं संयमं वाऽऽचरन्यावज्जीवं कालं मृत्युकालं च काक्षेत् प्रतीक्षेतेति ब्रवीमि।।२५।।
।। पञ्चममध्ययनं समाप्तम् ।।
Page #87
--------------------------------------------------------------------------
________________
addedeochuddae श्री सूत्रकृताङ्गसूत्रम् saddedadis८२]
!! अथ महावीरस्तवनाम षष्ठमध्ययनम् ||
अनन्तराध्ययने नरकविभक्तिः प्रतिपादिता, सा च श्रीमन्महावीरस्वामिनाऽभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रपिपाद्यते । तत्रेयमादिगाथापुच्छिस्सु णं समणा माहणा य, अगारिणो य परतित्थिया य । से केइ णेगंतहिय धम्ममाहु, अणेलिसं साधुसमिक्खयाए ||१||
नरकविभक्ति श्रुत्वा श्रमणाः ब्राह्मणः अगारिणश्च तथा ये च परतीथिका ते सुधस्विामिनं पृष्टवन्तः, तथाहि-स कः ? य इमम् एकान्तहितम् अनीदृशम् असामान्यं धर्म साधुसमीक्षया तत्त्वपरिच्छित्या समतया वा आह उक्तवानिति ।।१।। तस्यैव गुणजिज्ञासया प्रश्नमाहकहं च णाणं कह दंसणं से, सीलं कहं नातपुत्तस्स आसी । जाणासि णं भिक्खु जहातहेणं, अहासुतं बूहि जहा णिसंतं ।।२।।
कथं केनप्रकारेण किम्भूतं वा तस्य ज्ञानं, कथं दर्शनं कथं च शीलं ज्ञातपुत्रस्य श्रीवर्धस्वामिन आसीत् ? हे भिक्षो ! सुधर्मस्वामिन् ! याथातथ्येन त्वं जानासि यथा श्रुतं दृष्टं च त्वया, श्रुत्वा च यथा निशान्तं श्रुत्वावधारितं तथा ब्रूहि आचक्ष्वेति ।।२।। त एव श्रमणादयः पुन: प्रश्नयन्तिखेयण्णए से कुसले आसुपन्ने, अणंतणाणी य अणंतदंसी । जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइं च पेहि ॥३॥
___ स भवदुःखाऽपनोदसमर्थोपदेशदानात् खेदं श्रमं जानातीति खेदज्ञः यदिवा क्षेत्रम्आत्मस्वरूपं जानातीति क्षेत्रज्ञः अथवा क्षेत्रम् आकाशं लोकालोकस्वरूपं जानातीति क्षेत्रज्ञः कुशल: महर्षिः इत्यपि क्वचित्पाठः आशुप्रज्ञः सर्वज्ञत्वेन सर्वत्र सर्वदोपयोगात् अनन्तज्ञानी अनन्तदर्शी च, तदेवम्भूतस्य भगवतो यशस्विनश्चक्षुःपथे भवस्थकेवल्यवस्थायां स्थितस्य धर्मं धृति च त्वं जानीषे ततोऽस्माकं पेहि ब्रूहि कथयेति अथवा सुधर्मस्वामी स्वशिष्यान् कथयति-त्वम् अनन्तरोक्तविशेषणविशिष्टस्य धर्मं जानीहि अवगच्छ तथा भगवतो धृति संयमे प्रेक्षस्वेति ।।३।। अथ सुधर्मस्वामी तद्गुणान् कथयतिउड्ढे अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा | से णिच्चणिच्चेहि समिक्ख पण्णे, दीवे व धम्म समियं उदाहु ||४||
ऊर्ध्वमधस्तिर्यग् दिशासु ये च त्रसा ये च स्थावराः प्राणिन: तान् प्रकर्षेण जानातीति
Page #88
--------------------------------------------------------------------------
________________
aaaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् sairabadi ८३ ] प्राज्ञः नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात् समीक्ष्य प्राणिनां पदार्थाविर्भावनेन दीप इव यदिवा संसारसमुद्रपतितानां सदुपदेशदानेनाश्वासहेतुत्वाद् द्वीप इव सम्यक् समतया समं वा धर्मम् उत् प्राबल्येन आह उक्तवानिति ।।४।। किञ्चान्यत्से सव्वदंसी अभिभूयणाणी, निरामगंधे धिइमं ठितप्पा । अणुत्तरे सव्वजगंसि विज्जं, गंथातीते अभए अणाऊ ||५||
___स सर्वदर्शी अभिभूय मत्यादीनि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानी, अथ तस्य भगवत: क्रियामाह-निर्गत:आम: अविशोधिकोट्याख्यो दोषः तथा गन्धो विशोधिकोटिनामा दोषो यस्मात् स निरामगन्धः शुद्धचर्यावानित्यर्थः, तथा चारित्रे धृतिमान, आत्मस्वरूपे स्थित आत्मा यस्य स स्थितात्मा सर्वजगति अनुत्तरो विद्वान् बाह्याभ्यन्तरान् ग्रन्थान् अतीत: अतिक्रान्तः अभयः अनायुः सिद्धिगामीति ।।५।। अपि चसे भूतिपण्णे अणिएयचारी, ओहंतरे धीरे अणंतचक्खू । अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे ||६||
स भूतिप्रज्ञः वर्धमानप्रज्ञ: अनियतचारी ओधन्तर : संसारसमुद्रं तरितुं शीलमस्य स तथा, धीरः अनन्तचक्षुः अनुत्तरं तपति यथा सूर्यः तम: अपनीय प्रकाशयति यथा वैरोचनः अग्नि: स एव प्रज्वलितत्वात् इन्द्रः इति ।।६।। किञ्चअणुत्तरं धम्ममिणं जिणाणं, णेता मुणी कासवे आसुपण्णे । इंदे व देवाण महाणुभावे, सहस्सनेता दिविणं विसिढे |७||
__यथा दिवि स्वर्गे देवानां सहस्राणां विशिष्टो नेता इन्द्रः तथा जिनानां ऋषभादितीर्थकृतां इममनुत्तरं धर्मं नेता प्रणायकोऽयं मुनिः श्रीवर्धमानस्वामी काश्यपः गोत्रेण आशुप्रज्ञः केवल ज्ञानीति ।।७।। अपि चसे पण्णया अक्खये सागरे वा, महोदधी वा वि अणंतपारे । अणाइले वा अकसायि मुक्के, सक्के व देवाहिपती जुतीमं ||८||
स भगवान् प्रज्ञया अक्षयः अनन्तज्ञानित्वात् यथा सागर : महोदधिः स्वयंभूरमण: अनन्तपारः अनाविलः कर्मकलङ्काऽपगमात् अकषायी, कर्मबन्धाद् मुक्त: भिक्षुरिति क्वचित् पाठः तथा च सर्वलोकपूज्यत्वेऽपि भिक्षामात्रजीवित्वाद् भिक्षुरेवासौ, तथा द्युतिमान् शक्र इव देवाधिपतिरिति ।।८।। किञ्च
Page #89
--------------------------------------------------------------------------
________________
aakakiraikikat श्री सूत्रकृताङ्गसूत्रम् adaakadcas८४] से वीरिएणं पडिपुण्णवीरिए, सुदंसणे वा णगसबसेढे । सुरालएवासिमुदागरे से, विरायतेऽणेगगुणोववेते ।।९।।
__स भगवान् वीर्येण प्रतिपूर्णवीर्यः यथा सुदर्शन: मेरुः सर्वश्रेष्ठः नगः पर्वतः सुरालयवासिनां-देवानां मुदाकर: विराजते तथा अनेकगुणोपेतः विराजत इति ।।९।। पुनरपि दृष्टान्तभूतमेरुवर्णनायाहसयं सहस्साण उ जोयणाणं, तिगंडे से पंडगवेजयंते । से जोयणे णवणवते सहस्से, उड्ढुस्सिते हेट्ठ सहस्समेगं ||१०||
स मेरु: योजनसहस्राणां शतम् उच्चस्त्वेन, भौमं जाम्बूनदं वैडुर्यं चेति त्रीणि कण्डान्यस्येति त्रिकण्डः, पण्डकं वनं शिरसि व्यवस्थितं वैजयन्तीभूतं पताकातुल्यं यस्य स पण्डकवैजयन्तः, तथाऽसौ ऊर्ध्वमूच्छ्रित: नवनवतिर्योजनसहस्राणि अधश्च सहस्त्रमेकम् अवगाढ इति ।।१०।। तथापुढे णमे चिट्ठति भूमिए ठिते, जं सूरिया अणुपरियट्टयंति। से हेमवण्णे बहुणंदणे य, जंसी रतिं वेदयंती महिंदा ||११||
असौ भूमिमवस्थितः सन् नभः पातालं च स्पृष्टः लग्नः तिष्ठति, यं च सूर्याः अनुपर्यटयन्ति, तथाऽसौ हेमवर्णः तथा बहून् सत्त्वान् नन्दतीति बहुनन्दनः यदिवा बहूनि चत्वारि भद्रशालवनं नन्दनं सौमनसं पण्डकं चेति नन्दनवनानि यस्य स तथा, यस्मिन्नागत्य रतिं वेदयन्ति महेन्द्रा: महान्त इन्द्रा इति ।।११।। अपि चसे पवते सद्दमहप्पगासे, विरायती कंचणमट्ठवण्णे । अणुत्तरे गिरिसु य पव्वदुग्गे, गिरीवरे से जलिते व भोमे ।।१२।।
असौ पर्वतः सुदर्शन-मन्दर-पर्वतराज-सुरगिरिप्रभृतिभि: शब्दैः महान् प्रकाश:- प्रसिद्धिर्यस्य स शब्दमहाप्रकाश: विराजते, काञ्चनस्येव मृष्टः श्लक्ष्णः शुद्धो वा वर्णो यस्य स काञ्चनमृष्टवर्णः, एवमसौ अनुत्तरः, तथा गिरिषु च पर्वभिः मेखलादिभिर्दष्ट्रापर्वतैर्वा दुर्गो दुरारोह इति पर्वदुर्ग: गिरिवरः मणिभिरौषधिभिश्च ज्वलित: भौम: भूदेश इवेति ।।१२।। किञ्चमहीय मज्झम्मि ठिते णगिंदे, पण्णायते सूरियसुद्दलेस्से | एवं सिरीए उ स भूरिवण्ण, मणोरमे जोयइ अच्चिमाली ।।१३।।
मह्यां मध्ये स्थित: नगेन्द्रः मेरुः प्रज्ञायते लोके सूर्यशुद्धलेश्य: आदित्यतुल्यतेजाः । एवं स मेरुः श्रिया तु भूरिवर्ण : विविधवर्णरत्नोपशोभितत्वात् मनोरम: द्योतयति
Page #90
--------------------------------------------------------------------------
________________
5.
श्री सूत्रकृताङ्गसूत्रम्
८५
प्रकाशयति अर्चिमालीव आदित्य इव दशाऽपि दिश इति ।। १३ ।। अथ मेरुपमानं भगवति योजयति
सुदंसणस्सेस जसो गिरिस्स, पवुच्चती महतो पव्वतस्स । एतोवमे समणे नायपुत्ते, जाती- जसो दंसण - णाणसीले ||१४||
एतदनन्तरोक्तं यशः' सुदर्शनस्य गिरे : महतः पर्वतस्य प्रोच्यते एतदुपम : श्रमण : ज्ञातपुत्र: श्री वर्धमानस्वामी जात्या यशसा दर्शनेन ज्ञानेन शीलेन च सर्वश्रेष्ठ इति ।। १४ ।। पुनरपि दृष्टान्तान्तरेण भगवतो वर्णनमाह
गिरीवरे वा निसहाऽऽयताणं, रुयगे व सेट्टे वलयायताणं । ततोवमे से जगभूतिपण्णे, मुणीण मज्झे तमुदाहु पण्णे ||१५||
यथा निषध: गिरिवर: आयतानां गिरीणां मध्ये दैर्येण श्रेष्ठः, तथा वलयायतानां मध्ये रुचकः पर्वतः श्रेष्ठस्तथा स भगवानपि तदुपम : जगति भूतिप्रज्ञ: प्रज्ञया श्रेष्ठः । अत एव तं भगवन्तं मुनीनां मध्ये प्रज्ञ: इति तत्स्वरूपविदः उदाहृतवन्तः उक्तवन्त इति ।। १५ ।। किञ्चान्यत्–
अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई | सुसुक्कसुक्कं अपगंडसुक्कं, संखेंदु वेगंतवदातसुक्कं ||१६||
नास्योत्तरः प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरस्तम् अनुत्तरं धर्मम् उदीरयित्वा उपदिश्य अनुत्तरं ध्यानवरं ध्यायति, तथाहि-उत्पन्नज्ञानो योगनिरोधकाले शुक्लध्यानस्य तृतीयभेदं तथा निरुद्धयोगश्च चतुर्थंभेदं ध्यायति, एतदेव दर्शयति-सुशुक्लशुक्लं सुष्ठु शुक्लवत् शुक्लम् अपगण्डशुक्लम् अपगतं गण्डं कलुषं यस्य तदपगण्डं निर्दोषाऽर्जुनसुवर्णवत् शुक्लं यदिवा अपगण्डम् उदकफेनं तद्वत् शुक्लम् तथा शङ्खेन्दुवत् एकान्तावदातशुक्लं ध्यानं ध्यायतीति ।। १६ ।। किञ्च -
अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता ।
सिद्धिं गतिं साइमणंतपत्ते, नाणेण सीलेण य दंसणेणं ||१७|| स महर्षि : भगवान् ज्ञानेन दर्शनेन शीलेन च अशेषं कर्म विशोधयित्वा क्षपयित्वा साद्यनन्तां अनुत्तराग्रां लोकाग्रव्यवस्थितत्वात् परमां सिद्धिगतिं प्राप्त इति ।। १७ । । पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-
Page #91
--------------------------------------------------------------------------
________________
Baaaaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् addddddi ८६ रुक्खेसु णाते जह सामली वा, जंसी रतिं वेतयंती सुवण्णा । वणेसु वा नंदणमाहु सेढे, णाणेण सीलेण य भूतिपन्ने ||१८||
__यथा वृक्षेषु मध्ये शामली वृक्षः ज्ञातः प्रसिद्धः, यस्मिन् रतिं वेदयन्ति सुपर्णा: भवनपतिविशेषाः, वनेषु च मध्ये यथा नन्दनं वनं तथा भूतिप्रज्ञः स भगवान् ज्ञानेन शीलेन च श्रेष्ठ इति ।।१८।। अपि चथणियं व सद्दाण अणुत्तरे तु, चंदो व ताराण महाणुमागे । गंधेसु वा चंदणमाहु सेढे, सेढे मुणीणं अपडिण्णमाहु ।।१९।।
यथा शब्दानां मध्ये तु स्तनितं घनगर्जितम् अनुत्तरम्, तारकाणां च मध्ये यथा चन्द्रो महानुभावः, मतुब्लोपात् गन्धवत्सु द्रव्येषु मध्ये यथा चन्दनं तज्ज्ञाः श्रेष्ठमाहुः, एवं मुनीनां मध्ये नास्य रागद्वेषाभ्यां प्रतिज्ञा विद्यते इत्यप्रतिज्ञस्तम् अप्रतिज्ञं भगवन्तं श्रेष्ठम् आहुरिति ।।१९।। अपि चजहा सयंभू उदहीण सेढे, णागेसु या धरणिंदमाहु सेढे । खोतोदए वा रसवेजयंते, तवोवहाणे मुणिवेजयंते ॥२०॥ ____ यथा स्वयंभूः चरमोदधिः उदधीनां मध्ये श्रेष्ठः, नागेषु भवनपतिविशेषेषु धरणेन्द्र श्रेष्ठमाहुः ‘खोओ' देशीशब्द इक्षुरसार्थः तथा च इक्षुरस इव उदकं यस्य स इक्षुरसोदकः समुद्रः रसमाश्रित्य वैजयन्तः प्रधान: अपरसमुद्राणां पताकेवोपरि व्यवस्थितत्वात्, एवं तपउपधानेन विशिष्टतपोविशेषेण मुनिः भगवान् वैजयन्तः प्रधान इति ।।२०।। किञ्चहत्थीसु एरावणमाहुणाते, सीहे मियाणं सलिलाण गंगा। पक्खीसु या गरुले वेणुदेवे, णिबाणवादीणिह णायपुत्ते ।।२१।। . .
हस्तिषु मध्ये ऐरावणं ज्ञातं प्रसिद्धम् आहुः मृगाणां च मध्ये यथा सिंहः, तथासलिलानां मध्ये यथा गङ्गाः, पक्षिषु मध्ये यथा गरुडः अपरनाम्ना वेणुदेवः प्रधानतया व्यवस्थितः, निर्वाणवादिनां मध्ये ज्ञातपुत्रः भगवान् प्रधान: यथावस्थितवादित्वादिति ।।२१।।
आपे च
जोहेसुणाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु । खत्तीण सेढे जह दंतवक्के, इसीण सेढे तह वद्धमाणे ।।२२।।
योधेषु मध्ये ज्ञात: प्रसिद्धो दृष्टान्तभूतो वा विश्वा चतुरङ्गी सेना यस्य स विश्वसेनः चक्रवर्ती, यथा च पुष्पेषु मध्ये अरविन्दं प्रधानमाहुः क्षत्रियाणां मध्ये यथा दान्ता उपशान्ता
Page #92
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaaa ८७ | यस्य वाक्येनैव शत्रवः स दान्तवाक्य: चक्रवर्ती, तथा ऋषीणां मध्ये श्रीमान् वर्धमान : स्वामी श्रेष्ठ इति ।।२२।। तथादाणाण सेढं अभयप्पदाणं, सच्चेसु या अणवज्जं वदंति । तवेसुया उत्तमबंभचेरं, लोउत्तमे समणे नायपुत्ते ।।२३।।
दानानां मध्ये श्रेष्ठम् अभयदानप्रदानम्, सन्झ्यो हितं सत्यमिति कृत्वा सत्येषु वाक्येषु मध्ये अनवद्यम् अपापं परपीडानुत्पादकं वाक्यं श्रेष्ठं वदन्ति, तथा तपस्सु मध्ये यथा उत्तम ब्रह्मचर्यम् तथा लोकोत्तमो ज्ञातपुत्र: श्रमण : भगवान् सर्वातिशायिज्ञानदर्शनशीलरूपान्वितत्वादिति ।।२३।। किञ्चठितीण सेट्ठा लवसत्तमा वा, सभा सुधम्मा व सभाण सेट्ठा । निव्वाणसेट्टा जह सबधम्मा, ण णायपुत्ता परमत्थि णाणी ||२४||
स्थितितद्वतामभेदोपचारात् स्थितिमतां मध्ये यथा लवसत्तमाः अनुत्तरविमानवासिनो देवाः श्रेष्ठाः प्रधाना:, यदि किल तेषां सप्त लवा आयुष्कमभविष्यत्तत: सिद्धिगमनमभविष्यदित्यतो लवसत्तमास्तेऽभिधीयन्ते, सभानां च सौधर्मा सभा श्रेष्ठा बहुभि: क्रीडास्थानैरुपेतत्वात्, यथा सर्वेऽपि धर्मा निर्वाणश्रेष्ठा: मोक्षप्रधाना भवन्ति, यत: कुप्रावचनिका अपि निर्वाणफलमेव स्वदर्शनं ब्रुवते, एवं ज्ञातपुत्रात् वीरवर्धमानस्वामिनः सर्वज्ञात् सकाशात् परं प्रधानं नास्ति ज्ञानम् ‘ण णायपुत्ता परमत्थि नाणी' इति पाठान्तरं, तथा च ज्ञातपुत्रान्न परोऽस्ति कश्चित् ज्ञानी ।।२४।। किञ्चान्यत्पुढोवमे धुणति विगतगेही, न सन्निहिं कुब्वति आसुपण्णे। तरितुं समुदं व महाभवोघं, अभयंकरे वीरे अणंतचक्खू ॥२५॥
__अभयङ्करः वीरः भगवान् अनन्तं चुक्षुरिव केवलज्ञानं यस्य सः अनन्तचक्षुःअसौ तथा- पृथक् पृथक् मेरुगिरिस्वयंभूरणसमुद्रादिभि: श्रेष्ठवस्तुभिरुपमीयतेऽसौ इति पृथगुपमः भगवान, यदिवा-यथा पृथिवी सकलाधारा तथा भगवानपि सदुपदेशदानात् सत्त्वाधार इति, अथवायथा पृथ्वी सर्वसहा, एवं भगवानपि परीषहोपसर्गान् सम्यक् सहत इति, तथा-असौ आशुप्रज्ञः धुनाति क्षपयति अष्टप्रकारं कर्मेति शेषः, तथा-विगतगृद्धिः सन्निधिं द्रव्यभावलक्षणं न करोति तथा तरित्वा समुद्रमिव महाभवौधं निर्वाणं प्राप्त इति ।।२५।। कषायमुक्तिरेव किल मुक्तिरित्याहकोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा । एताणि वंता अरहा महेसी, ण कुव्वति पावं ण कारवेती ।।२६।।
Page #93
--------------------------------------------------------------------------
________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् sadaad८८
क्रोधं च मानं च तथैव मायां लोभं च चतुर्थम् इत्येतान् अध्यात्मदोषान् वान्त्वाऽसौ भगवान् अर्हन् महर्षिः न करोति स्वयं पापं न कारयति अन्यैः पापं न चानुजानीत इति ।।२६।। किञ्चान्यत्किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पडियच्च ठाणं । से सव्ववायं इति वेयइत्ता, उवहिते संजम दीहरायं ॥२७॥
क्रियावादिनामक्रियावादिनामज्ञानवादिनां विनयवादिनां स्थानं दर्शनं सर्ववाद च बौद्धादिकमपि दर्शनं दुर्गतिहेतुत्वेन प्रतीत्य ज्ञात्वा, अपरानपि सत्वान् तानि दर्शनानि दुःखहेतुः इति वेदयित्वा परिज्ञाप्य स भगवान् दीर्घरानं यावज्जीवं संयमम् उपस्थित : संयमोत्थानेनोत्थित इत्यर्थः ।।२७।। साम्प्रतं सुधर्मस्वामी भगवद्गुणानाख्याय स्वशिष्यानाहसे वारिया इत्थि सराइभत्तं, उवहाणवं दुक्खखयट्ठयाए । लोगं विदित्ता आरं परं च, सव्वं पभू वारिय सदवारं ||२८||
स भगवान् सरात्रिभोजनं स्त्रियं उपलक्षणादन्यदपि आश्रवान् वारयित्वा दुःखहेतुत्वात् अष्टप्रकारं कर्मैव दुःखं तत्क्षयार्थं उपधानवान् तपोनिष्टप्तदेहः लोकं विदित्वा आरं इहलोकं परं परलोकं मनुष्यलोकं वा नरकादिकं वा स्वरूपत: तत्प्राप्तिकारणं च सम्यक् ज्ञात्वा प्रभुः सर्वं सर्वपापस्थानं सर्ववारं बहुशो निवारितवान् । स्वतो अनुष्ठाय परान् स्थापितवान्, न हि स्वतोऽस्थित: परांश्च स्थापयितुमलमित्यर्थः ।।२८।। सोच्चा य धम्म अरहंतभासियं, समाहितं अट्ठपओवसुद्धं । तं सद्दहंता य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति ||२९|| त्ति बेमि ।
अर्हद्भाषितं धर्म श्रुत्वा, अर्थपदोपशुद्धं अर्थ : जीवादिभिः पदैः वाचकैः शब्दैश्च उपशुद्धं सयुक्तिकं तं च धर्म श्रद्दधानाः तथाऽनुतिष्ठन्तो बहवो जनाः अनायुष : सिद्धा: संवृताः, सायुषश्च इन्द्रा भवन्ति देवाधिपाः, ततश्च च्युताः सन्त: पुन: सुकुलोत्पत्त्या आगमिष्यन्ति सेत्स्यन्ति चेति ।।२९।।
।। षष्ठमध्ययनम् समाप्तम् ।।
।। अथ सप्तममध्ययनम् ।। अनन्तरं श्री वर्धमानस्वामिनो गुणस्तुत्या सुशीलपरिभाषा कृता, साम्प्रतं तद्विपर्यस्ता: कुशीला: परतीर्थिका: स्वयूथ्या वा परिभाष्यन्त इत्यस्याध्ययनस्यादिसूत्रमाह
Page #94
--------------------------------------------------------------------------
________________
5.
श्री सूत्रकृताङ्गसूत्रम्
पुढवी य आऊ अगणी य वाऊ, तण रुक्ख बीया य तसा य पाणा । जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिधाणा ||१|| एताइं कायाइं पवेदियाइं, एतेसु जाण पडिलेह सायं । एतेहिं कायेहि य आयदंडे, एतेसु या विप्परियासुविंति ॥२॥
८९
पृथ्व्यप्तेजोवायुकाया: वनस्पतिकायाश्च तृणवृक्षबीजादय: तथा त्रसाश्च प्राणिन:, तथाहि-ये चाण्डजा ; ये च जरायुजाः प्राणिनः संस्वेदजा:, ये चे रसजाभिधानाः । एते कायाः जीवनिकाया भगवद्भिः प्रवेदिताः । एतेषु जीवनिकायेषु सातं सुखं जानीहि यथा- एते सर्वे सुखैषिणो दुःखद्विषश्चेति ज्ञात्वा प्रत्युपेक्षस्व पर्यालोचय, यथा-एतैः कायैः समारभ्यमाणैः आत्मदण्डो भवति, आत्मा दण्ड्यते नि:सारीक्रियत इत्यर्थः । यथाऽऽत्मदण्डो भवति तथा दर्शयन्नाह-एतान् जीवनिकायान् ये समारम्भेण दण्डयन्ति ते एतेषु एव पृथिवीकायादिषु विपर्याशूपयान्ति विविधम् अनेकप्रकारं परि-समन्ताद् आशु- क्षिप्रम् उपयान्ति व्रजन्ति, भूयो भूयः समुत्पद्यन्त इत्यर्थः, यदिवा विपर्यासमुपयान्ति विपर्यासं जन्ममरणलक्षणं संसारमुपयान्ति, अथवा सुखार्थी तानारभ्य दुःखमाप्नोति, यद्वा मोक्षार्थी तानारभमाणः संसारमवाप्नोतीति ।।१।। ।।२।। एतदेव दर्शयति
जातीवहं अणुपरिमाणे, तस थावरेहिं विणिघायमेति ।
से जाति-जाती बहुकूरकम्मे, जं कुव्वती मिज्जति तेण बाले ॥३॥
जातीनाम् एकेन्द्रियादीनां पन्था जातिपथ: यदिवा जाति: जन्म वधश्च मरणं जातिवधं तद् अनुपरिवर्तमान: त्रसेषु स्थावरेषु च विनिघातं विनाशम् एति प्राप्नोति । स बहुक्रूरकर्मा जातिं जातिम् अवाप्य यत् पापकर्म करोति तेन पापकर्मणा स बाल : अज्ञः मीयते - भ्रियते पूर्यते, यदिवा मीयते-हिंस्यते, अथवा चौरोऽयं पारदारिक इति मीयते-परिच्छिद्यत इति ।। ३ ।। क्व मीयत इत्याह
अस्सि च लोगे अदुवा परत्था, सतग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधंति वेयंति य दुण्णियाई ||४||
संसारमापन्ना: जीवाः अस्मिन् लोके अथवा परत्र जघन्यतो दशगुणं शताग्रशस्तथा अन्यथा वा सहस्रशो वा यावत् कोटाकोटिगुणं परं परं प्रकृष्टं बघ्नन्ति वेदयन्ति दुःखमनुभवन्ति च दुर्नीतानि दुष्कृतानीति ।।४।। ओघतः कुशीला: प्रतिपादिताः, अधुना पाषण्डिनमधिकृत्याह
Page #95
--------------------------------------------------------------------------
________________
addadakaitiacaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaaaduddit९० जे मायरं च पियरं च हेच्चा, समणबदे अगणि समारभेज्जा । अहाहु से लोगे कुसीलधम्मे, भूताई जे हिंसति आतसाते ||५||
ये मातरं पितरं स्वजनादिनां च हित्वा त्यक्त्वा श्रमणव्रते उपस्थिता अपि अग्नि समारभन्ते तानाश्रित्य अथ तीर्थकरगणधरा: आहुः यथा स पाषण्डिलोकः कुशीलधर्मा य आत्मसातं स्वकीयसुखार्थम् अग्निकायिकादीनि भूतानि हिनस्तीति ।।५ ।। अथाऽग्निकायसमारम्भे यथा हिंसा भवति तथा दर्शयन्नाहउज्जालओ पाण निवातएज्जा, निव्वावओ अगणि निवातइज्जा । तम्हा उ मेहावि समिक्ख धम्म, ण पंडिते अगणि समारभेज्जा ||६||
___ अग्निम् उज्ज्वालयन् अग्निकायमपरांश्च पृथ्व्याद्याश्रितान् स्थावरान् त्रसांश्च प्राणिनः निपातयेद् विनाशयेत् तथा अग्निम् उदकादिना निर्वापयन् विध्यापयन् उदकादीन् तदाश्रितांश्च प्राणिनः निपातयेत् । यस्मादेवमुभयथापि प्राणातिपात: तस्मात्, तु मेधावी समीक्ष्य धर्म पण्डितः नाग्नि समारभते ।।६।। कथमग्निकायसमारम्भेणापरप्राणिवधो भवतीत्याशङ्क्याहपुढवी वि जीवा आऊ वि जीवा, पाणा य संपातिम संपयंति । संसेदया कट्ठसमस्सिता य, एते दहे अगणि समारभंते ||७||
पृथ्व्यपि जीवाः, आपोऽपि जीवाः, एतदुभयनिश्रिताश्च जीवाः, प्राणिनश्च सम्पातिमाः शलभादय: अग्नौ संपतन्ति, संस्वेदजाः करिषादिष्विन्धनेषु, काष्ठसमाश्रिताश्च घुणपिपीलिकादयश्च एतान् त्रसस्थावरान दहेद् यस्तापसादिक: अग्निकायं समारभेतेति ।।७।। साम्प्रतं ते चान्ये वनस्पतिकायसमारम्भादनिवृत्ताः परामृश्यन्तेहरिताणि भूताणि विलंबगाणि, आहारदेहाइं पुढो सिताई। जे छिंदती आतसुहं पडुच्चा, पागब्भि पाणे बहुणं तिवाती ||८||
हरितानि दूर्वाऽङ कुरादीनि सङ्ख्येयाऽसङ्ख्येयानन्तभेदभिन्नानि भूतानि जीवा मनुष्यवद् गर्भप्रसवबालकुमारयुवमध्यमस्थविराद्यवस्थालक्षणं जीवाकारं विलम्बन्ति धारयन्तीति विलम्बकानि आहारादेर्वृद्धिदर्शनाद् आहारं देहांश्च मूलस्कन्धशाखापत्रपुष्पादिलक्षणान् पृथक प्रत्येकं श्रितानि । एतानि वनस्पतिकायिकानि यच्छिनत्ति आत्मसुखम् आहारादिलक्षणं प्रतीत्य स प्रागल्भी निरनुक्रोशमति: वनस्पतिकायिकानां तदाश्रितानाञ्च बहूनां प्राणिनाम् अतिपाती विनाशको भवति तदतिपाताच्च निरनुक्रोशतया न धर्मो नाप्यात्मसुखमित्यर्थः ।।८।। किञ्च
Page #96
--------------------------------------------------------------------------
________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् circadian ९१ | जातिं च बुद्धिं च विणासयंते, बीयादि अस्संजय आयदंडे । अहाहु से लोए अणज्जधम्मे, बीयाति जे हिंसति आयसाते ।।९।।
जातिम् उत्पत्तिं वृद्धिं च अकुरपत्रादिभेदेन बीजानि च तत्फलानि विनाशयन् असंयत: आत्मानं दण्डयतीति आत्मदण्डः समवसेयः । अथ तीर्थकरगणधरादय आहुः-य आत्मसाताय बीजानि उपलक्षणाद् वनस्पतिकायं हिनस्ति स लोके अनार्यधर्मा भवतीति ।।९।। साम्प्रतं वनस्पतिकायोपमर्दककर्मविपाकमाहगब्भाइ मिज्जंति बुया-ऽबुयाणा, णरा परे पंचसिहा कुमारा | जुवाणगा मज्झिम थेरगा य, चयंति ते आउखए पलीणा ||१०||
वनस्पतिकायोपमर्दका बहुषु जन्मसु गर्भादिकासु अवस्थासु म्रियन्ते । ब्रुवन्तोऽब्रुवन्तश्च व्यक्तवाचोऽव्यक्तवाचश्च तथा परे नराः पञ्चशिखाः पञ्चेन्द्रियाणि शिखाभूतानि बुद्धिसमर्थानि स्वे स्वे विषये येषां ते तथा कुमारा युवानो मध्यमवयसः स्थविरा अत्यन्तवृद्धाश्च सन्त: आयुःक्षये सति प्रलीनाः सन्त: च्यवन्ति अनियतायुष एव देहं त्यक्त्वा परलोकं यान्तीत्यर्थः ।।१०।। किञ्चान्यत्संबुज्झहा जंतवो ! माणुसत्तं, दटुं भयं बालिसेणं अलंभो । एगंतदुक्खे जरिते व लोए, सकम्मुणा विपरियासुवेति ११।।
हे ! जन्तवः सम्बुध्यध्वम्, यथा-मानुषत्वं दुर्लभं जन्मादिभवं भयं दृष्ट्वा तथाबालिशेन कशीलपाषण्डिलोकेन सदसद्विवेकस्य अलम्भः तथा निश्चयनयत एकान्तदु:खो ज्वरित इव लोकः स्वकर्मणा विपर्यासमुपैति, तथाहि- सुखार्थी प्राण्युपमदं कुर्वन् दुःखं प्राप्नोति, यदिवा मोक्षार्थी संसारं पर्यटतीति ।।११।। उक्त: कुशीलविपाक: अधुना तद्दर्शनान्यभिधीयन्तेइहेगे मूढा पवदंति मोक्खं, आहारसंपज्जणवज्जणेणं । एगे य सीतोदगसेवणेणं, हुतेण एगे पवदंति मोक्खं ।।१२।।
इह पाषण्डिलोके एके मूढाः प्रवदन्ति मोक्षं मोक्षप्राप्ति, केनेत्याह- आह्रियत इत्याहार ओदनादिस्तस्य सम्पद् रसपुष्टिस्तां जनयतीति आहारसम्पज्जननं लवणं तस्य वर्जनं तेन आहारसम्पज्जननवर्जनेन लवणवर्जनेन मोक्षं वदन्तीत्यर्थः । पाठान्तरं वा 'आहारसपंचयवज्जनेन' आहारेण सह लवणपञ्चकम् आहारसपञ्चकं, लवणपञ्चकं चेदं, तद्यथा-सैंधवं सौवर्चलं बिडं रौमं समुद्रं चेति । लवणेन हि सर्वरसानामभिव्यक्तिर्भवति, तदेवम्भूतलवणपरिवर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाः प्रवदन्ति, पाठान्तरं
Page #97
--------------------------------------------------------------------------
________________
aaidikskit श्री सूत्रकृताङ्गसूत्रम् adaaaa १२ वा 'आहारओ पंचकवज्जणेणं' आहारत इति आहारमाश्रित्य पञ्चकवर्जनेन, तद्यथा-लशुनं पलाण्डुः करभीक्षीरं गोमांसं मद्यं चेत्येतत्पञ्चकवर्जनेन मोक्षं प्रवदन्ति, तथा-एके च वारिभद्रकादयो भागवतविशेषा शीतोदकसेवनेन मोक्षं प्रवदन्तीत्यर्थः, तथा-एके तापसब्राह्मणादयः अग्नौ हुतेन मोक्षं प्रवदन्तीति ।।१२।। अथ तेषामुत्तरदानायाहपाओसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासएणं । ते मज्ज मंसं लसुणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति ।।१३।।
____प्रात: स्नानादिभिर्नास्ति नि:शीलानां मोक्षः, आदिग्रहणात् हस्तपादादि प्रक्षालनं गृह्यते, तथा क्षारस्य लवणस्य अनास्वादनेन अपरिभोगेन मोक्षो नास्ति, लवणरहिते देशे सर्वेषां मोक्षप्रसङ्गात्, न चैवं दृष्टमिष्टं वा । पुन: ते कुतीथिका मद्यं मासं लशुनं च भुक्त्वा मोक्षाद् अन्यत्र संसार एव वासं परिकल्पयन्ति । मद्यमांसादिभोजिनां न मोक्षावाप्तिरित्यर्थः ।।१३।। अथ विशेषेणोत्तरदानायाहउदगेण जे सिद्धिमुदाहरंति, सायं च पातं उदगं फुसंता। उदगस्स फासेण सिया य सिद्धी, सिन्झिसु पाणा बहवे दगंसि ॥१४॥
सायं प्रातश्च उदकं स्पृशन्तो ये उदकेन शीतवारिणा सिद्धिमुदाहरन्ति तान् प्रत्याहउदकस्य स्पर्शेन यदि स्याच्च सिद्धिः तदा प्रथमं सिध्येयुः प्राणिनः मत्स्यादयः बहवः उदके इति ।।१४।। एतदेवाइमच्छा य कुम्मा य सिरीसिवा य, मग्गू य उट्टा दगरक्खसा य । अट्ठाणमेयं कुसला वदंति, उदगेण जे सिद्धिमुदाहरंति ।।१५।।
___ मत्स्याश्च कुर्माश्च सरिसृपाश्च मद्गवश्च जलवायसा: उष्ट्राः जलचरविशेषा: उदकराक्षसाश्च जलमानुषाकृतयः एतेषां सर्वेषां मोक्षप्रसङ्ग, स्यात् ततश्च ये उदकेन सिद्धिमुदाहरन्ति मोक्ष प्रवदन्ति तेषाम् एतत् प्ररूपणम् अस्थानं युक्तिशून्यत्वादेवाऽयुक्तमिति कुशलाः मोक्षमार्गज्ञा: वदन्तीति ।।१५।। किञ्चाऽन्यत्उदगं जती कम्ममलं हरेज्जा, एवं सुहं इच्छामेत्तमेव । अंधव्व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा ||१६||
उदकं यदि कर्ममलं हरेत् तदा एवम् उक्तनीत्या शुभं पुण्यमपि अपहरेत् । नो चेत्, ततस्तव इच्छामात्रेव इदं यदुच्यते-जलं कर्ममलाऽपहारीति । एवमपि व्यवस्थिते जलशौचोपदेशकं स्मार्तमार्गमनुसरन्त: मन्दाः जात्यन्धतुल्या अपरम् अन्धं नेतारं मार्गदेशकम् अनुसृत्य
Page #98
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
..
९३
• जलशौचपरायणाः प्राणिन एव तन्मयान् तदाश्रितांश्च पूतरकादीन् विनिघ्नन्ति व्यापादयन्तीति ।। १६ ।।
किञ्च
पावाइं कम्माइं पकुव्वतो हि, सिओदगं तु जइ तं हरेज्जा । सिज्झिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ||१७||
पापानि कर्माणि प्रकुर्वतः सतः यत् कर्मोपचीयते तत् शीतोदकं तु यदि हरेत् हि यस्मादेवं तस्मात् सिद्धयेयुः एके उदकसत्त्वघातिनः अपि न चैतद्दृष्टमिष्टं वा तस्माद् ये जलसिद्धिं जलावगाहनान्मोक्षम् आहुः ते मृषा वदन्तीति ।। १७ ।। किञ्चान्यत्
ते जे सिद्धिमुदाहरति, सायं च पातं अगणि फुसंता । एवं सिया सिद्धि हवेज्ज तम्हा, अगणि फुसंताण कुकम्मिणं पि ||१८||
सायं प्रातश्चाग्निं स्पृशन्त: तर्पयन्तः हुतेन ये सिद्धिमुदाहरन्ति, तान् प्रत्याह-यस्माद् एवम् अग्निस्पर्शेन सिद्धिः स्यात् तस्माद् अग्निं स्पृशतां कुकर्मिणामपि अङ्गारदाहककुम्भकारायस्कारादीनामपि सिद्धिर्भवेद् न चैतद् दृष्टमिष्टं वा तस्मादेतदपि युक्तिविकलत्वाद् वाङ्मात्रमेवेति ।।१८।। उक्तानि पृथक् कुशीलदर्शनानि, अयमपरस्तेषां सामान्योपालम्भ इत्याहअपरिक्ख दिट्ठ ण हु एव सिद्धी, एहिंति ते घातमबुज्झमाणा । भूतेहिं जाण पडिलेह सातं, विज्जं गहाय तस थावरेहिं ॥१९॥
यैर्मुमुक्षुभिः स्नानादिनाऽग्निहोत्रेण वा सिद्धिरुदाहृता तै: अपरिक्ष्य दृष्टम् एतद् यतो नैवं सिद्धिः, प्रत्युत तत्त्वम् अबुध्यमानास्ते धातं संसारम् एष्यन्ति प्राप्स्यन्ति । यत एवं ततो जानन् विद्वान् विद्यां विवेकं गृहीत्वा यथा-त्रसस्थावरेषु भूतेषु एकेन्द्रियादिषु सुखं प्रियमिति प्रत्युपेक्ष्य पर्यालोच्य जानीहि यदुत न च सुखैषिणां सत्त्वानां दुःखोत्पादनेन सुखावाप्तिरिति ।।१९।। ये पुनः प्राण्युपमर्दादिषु प्रवर्तन्ते सुशीला: कुशीलाश्च ते यदनुभवन्ति तदाहथणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू । तम्हा विदू विरते आयगुत्ते, दुडुं तसे य पडिसंहरेज्जा ||२०||
नरकादौ दुःखै पीड्यमानाः स्तनन्ति क्रन्दन्ति, लुप्यन्ते छिद्यन्ते हन्यन्ते च, त्रस्यन्ति पलायन्ते कर्मिणः सपापाः । पृथक् जगन्ति जगज्जीवान् परिसङ्ख्याय ज्ञात्वा, तथाहियस्मात् सपापा: स्तनन्ति लुप्यन्ते त्रस्यन्ति च तस्मात् विद्वान् प्राण्युपमर्दादे: विरत आत्मगुप्तो भिक्षुः : त्रसान् चशब्दात् स्थावरानपि दृष्ट्वा तदुपघातकारिणीं क्रियां प्रतिसंहरेत् निवर्तयेदिति ।। २० ।। साम्प्रतं स्वयूथ्या: कुशीला अभिधीयन्ते
Page #99
--------------------------------------------------------------------------
________________
Bachchadhaachaabe श्री सूत्रकृताङ्गसूत्रम् dadakaaaaaaag ९४ | जे धम्मलद्धं विणिहाय भुंजे, वियडेण साहट्ट य जो सिणाति । जो धावति लूसयती व वत्थं, अहाहु से णागणियस्स दूरे ।।२१।।
यः कश्चित् शीतलविहारी धर्मेण मुधिकया लब्धं धर्मलब्धम् आहारादिकं निर्दोषमपि विनिधाय सन्निधिं कृत्वा भुङ्क्ते तथा-यो विकटेन प्रासुकोदकेन संहृत्य च सङ्कोच्याङ्गानि प्रासुकेऽपि प्रदेशे स्नाति, यो धावति प्रक्षालयति वस्त्रं च विभूषार्थम्, एवमेव लूषयति छिनत्ति दीर्घ ह्रस्वं वा सन्धत्ते स्वार्थं परार्थं वा स नाग्न्यस्य निर्ग्रन्थभावस्य दूरे वर्तते एवमाहुः तीर्थकरगणधरादय इति ।।२१।। उक्ताः कुशीला:, अधुना शीलवन्त: प्रतिपाद्यन्तेकम्मं परिणाय दगंसि धीरे, वियडेण जीवेज्ज य आदिमोक्खं । से बीय-कंदाति अभुंजमाणे, विरते सिणाणादिसु इत्थियासु ।।२२।। __ • धीरः बुद्धिमान् उदके उदकसमारम्भे सति कर्म तस्य बन्धो भवति, एवं परिज्ञाय विकटेन प्रासुकोदकेन सौवीरादिना च जीव्यात् चशब्दात् प्रासुकेनैवाहारादिना प्राणवृत्तिं कुर्यात् आदिमोक्षं धर्मस्यादिकारणं शरीरं तद्विमुक्ति यावत् यावज्जीवमित्यर्थः किञ्चासौ बीजकन्दादीन् अभुञ्जान: विरतश्च स्नानादिभ्यः स्त्र्यादिभ्यः उपलक्षणाद् रात्रिभोजनादेः । यश्चैवम्भूतो नासौ कुशीलदोषैर्युज्यते, न संसारे बम्भ्रमीति, ततश्च न दुखित: स्तनति, नापि लुप्यते त्रस्यते चेति ।।२२ ।। पुनरपि कुशीलानेवाधिकृत्याहजे मातरं च पियरं च हेच्चा, गारं तहा पुत्त पसुंधणं च । कुलाई जे धावति साउगाई, अहाऽऽहु से सामणियस्स दूरे ।।२३।।
यः कश्चिदपरिणतधर्मा मातरं च पितरं चशब्दात् भ्रातृभगिन्यादिकम् अगारं गृहं पुत्रम् अपत्यजातं पशुं हस्त्यश्वगोमहिष्यादिकं धनं च प्रव्रजितत्वात् हित्वा त्यक्त्वा पुनर्हीनसत्वतया रसलाम्पट्यात् स्वादुकानि स्वादुभोजनवन्ति कुलानि यो धावति स श्रामणस्य दूरे वर्तते, एवमाहुस्तीर्थकरादय इति ।।२३।। एतदेव विशेषेण दर्शयितुमाहकुलाइंजे धावति सादुगाई, आघाति धम्म उदराणुगिद्धे । अहाहु से आयरियाण सतंसे, जे लावइज्जा असणस्स हेउं ||२४||
___ यः स्वादुकानि कुलानि धावति, प्रविष्टः सन् आख्याति च धर्मं धर्मव्याजेनाऽऽख्यायिका: उदरानुगृद्ध ः उदरभरणव्यग्र: स आचार्यगुणानाम् आर्यगुणानां वा शतांशे शतसहस्रादेरप्यधो वर्तते । यश्च अशनस्य हेतुम् आत्मगुणानपरेण आलापयेत् भाणयेत् सोऽपि अधो वर्तत इति तीर्थंकरगणधरादय आहुः इत्यर्थः ।।२४।। किञ्च
Page #100
--------------------------------------------------------------------------
________________
ॐ०००. श्री सूत्रकृताङ्गसूत्रम् ००० ९५ निक्खम्म दीणे परभोयणम्मि, मुहमंगलिए उदरियाणुगिद्धे । नीवार गिद्धे व महावराहे, अदूर एवेहति धातमेव ||२५||
स्वकीयं धनधान्यादिकं त्यक्त्वा निष्क्रम्य च परभोजने दीनो रसनेन्द्रियवशगो बन्दिवत् मुखे मङ्गलानि प्रशंसावाक्यानि यस्य स मुखमाङ्गलिक: चाटुकारी भवति । एवम् उदरानुगृद्धो नीवारगृद्धः सूकरादिमृगभक्ष्याऽऽसक्तः महावराहः महाकाय : सूकर इव अदूर एव शीघ्रमेव घातं विनाशम् एष्यति यास्यतीति ।। २५ ।। किञ्चान्यत्
अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च निस्सारए होति जहा पुलाए ||२६||
1
स कुशील: अन्नस्य पानस्य इहलौकिकस्य च कृते वस्त्रादेः सेवकवत् अनुप्रियम् अनुभाषते दातारं सेवमानः स एवं पार्श्वस्थत्वं कुशीलत्वं च गच्छति । तथा निष्कणः पुलाक : तुषमात्रावशेष इव निस्सारो भवति संयमानुष्ठानं निस्सारीकरोतीत्यर्थः ।। २६ । । उक्त : कुशीलाः, पुन: सुशीलानाह
अण्णातपिंडेणऽधियासएज्जा, नो पूयणं तवसा आवहेज्जा । सद्देहिं रूवेहिं असज्जमाणे, सव्वेहिं कामेहिं विणीय गेहिं ॥ २७ ॥
अज्ञातपिण्डेन अन्तप्रान्तेन लब्धेन समचित्तः सन् अध्यासयेत् अधिसहेत् अलब्धेन न दैन्यं कुर्यात्, नाप्युत्कृष्टेन लब्धेन मदं विदध्यादित्यर्थः । तपसा न पूजनमावहेत् न पूजासत्कारनिमित्तं तपः कुर्यादित्यर्थः । तथा शब्देषु रूपेषु अपि असजन् एवं सर्वेभ्यः कामेभ्यो गृद्धिम् विनीय अपनीय संयममनुपालयेदिति ।। २७ ।। किञ्च
सव्वाइं संगाई अइच्च धीरे, सव्वाइं दुक्खाइं तितिक्खमाणे । अखिले अगिद्धे अणि यचारी, अभयंकरे भिक्खू अणाविलप्पा ||२८||
सर्वान् सङ्गान् अतीत्य त्यक्त्वा धीरः परीषहोपसर्गजनितानि सर्वाणि दुःखानि तितिक्षमाणः अधिसहन्, अखिल : ज्ञानादिभि: सम्पूर्ण:, कामेषु अगृद्धः, अनियतचारी अप्रतिबद्धविहारी, जीवानाम् अभयङ्करो भिक्षुः, विषयकषायैः अनाविलात्मा अनाकुलस्वभावः सन् संयममनुवर्तत इति ।। २८ ।। किञ्च
भारस्स जाता मुणि भुंजएज्जा, कंखेज्ज पावस्स विवेग भिक्खू | दुक्खेण पुढे धुयमातिएज्जा, संगामसीसे व परं दमेज्जा ||२९||
Page #101
--------------------------------------------------------------------------
________________
०००००८ श्री सूत्रकृताङ्गसूत्रम्
०००००० [ ९६
भारस्य संयमभारस्य यात्रार्थं निर्वाहार्थं मुनिर्भुञ्जीत, पूर्वाचारितस्य पापस्य विवेकं विनाशं काङ्क्षेत् भिक्षु:, तथा परीषहोपसर्गादिना दुःखेन स्पृष्टः सन् धूतं संयमं ज्ञानादि वा आददीत, संयमादिना दुःखं जयेदित्यर्थः, यथा दमदन्तो राजर्षिः, यथा वा कश्चित् सुभटः सङ्ग्रामशिरसि शत्रुं दमयति तथा परं कर्मशत्रुं दमयेदिति ।। २९ ।। अपि चअवि हम्ममाणे फलगावतट्ठी, समागमं कखति अंतगस्स ।
णिद्धूय कम्मं ण पवंचुवेति अक्खक्खए वा सगडं ||३०|| त्ति बेमि परीषहोपसर्गै हन्यमानोऽपि फलकावतष्टी यथा फलकमुभाभ्यामपि पार्श्वाभ्यामवतष्टम् अवकृष्टं सत् तनु भवति अरक्तद्विष्टं च तथाऽसावपि साधुस्तपसा कृशशरीर : अरक्तद्विष्टश्च अन्तकस्य मृत्योः समागमं काङ्क्षति । एवं कर्म निर्धूय क्षपयित्वा मोक्षं च प्राप्य न पुनः जन्मजरामरणादिलक्षणं प्रपञ्चं संसारम् उपैति यथा अक्षक्षये गत्युपष्टम्भकस्याऽक्षस्य क्षये विनाशे शकटं समविषमपथरूपं प्रपञ्चं नोपैतीति ब्रवीमीति ।। ३० ।।
"
।। समाप्तं सप्तममध्ययनम् ।।
"
।। अथ वीर्यनामाऽष्टममध्ययनम् ।।
इहानन्तराऽध्ययने कुशीलाः सुशीलाश्च प्रतिपादिता:, तेषां च कुशीलत्वं सुशीलत्वं च संयमवीर्यान्तरायोदयात् तत्क्षयोपशमाच्च भवत्यतो वीर्यप्रतिपादनायेदमध्ययनमारभ्यते, तस्यचेदमादिसूत्रम्
दुहा चेयं सुयक्खायं, वीरियं ति पवुच्चति ।
किं नु वीरस्स वीरत्तं, केण वीरो त्ति वुच्चति ||१||
द्विधा चेदं वीर्यं जीवस्य शक्तिविशेष इति यदनन्तरं प्रोच्यते तत् सुष्ठ्वाख्यातं स्वाख्यातं तीर्थकरादिभिः । किमिति परिप्रश्ने नु शब्दश्च वितर्के, तथाहि किं वीरस्य सुभटस्य वीरत्वं, कथं चाऽसौ वीर इति प्रोच्यते ? इति गाथार्थः । ।। १ ।। अत्र भेदद्वारेण वीर्यस्वरूपमाख्यातुमाह
कम्ममेगे पवेदेंति, अकम्मं वा वि सुव्वता ।
एतेहिं दोहिं ठाणेहिं, जेहिं दिस्संति मच्चिया ॥२॥
एके कर्म क्रियानुष्ठानं, यदिवा कर्माऽष्टप्रकारं कारणे कार्योपचारात् तदेवौदयिकभावनिष्पन्नत्वाद् बालवीर्यमिति प्रवेदयन्ति, द्वितीयं तु अकर्मवीर्यं वीर्यान्तरायक्षयजनितं जीवस्य
Page #102
--------------------------------------------------------------------------
________________
Bakadaacaaaaad श्री सूत्रकृताङ्गसूत्रम् aakadikisodai ९७ ] सहजं वीर्यम्, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितं च पण्डितवीर्य हे सुव्रता ! यूयं जानीत । आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाऽकर्मकाऽऽपादितबालपण्डिवीर्याभ्यां व्यवस्थितं वीर्यमुच्यते, याभ्यां ययोर्वा व्यवस्थिता मा : मनुष्या दृश्यन्ते व्यपदिश्यन्ते वा, तथाहिनानाविधासु क्रियासु प्रवर्तमानमुत्साहबलसंपन्नं मयं दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यत इति प्रथमो भेदः, तथा तदावारककर्मण: क्षयादनन्तबलयुक्तोऽयं मर्त्य इक्येवमपदिश्यते दृश्यते चेति द्वितीयो भेदः ।।२ ।। साम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनाऽपदिशन्नाहपमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसतो वा वि, बालं पंडितमेव वा ||३||
प्रमादं कर्मोपादानभूतं कर्म आहुः तीर्थकरादयः, तथाऽपरम् अप्रमादम् अकर्म आहुः । तस्य प्रमादस्य भावः सत्ता तद्भावस्तेनाऽऽदेशो व्यपदेशस्ततो तद्भावादेशतः एतच्च बालं बालवीर्य प्रमादाभावाच्च पण्डितं पण्डितवीर्यं वेत्येवमायोज्यम् ।।३।। प्रमादोपहतस्य यद्बालवीर्य तदर्शयितुमाहसत्यमेगे सिक्खंता, अतिवायाय पाणिणं । एगे मंते अहिज्जंति, पाणभूयविहेडिणो ||४||
शस्त्रं खड्गादि शास्त्रं वा धनुर्वेदाऽऽयुर्वेदकामशास्त्रादिकम् एके असंयता: शिक्षमाणाः अभ्यसन्त: प्राणिनाम् अतिपाताय विनाशाय जायन्ते । एके च असंयता एव प्राणा: द्वीन्द्रियादयो भूतानि च पृथिव्यादीनि तेषां विहेठकान् विबाधकान् प्राणभूतविहेठकान् मन्त्रान् अश्वमेधादियागार्थम् अधीयते ते सर्वे सकर्मकबालवीर्यवन्त: अवसेया अशुभाध्यवसितत्वादिति ।।४।। किञ्चान्यत्माइणो कट्ट मायाओ, कामभोगे समारभे । हंता छेत्ता पकत्तित्ता, आयसायाणुगामिणो ||५||
मायाविनो मायाः परवञ्चनानि कृत्वा कामान् भोगांश्च समारभन्ते सेवन्ते, पाठान्तरं वा 'आरंभाय तिवट्टइ' आरम्भार्थं मनोवाक्कायैस्त्रिभिर्वर्तते, तदेवम् आत्मसातानुगामिनः स्वसुखलिप्सव: प्राणिनां हन्तारः छेत्तारः प्रकर्तयितारश्च भवन्तीति ।।५।। तदेतत्कथमित्याहमणसा वयसा चेव, कायसा चेव अंतसो। आरतो परतो यावि, दुहा वि य असंजता ||६||
__एतत् प्राण्युपमर्दनं मनसा वचसा कायेन कृतकारितानुमतिभिश्च अन्तशः कायेनाऽशक्तोऽपि तन्दुलमत्स्यवत् मनसैव पापानुष्ठानाऽतुमत्या कर्म बध्नाति । तथा-आरतः परत
Page #103
--------------------------------------------------------------------------
________________
aadaakarakarad श्री सूत्रकृताङ्गसूत्रम् sadhanadai ९८ चेति एहिकाऽऽमुष्मिकयो: द्विधाऽपि स्वयंकरणेन परकरणेन चाऽसंयता जीवोपधातकारिणो भवन्तीति ।।६।। साम्प्रतं जीवोपधातविपाकदर्शनार्थमाह- - - वेराइं कुब्बती वेरी, ततो वेरेहिं रज्जती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ||७||
वैरी जीवोपघातकारी वैराणि जन्मशतानुबन्धीनि करोति, ततः अपि वैरेषु वैरपरम्परासु रज्यते यत: पापोपगाश्च आरम्भाः अन्तशो विपाककाले दुःखस्पर्शा: असातोदयविपाकिनो भवन्तीति ।।७।। किञ्चान्यत्संपरागं णियच्छंति, अत्तदुक्कडकारिणो। रोग-दोसस्सिया बाला, पावं कुब्ति ते बहुं ||८||
जीवोपघातकत्वेन वैरानुषङ्गात् सम्परायं साम्परायिकं कर्म नियच्छन्ति बध्नन्ति आत्मदुष्कृतकारिणः स्वाशुभविधायिनः । ते च पुनः रागद्वेषाश्रिताः बाला: बहु अनन्तं पापं कुर्वन्ति, तथाहि-जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशित:, तत्पुत्रेण कार्तवीर्येण पुनर्जमदग्निः, जमदग्निसुतेन परशुरामेण सप्तवारान् निक्षत्रा पृथिवीकृता, पुन: कार्तवीर्यसुतेन तु सुभूमेन त्रि:सप्तकृत्वो ब्राह्मणा व्यापादिताः । तदेवं कषायवशगा: प्राणिनस्तत् कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवतीति ।।८।। एवं बालवीर्यं प्रदर्योपसहरन्नाहएतं सकम्मविरियं, बालाणं तु पवेदितं । एत्तो अकम्मविरियं पंडियाणं सुणेह मे ॥९॥
एतद् अनन्तरोक्तस्वरूपं सकर्मवीर्यं बालानां तु प्रवेदितम्, अत: ऊर्ध्वं अकर्मवीर्यं पण्डितानां मम कथयतः शृणुत यूयमिति ।।९।। यथाप्रतिज्ञातमाहदविए बंधणुम्मुक्के, सवतो छिण्णबंधणे । पणोल्ल पावगं कम्मं, सल्लं कंतति अंतसो ||१०||
___ द्रव्यो भव्यो बन्धनोन्मुक्त: अल्पकषायत्वान्मुक्तकल्पः, सर्वत: छिन्नबन्धनः अकर्मवीर्यवान् आश्रवाद्यभावात् प्रणुद्य प्रेर्य पापं कर्म, शल्यं भावकर्म कृन्तति अन्तशः निरवशेषम् । पाठान्तरं 'सल्लं कंतइ अप्पणो' आत्मन: शल्यं कृन्ततीति ।।१०।। यदुपादाय शल्यं कृन्तति तद्दर्शयितुमाहणेयाउयं सुयक्खातं, उवादाय समीहंते । भुज्जो भुज्जो दुहावासं, असुभत्तं तहा तहा ।।११।।
Page #104
--------------------------------------------------------------------------
________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
९९
मोक्षं प्रति नयनशीलं नैयायिकं तीर्थकरादिभिः सुष्ट्वाख्यातं स्वाख्यातं धर्मम् उपादाय सम्यग् इहते चेष्टते समीहते ध्यानाध्ययनादावुद्यमं विधत्ते इत्यर्थः । अथ धर्मध्यानारोहणायालम्बनमाह-यद्बालवीर्यं तद् भूयो भूयः पौनः पुन्येन दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु पर्यटति तथा तथा चाऽस्याशुभाऽध्यवसायित्वात् अशुभत्वं प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति ।। ११ ।। साम्प्रतमनित्यभावनामाश्रित्याह
ठाणी विविहठाणाणि, चइस्संति न संसओ ।
अणीतिते अयं वासे, णायएहि य सुहीहि य ॥१२॥
देवलोकादिषु स्थानानि विद्यन्ते येषां ते स्थानिन: विविधस्थानानि त्यक्ष्यन्ति न अत्र संशय:, तथा-ज्ञातिभि: बन्धुभि: सुहृद्भि: मित्रैर्य: संवास : स: अनित्यः । चकारौ धनधान्यशरीराद्यनित्यत्वभावनार्थम् अशरणाद्यशेषभावनार्थं चेति ।।१२।। अपि च
एवमायाय मेहावी, अप्पणो गिद्धिमुद्धरे ।
आरियं उवसंपज्जे सव्वधम्ममकोवियं ॥१३॥
एवम् अनित्यत्वम् आदाय अवधार्य आत्मनो गृद्धिम् उद्धरेत् अपनयेत् । तथा-सर्वैः कुतीर्थिकधर्मैः अकोपितम् अदूषितं सर्वधर्माऽकोपितम् आर्यं सुधर्मम् उपसम्पद्येत्, यदिवा सर्वधर्मैः अनुष्ठानरूपैः अगोपितं प्रकटं कुत्सितकर्तव्याभावात् सर्वधर्माऽगोपितं सुधर्मं समाश्रयेदिति ।।१३।। सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाह
सहसम्मइए णच्चा, धम्मसारं सुणेत्तु वा । समुट्ठिते अणगारे, पच्चक्खायपाव ॥१४॥
सहसन्मत्या स्वमत्या वा जातिस्मरणादिना प्रत्येकबुद्धवत् ज्ञात्वा श्रुत्वा वा चिलातपुत्रवत् धर्मसारं चारित्रम् उत्तरोत्तरगुणसम्पत्तये समुपस्थितस्तु अनगार: प्रत्याख्यातं निराकृतं पापकं सावद्यानुष्ठानं येनाऽसौ प्रत्याख्यातपापको भवतीति ।।१४।। किञ्चाऽन्यत्– जं किंचुवक्कमं जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिते ॥१५॥
आत्मन: आयु: क्षेमस्य आरोग्यस्य येन केनचित् प्रकारेण यस्मिन् वा काले भाविनम् उपक्रमम् उपद्रवं जानीयात्, ज्ञात्वा च पण्डितः तस्यैव उपक्रमस्य कालस्य वा अन्तराले क्षिपं संलेखनारूपां शिक्षां भक्तपरिज्ञेङ्गितमरणादिकां वा शिक्षेत कुर्यादिति ।। १५ ।। किञ्चा
Page #105
--------------------------------------------------------------------------
________________
ॐaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaa१०० न्यत्जहा कुम्मे सअंगाई, सए देहे समाहरे। एवं पावाइं मेधावी, अज्झप्पेण समाहरे ।।१६।।
___ यथा कुर्मः स्वाङ्गानि शिरोधरादीनि स्वके देहे समाहरेद् गोपयेत्, एवं मेधावी पापानि अध्यात्मना धर्मध्यानादिभावनया समाहरेद् उपसंहरेत् । संलिखितकायः पण्डितमरणेनात्मानं समाहरेदित्यर्थः ।।१६।। संहरणप्रकारमाहसाहरे हत्थ-पादे य, मणं सदियाणि य । पावगं च परीणामं, भासादोसं च तारिसं ||१७||
____ पण्डितमरणे शेषकाले वा हस्तौ पादौ चाऽकुशलात्, मनश्चलव्यापारेभ्यः, पञ्चेन्द्रियाणि च शब्दादिविषयेभ्यः, पापकं परिणामंचैहिकामुष्मिकाशंसारूपं, भाषादोषं च तादृशं पापरूपं संहरेत् निवर्तयेदिति ।।१७।। अपि चअणु माणं च मायं च, तं परिण्णाय पंडिए । सातागारवणिहुते, उवसंतेऽणिहे चरे ||१८|| ..
चक्रवर्त्यादिना पूज्यमान: अणुम् अपि मानं मायां च उपलक्षणात् क्रोधलोभावपि न विदधीत, अपि तु पण्डितो ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिज्ञाय तन्निवृत्तिं कुर्यात् । पठ्यते च-'अतिमाणं मायं चैत्यादि सुगमम् । तथा-निधुतसातागारव: प्राकृतत्वेन पदव्यत्ययात् त्यक्तसातागारव: उपशान्तः निभं कपटं तद् न विद्यते यस्य सः अनिभः निष्कपट: सन् संयमं चरेत् । 'उड्डमहे तिरियं वा जे पाणा तसथावरा । सव्वत्थ विरतिं कुज्जा, संति निव्वाणमाहियं ।।१।।' इत्ययं श्लोक: टीकायामुपलभ्यते, न तु मूलादर्श उत्तानार्थश्च । चूर्णी दीपिकायां च ‘सुतं मे इहमेगेसिं, एवं वीरस्स वीरिअंइत्युत्तरार्धं पठ्यते, तथा च-श्रुतं मया इह मनुष्यजन्मनि एकेषां तीर्थकरादीनां वाक्यं यथा-वीरस्य एतदेव कषायविजयरूपवीर्यं वीरत्वमिति ।।१८।। किञ्चपाणे यणाइवातेज्जा, अदिण्णं पि य णादिए। सादियं ण मुसं बूया, एस धम्मे वुसीमतो ।।१९।।
प्राणिनां च प्राणान् नातिपातयेत्, तथा परेण अदत्तमपि नाददीत, तथा-सह आदिनामायया सादिकं समायं मृषावादं परवञ्चनार्थं न बूयात् । एषः अनन्तरोक्तो वक्ष्यमाणश्च धर्मः श्रुतचारित्रात्मक: वश्यस्य आत्मवशगस्य वश्येन्द्रियस्येत्यर्थः ।।१९।। अपि च
Page #106
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
अतिक्कमं ति वायाए, मणसा वि ण पत्थए । सव्वतो संवुडे दंते, आयाणं सुसमाहरे ||२०||
महाव्रतानाम् अतिक्रमं पीडोत्पादनं मानावष्टब्धतया परतिरस्कारं वा वाचा मनसाऽपि न प्रार्थयेत् । यदिवा प्राणातिपातमधिकृत्याह-अतिक्रमं त्रिभिर्मनोवाक्कायैः करणकारणानुमतिभिश्च पाताय दुःखोत्पादनायेति त्रिपाताय मनसाऽपि नाभिलषेदित्यर्थः । तथा - सर्वतः संवृतो दान्तः सन् मोक्षस्य आदानम् उपादानं ज्ञानादिकं सुसमाहरेत् सुष्ठु आददीतेत्यर्थः ।। २० ।। किञ्चान्यत्
कडं च कज्जमाणं च, आगमेस्सं च पावगं ।
सव्वं तं णाणुजाणंति, आतगुत्ता जिइंदिया ॥२१॥
వరం
साधूनुद्दिश्य यदपरैः कृतं च क्रियमाणं च आगमिष्यत् करिष्यत् च पापकं कर्म तत् सर्वं आत्मगुप्ताः जितेन्द्रियाः साधवः नानुजानन्ति नानुमोदन्त इति ।। २१ ।। अन्यच्चजे या बुद्धा महाभागा, वीरा असम्मत्तदंसिणो । असुद्धं तेसि परक्कतं, सफलं होइ सव्वसो ॥२२॥
ये च केचन बालवीर्यिणस्तत्त्वाऽनवबोधाद् अबुद्धा: महाभागा: लोकपूज्याः वीराः सुभटाः परम् असम्यग्दर्शिन: मिथ्यादृष्टयः तेषां पराक्रान्तं चेष्टितं सनिदानत्वाद् अशुद्धं भवानुबन्धित्वाच्च तत् कर्मबन्धं प्रति सफलं भवति सर्वशः । सर्वं तेषां तपःप्रभृतिकं कर्मबन्धाय भवतीत्यर्थः ।।२२।। उक्तविपरीतमाह
जे य बुद्धा महाभागा, वीरा सम्मत्तदंसिणो ।
सुद्धं तेसिं परक्कतं, अफलं होति सव्वसो || २३॥
ये केचन पण्डितवीर्यवन्तस्तत्त्वबोधाद् बद्धा: महाभागा : देवानामपि पूज्याः कर्मवीदारणाद् वीराः सम्यगदर्शिन: तेषां पराक्रान्तम् अनुष्ठितं निर्निदानत्वात् शुद्धं संसारानुबन्धिकर्मबन्धं प्रति च अफलं भवति सर्वशः । सर्वं तेषां संयमतपोऽनुष्ठानं मोक्षार्थं भवति संयमस्याऽनाश्रवत्वात् तपसश्च निर्जराफलत्वादिति ।। २३ ।। किञ्चान्यत्
सिं पितवोऽसुद्धो, निक्खंता जे महाकुला ।
जं नेवऽन्ने वियाणंति, न सिलोगं पवेदए ||२४||
ये केचन महाकुला : इक्ष्वाक्वादिकुलप्रसूताः निष्क्रान्ताः प्रव्रजिताः तेषामपि यत्पूजासत्काराद्यर्थं तपः तद् न शुद्धम् । यत् च तपो नैवान्ये दानश्राद्धादयो विजानन्ति तथा कर्त
Page #107
--------------------------------------------------------------------------
________________
aadatdaist श्री सूत्रकृताङ्गसूत्रम् aaaaaad[१०२ व्यम् । अतो न नैव श्लोकम् आत्मप्रसंशात्मकं प्रवेदयेत् प्रकाशयेत्, तपोऽनुष्ठानस्य फल्गुताऽऽपतेरिति ।।२४।। अपि चअप्पपिंडासि पाणासि, अप्पं भासेज्ज सुब्बते । खंतेऽभिनिबुडे दंते, वीतगेही सदा जते ।।२५।।
अल्पपिण्डाशी अल्पभोजी, एवं पानाशी, अल्पं भाषेत सुव्रतः क्षान्तः दान्तः अभिनिर्वृतः शान्त: विगतगृद्धिः आशंसारहित: सदा यतेत संयमानुष्ठान इति ।।२५।। तथाझाणजोगं समाहट्ट, कायं विउसेज्ज सवसो । तितिक्खं परमं णच्चा, आमोक्खाए परिवएज्जासि ॥२६।। त्ति बेमि ।।
ध्यानयोगं समाहृत्य समादाय कायं भक्तपरिज्ञादिना व्युत्सुजेत् सर्वशः । तथा तितिक्षाम् अध्यासनं परमां प्रधानां ज्ञात्वा आमोक्षाय शरीरमोक्षं कृत्स्नकर्मक्षयलक्षणं वा मोक्षं यावत् परिव्रजे: संयममनुपालयेरिति ब्रवीमि ।।२६।।
|| वीर्याख्यमष्टममध्ययनं समाप्तम् ।
|| अथ नवमं धर्माध्ययनम् ।। इहानन्तराध्ययने बालवीर्यं पण्डितवीर्यं च प्रपिपादितम्, अत्रापि तदेव पण्डितवीर्य धर्म प्रति यदुद्यमं विद्यते ततो धर्म: प्रतिपाद्यतेकतरे धम्मे अक्खाते माहणेण मतीमता । अंजुंधम्मं अहातच्चं जिणाणं तं सुणेह मे ||१|| माहणा खत्तिया वेस्सा, चंडाला अदु बोक्कसा । एसिया वेसिया सुद्दा, जे य आरंभणिस्सिता ||२|| परिग्गहे निविट्ठाणं, वेरं तेसिं पवड्ढई । आरंभसंभिया कामा, न ते दुक्खविमोयगा ।।३।। आघातकिच्चमाधातुं नायओ विसएसिणो। अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं कच्चति ||४||
___ श्रीजम्बू: सुधर्मस्वामिनं पृच्छति-कतरः कीदृशो धर्म: आख्यातो मतिमता श्रीवर्धमानस्वामिना ? इति पृष्टः सुधर्मस्वाम्याह तं ऋजु धर्मं यथावस्थितं जिनानां कथयतो मम
Page #108
--------------------------------------------------------------------------
________________
श्री सूत्रकृताङ्गसूत्रम्
००.०.० १०३ श्रृणुत, पाठान्तरं वा 'जणगा तं सुणेह मे' जायन्त इति जनास्त एव जनकास्तेषां सम्बोधनम् हे जनका ! तं धर्मं श्रृणुत यूयमिति ।। १ ।। धर्मप्रतिपक्षभूतः अधर्मस्तदाश्रितान् दर्शयितुमाहब्राह्मणाः क्षत्रिया वैश्याश्चाण्डाला अथ बोक्कसाः तद्यथा - ब्राह्मणेन शुद्रायां जातो निषादो ब्राह्मणेनैव वैश्यायां जातः अम्बष्ठः, तथा निषादेनांबष्ठ्यां जाता बोक्कसाः, एषिका : मृगलुब्धका हस्तितापसाश्च मांसहेतोर्मृगान् हस्तिनश्चैषन्ति, तथा कन्दमूलफलादिकं च, ये चान्ये पाखण्डिनो नानाविधैरुपायै भैक्ष्यमेषन्ति अन्यानि वा विषयसाधनानि ते सर्वेऽप्येषिका उच्यन्ते । तथावैशिका वणिजः शूद्रा : कृषीवलादयः आभीरजातीयाः, ये चान्ये आरम्भनिश्रिता: तेषां परिग्रहनिविष्टानां जमदग्निकृर्तवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्धते यत आरम्भसम्भृता: जीवो - पमर्दष्टाः कामा:, अत एव न ते कामाः दुःखविमोचका भवन्तीति ।। २ - ३ ।। किञ्चान्यत्आहन्यन्ते यस्मिन् स आघातो मरणं तत्र कृत्यं आघातकृत्यम् अग्निसंस्कारादिकम् आधाय कृत्वा ज्ञातयः पुत्रकलत्रादयः अन्येऽपि विषयैषिणः ते मृतस्य वित्तं हरन्ति स्वीकुर्वन्ति । स तु द्रव्योपार्जकः कर्मी पापकर्मवान् स्वकृतैः कर्मभिः कृत्यते छिद्यते पीड्यत इतियावत् ।।४।। वित्तस्य भागहरा ज्ञातयो न त्राणाय भवन्तीत्याह- :
माता पिता हुसा भाया, भज्जा पुत्ता य ओरसा ।
णालं ते तव ताणाए, लुप्पंतस्स सकम्मुणा ॥५॥
माता पिता स्नुषा पुत्रवधूः भ्राता भार्या पुत्राश्चौरसा : स्वनिष्पादिता: ‘नालं’ ते सर्वे स्वकर्मणा लुप्यमानस्य तव त्राणाय न भवन्तीति ।। ५ ।। एवं सतिं किं कुर्यादित्याह
एयमद्वं सपेहाए, परमट्ठाणुगामियं ।
निम्ममो निरहंकारो, चरे भिक्खू जिणाहितं ॥६॥
स्वजना न त्राणायेति एनमर्थं संप्रेक्ष्य विचार्य परमार्थ: मोक्षस्तमनुगच्छतीति परमार्थानुगामिक: ज्ञानादिस्तं परमार्थानुगामिकं जिनाख्यातं निर्ममो निरंहङ्कारः सन् भिक्षुः चरेद् अनुतिष्ठेदिति ।।६।। किञ्च
चेच्चा वित्तं च पुत्ते य, णायओ य परिग्गहं ।
चेच्चाण अंतगं सोयं निरवेक्खो परिव्वए ॥ ७ ॥
त्यक्त्वा वित्तं च पुत्रांश्च ज्ञातींश्च स्वजनान् परिग्रहं त्यक्त्वा णकारो वाक्यालङ्कारे अन्तकं विनाशकं शोकं स्रोतो वा मिथ्यात्वाऽविरत्यादिलक्षणं परित्यज्य भिक्षुः निरपेक्ष: सन् मोक्षाय परिव्रजेदिति ।।७।। एवं प्रव्रजितो धनस्वजनादीननपेक्षमाणः अहिंसादिषु प्रयतेत, तत्राऽहिंसाप्रसिद्ध्यर्थमाह–
Page #109
--------------------------------------------------------------------------
________________
odaddiciariest श्री सूत्रकृताङ्गसूत्रम् addeddadak०४] पुढवाऽऽऊ अगणि वाऊ तण रुक्ख सबीयगा । अंडया पोय-जराऊ-रस-संसेय-उब्भिया ||८|| एतेहिं छहिं काएहिं, तं विज्जं परिजाणिया। मणसा कायवक्केणं, णारंभी ण परिग्गही ।।९।
__ कण्ठ्यम् । अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यासः । विद्वान् एतत् षड्जीवनिकायस्वरूपं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरीज्ञया च मनोवाक्कायैः एतेषु षट्सु कायेषु नारम्भी न च परिग्रही स्यादिति ।।८-९।। शेषव्रतान्यधिकृत्याहमुसावायं बहिद्धं च, उग्गहं च अजाइयं । सत्थादाणाइं लोगंसि, तं विज्जं परिजाणिया ||१०||
___ मृषावादं, बहिद्धं-मैथुनपरिग्रहौ तत्र वर्तमानोऽतीव धर्माद् बहिर्भवतीति, अवग्रहं चाऽयाचितम् अदत्तादानम्, एतानि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते, तथा एतान्येव मृषावादादीनि आदानानि कर्मोपादानकारणानि अस्मिन् लोके भवन्ति । तद् एतत् सर्वं-विद्वान् परिजानीयात् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहरेदिति ।।१०।। किञ्चान्यत्पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतः कषायपरिहारार्थमाहपलिउंचणं च भयणंच, थंडिल्लुस्सयणाणि य । धूणाऽऽदाणाइं लोगंसि, तं विज्जं परिजाणिया ||११||
परि-समन्तात् कुञ्च्यन्ते-वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत् परिकुञ्चनं माया तथा भज्यते-प्रतीक्रियते सर्वत्राऽऽत्मा येन स भजनो लोभ: तथा यदुदयेन ह्यात्मा वपुर्वा सदसद्विवेकविकलत्वात् च स्थण्डिलवत् भवति स स्थण्डिलः क्रोधः, यस्मिंश्च सत्यूचं श्रयति जात्यादिना दध्मातः पुरुष उतानीभवति स उच्छ्रयो मानः, छान्दसत्वान्नपुंसकलिङ्गता मदस्थानां च बहुत्वाद् तत्कार्यस्यापि मानस्य बहुत्वमतो बहुवचननिर्देश इति उच्छ्रायनानि, एतानि परिकुञ्चनादीनि अस्मिन् लोके आदानानि कर्मबन्धकारणानि वर्तन्ते इति प्रत्येकं धूनीहि-त्यज । तद् एत विद्वान् परिजानीयात् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याचक्षीतेति ।।११।। अथोत्तरगुणानाश्रित्याहधोयणं रयणं चेव , वत्थीकम्म विरेयणं । वमणंजण पलिमंथं, तं विज्जं परिजाणिया ।।१२।।
धावनं हस्तपादवस्त्रादेः रञ्जनम् अपि तस्यैव, तथा बस्तिकर्म अनुवासनारूपं तथा
Page #110
--------------------------------------------------------------------------
________________
addroiddedadddddddre श्री सूत्रकृताङ्गसूत्रम् sadachadaebaik१०५ विरेचनम् अधोविरेकः, वमनम् ऊर्ध्वविरेकम् अञ्जनं नयनयोः इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत्, संयमस्य पलिमन्थकारित्वात् उपघातकारित्वात् पलिमन्थः उपघात: तद् एतद् विद्वान् परिजानीयात् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीतेति ।।१२।। अपि चगंध मल्ल सिणाणं च, दंतपक्खालणं तहा। परिग्गहित्थि कम्मं च, तं विज्जं परिजाणिया ।।१३।।
गन्धं कोष्ठपुटादि सुगन्धिद्रव्यं, माल्यं पुष्पमालादि, स्नानं देशतः सर्वतश्च, दन्तप्रक्षालनं तथा परिग्रहः सचित्तादेः, स्त्रियः दिव्यमानुषीतरैश्चयः कर्म-हस्तकर्म तद् एतत् सर्वं कर्मोपादानतया विद्वान् परिजानीयात्-परिज्ञाय परित्यजेदिति ।।१३।। अपि चउद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूतिं अणेसणिज्जं च, तं विज्जं परिजाणिया ||१४|| .
___साध्वाइशेन यद्दानाय व्यवस्थाप्यते तद् उद्देशिकं, क्रीतं मूल्यं तेन क्रीतं गृहीतं क्रीतक्रीतं, प्रामित्यम्-उद्यतकम् उच्छिन्नकम् इतियावत्, आहृतम् अभ्याहृतं, पूयम्-आधाकर्मावयवसम्पृक्तं शुद्धमाप्याहारजातं पूति भवति, किंबहुना ? यत् केनचिद्दोषेण अनेषणीयम् अशुद्धं तत् एतत् सर्वं विद्वान् परिजानीयात् संसारकारणतया परिज्ञाय प्रत्याचक्षीतेति ।।१४।। किञ्चान्यत्आसूणिमक्खिरागं च, गिद्धवघायकम्मगं | उच्छोलणं च कक्कं च, तं विज्जं परिजाणिया ||१५||
येनाऽऽहारादिना अशूनः सन् आ-समन्तात् शूनीभवति-बलवान् भवति तद् आशूनीत्युच्यते, यदिवा आसूणी श्लाघा यतः श्लाघितः सन् कश्चित् शूनवच्छूनो लघुप्रकृतिक: दर्पध्मातत्वात् स्तब्धो भवति, तथा अक्षिरागम् अक्ष्णो रञ्जनं सौवीरादिना, तथा गृद्धिं विषयासेवेनम्, तथा जन्तुनाम् उपघातकर्म, तथाहि-उच्छोलनं-हस्तपादादि प्रक्षालनं, तथा कल्कं शरीरोद्वर्तनकं तद् एतत्सर्वं कर्मबन्धायेति विद्वान् परिजानीयात्-ज्ञपरिज्ञया परिज्ञाय परिहरेदिति ।।१५।। अपि चसंपसारी कयकिरिओ, पसिणायतणाणि य । सागारियपिंडं च, तं विज्जं परिजाणिया ||१६||
सम्प्रसारको नाम असंयतैः सार्धम् असंयतकार्येषु पर्यालोचयति उपदेशं वा ददाति, कृतक्रियो नाम यो हि असंयतानां कृतम् आरम्भं प्रशंसति, तथा प्रश्नस्य-आदर्शप्रश्नादे: आय
Page #111
--------------------------------------------------------------------------
________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaa१०६ तनं-कथनं निमित्तकथनमित्यर्थः, यदिवा लौकिकानां परस्परव्यवहारे मिथ्याशास्त्रगतसंशये वा प्रश्ने सति यथावस्थितार्थकथनद्वारेण आयतनानि-निर्णयानि तेषां कथनं, तथा सागारिक: शय्यातरस्तस्य पिण्डम् आहारं, यदिवा सागारिकपिण्डमिति सूतकगृहपिण्डं जुगुप्सितं वापसदपिण्डं वा तद् एतत् सर्वं विद्वान् परिजानीयात्-ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।।१६।।
किञ्चान्यत्
अट्ठापदं ण सिक्खेज्जा, वेधादीयं च णो वदे । हत्थकम्मं विवादं च, तं विज्जं परिजाणिया ।।१७॥
___ अर्यते इति अर्थो धनधान्यादिकः पद्यते गम्यते येनार्थस्तत्पदं शास्त्रजम् अर्थार्थपदं चाणक्यादिकम् अर्थशास्त्रं तन्न शिक्षेत, यदिवा अष्टापदं द्युतक्रिडाविशेषस्तं न शिक्षेत नापि पूर्वशिक्षितमनुशीलयेत् । वेधो-धर्मानुवेधस्तस्मादतीतम् अधर्मप्रधानं वचो न वदेत् । यदिवा वेध इति वस्त्रवेधो द्युतविशेषस्तद्गतं वचनमपि नो वदेत्, आस्तां तावत् क्रीडनम् । हस्तकर्म प्रतीतं यदिवा हस्तक्रिया-परस्परं हस्तव्यापारप्रधान: कलहस्तम् । तथा विरुद्धवादं विवादं तत् एतत् सर्वं विद्वान् परिजानीयात् पापहेतुतया परिज्ञाय परिहरेदिति ।।१७।। किञ्चपाणहाओ य छत्तं च, णालियं वालवीयणं । परकिरियं अन्नमन्नं च, तं विज्जं परिजाणिया ||१८||
उपानही काष्ठपादुके, आतपादि निवारणाय छत्रं, नालिकां द्युतविशेष, वालैः मयूरपिच्छै: व्यजनकं वालव्यजनकं, परेषां गृहस्थानां सम्बन्धिनी सावधक्रियां परक्रियाम् तथा अन्योऽन्यक्रियां परस्परनिष्पन्नां क्रियां यदिवा परक्रिया नाम नाऽन्योऽन्यस्य पादे आमृज्याद्वा प्रमुज्याद्वा यथा आचाराङ्गस्य षष्ठे सप्तके, अन्योऽन्यक्रिया नाम एषोऽपि एतस्य पादे आमृष्टि वा रञ्जयति अयमपि अस्य । तत् एतत् सर्वं विद्वान् परिजानीयात् पापकर्मतया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।।१८।। तथाउच्चारं पासवणं, हरितेसुण करे मुणी । वियडेण वा वि साहुट्ट, णायमेज्ज कयाइ वि ।।१९।।
___उच्चारं मलोत्सर्ग प्रस्रवणं कायिका हरितेषु बीजेषु अस्थण्डिले वा न कुर्यात् मुनिः आस्तामविकटेन अप्रासुकेन विकटेनापि प्रासुकेनापि पानीयेन संहृत्य अपनीय हरितानि बीजानि वा नाचामेत् न निर्लेपनं कुर्यात् कदाचिदपीति ।।१९।। किञ्चपरमत्ते अन्नपाणं च, ण मुंजेज्ज कयाइ वि। . परवत्थमचेलो वि, तं विज्जं परिजाणिया ||२०||
Page #112
--------------------------------------------------------------------------
________________
ॐॐॐॐॐॐ श्री सूत्रकृताङ्गसूत्रम्
०१०७
परस्य गृहस्थस्याऽमत्रं भाजनं तत्र परामत्रे अन्नपानं न भुञ्जीत मुनिः कदाचिदपि तथा परवस्त्रम् गृहस्थस्य वस्त्रं अचेलोऽपि वस्त्ररहितोऽपि सन् न भुञ्जीत पूर्वकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवात् तत् एतत् सर्वं विद्वान् परिजानीयात् ज्ञपरिज्ञया संयमविराधकत्वेन परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। २० ।। तथा
आसंदी पलियंके य, णिसिज्जं च गिहंतरे ।
संपुच्छणं च, सरणं च तं विज्जं परिजाणिया ||२१||
आसंदी आसनविशेष:, पर्यङ्कः शयनविशेष: गृहस्यार्न्तमध्ये गृहयोर्वा मध्ये निषद्याम् उपवेशनम्, तत्र च संप्रच्छनं कुशलादिप्रच्छनम् आत्मीयशरीरावयवानां वा पुञ्छनम् तथा स्मरणं पूर्वक्रीडितस्य तद् एतत् सर्वं विद्वान् परिजानीयात्- ज्ञपरिज्ञयाऽनर्थायेति परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। २१ ।। अपि च
जसं कित्तिं सिलोगं च जा य वंदणपूयणा ।
"
सव्वलोयंसि जे कामा, तं विज्जं परिजाणिया ||२२||
यश कीर्तिं श्लोकं श्लाघा च या च राजादिभ्यो वन्दना पूजना तथा सर्वस्मिन् लोके ये कामा: इच्छामदनरूपाः तद् एतत् सर्वं विद्वान् परिजानीयात् ज्ञपरिज्ञयाऽपकारितया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।। २२ ।। किञ्चान्यत्
जेहं णिव्वहे भिक्खू, अन्न-पाणं तहाविहं । अणुप्पदाणमन्नेसिं, तं विज्जं परिजाणिया ||२३ ॥
येन अन्नपानेन तथाविधेन सुपरिशुद्धेन कारणापेक्षया अविशुद्धेन वा इह अस्मिल्लोके संयमयात्रादिकं दुर्भिक्षरोगातङ्कादिकं वा निर्वहेद् निर्वाहयेद्वा तद् अन्नपानं द्रव्यकालाद्यपेक्षया तथाविधं कल्प्यं गृह्णीयात् । तदन्नपानादेश्वान्यस्मै साधवे अनुप्रदानं कुर्यात् । तथा तेषाम् अन्नपानादीनां अनुप्रदानं गृहस्थानां परतीर्थिकानां स्वयूथ्यानां वा संयमोपघातकं नानुशीलयेत् । तत् एतत् सर्वं विद्वान् परिजानीयात् ज्ञपरिज्ञया ज्ञात्वा सम्यक् परिहरेदिति ।। २३ ।। अथैतत्सर्वं यदुपदेशेन कुर्यात्तद्दर्शयितुमाह
एवं उदाहु निग्गंथे, महावीरे महामुणी । अणंतणाणदंसी से, धम्मं देसितवं सुतं ||२४||
एवं अनन्तरोक्तया रीत्या उदाहृतवान् उक्तवान् निर्ग्रन्थ : महावीर : महामुनिः अनन्तज्ञानदर्शनी स भगवान् धर्मं चारित्रलक्षणं तथा श्रुतं जीवादिपदार्थसंसूचकं देशितवा
Page #113
--------------------------------------------------------------------------
________________
daddedbaadaanade श्री सूत्रकृताङ्गसूत्रम् aaaaaaaai१०८ निति ।।२४।। किञ्चान्यत्भासमाणो न भासेज्जा, णेय वंफेज्ज मम्मयं । मातिट्ठाणं विवज्जेजा, अणुविति वियागरे ।।२५।।
अन्यः कश्चिद्रत्नाधिको भाषमाणः स्यात्तत्रान्तर एव सश्रुतिकोडमित्येवमभिमानवान् न नैव भाषेत, मर्म गच्छतीति मर्मगं मामकं वा पक्षपातं न वंफेज्जा देशीयपदमेतत् अनुचितोल्लापार्थम् । अयं भाव कस्यचिदपि मन:पीडाकारि वचनं न भाषेत । तथा मातृस्थानं मायाप्रधानं वचो विवर्जयेत् तथा अनुचिन्त्य व्याकुर्यात् भाषेतेति ।।२५।। अपि चतत्थिमा ततिया भासा, जं वदित्ताऽणुतप्पती । जह छन्नं तं न वत्तवं, एसा आणा नियंठिया ||२६||
भाषा चतुर्धा, तथाहि-सत्या मृषा सत्यामृषा असत्यामृषा च तत्रेमा तृतीया भाषा सत्यामृषा तां न भाषेत यतो दोषाय किं पुनर्द्वितया मृषा समस्तार्थविसंवादिनी यां च उदित्वा अनुतप्यते पीड्यते पश्चात्तापं वा विधत्ते तां न वदेत, अथ सत्यामाश्रित्याह-'क्षणु हिंसायामिति' यत् छन्नं विहिंसकं सत्यमपि तन्न वक्तव्यम्, यदिवा प्रछन्नं-रहस्यं तन्न भाषितव्यम्, एषाऽऽज्ञा अयमुपदेशो निर्ग्रन्थो-भगवांस्तस्येति ।।२६।। होलावायं सहीवायं, गोतावायं च नो वदे । तुमं तुमं ति अमणुण्णं, सव्वसो तं ण वत्तए ॥२७॥
होलावादं रेकारपूर्वकमामन्त्रणवचनम, सखिवादं सखेत्येवंवादस्तम्, तथा-गोत्रोद्धाटनेन वादो गोत्रवादस्तं नो वदेत्, यो वृद्धः प्रभविष्णुर्वा तं प्रति त्वं त्वमिति न वक्तव्यम्, किं बहुना ? यद् अमनोज्ञं तत् सर्वशः साधूनां वक्तुं न पार्यत इति ।।२७।। अपि च- . अकुसीले सया भिक्खू, णो य संसग्गिय भए । सुहरूवा तत्थुवस्सग्गा पडिबुज्झेज्ज ते विदू ॥२८॥
अकुशील: सदा भिक्षुः पार्श्वस्थादिभि: कुशीलैः सार्धं संसर्गितां साङ्गत्यं नैव भजेत यतस्तत्र कुशीलसंसर्गे सुखरूपा: सातगौरवस्वभावा उपसर्गाः प्रादुष्यन्ति । विद्वान् तान् उपसर्गान् प्रतिबुध्येत् तथाहि-ते कुशीला वक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपादादिके प्रक्षाल्यमाने दोष: स्यात् ? तथा नाशरीरो धर्मो भवत्यतो येन केनचित् प्रकारेणाऽऽधाकमसन्निध्यादिना तथा उपानच्छत्रादिना च शरीरं धर्माधारं वर्तयेदित्यादि । तदेतत्सर्वं बुद्ध्वा च कुशीलसंसर्गं परिहरेदिति ।।२८।। किञ्चान्यत्
Page #114
--------------------------------------------------------------------------
________________
odiakickadakad श्री सूत्रकृताङ्गसूत्रम् aakaaaaaaa१०९ णण्णत्थ अंतराएणं, परगेहे ण णिसीयए । गामकुमारियं किडं, नातिवेलं हसे मुणी ।।२९।।
___परगृहे गृहस्थगृहे न निषीदेत् उत्सर्गत:, अस्याऽपवादमाह-नान्यत्र अन्तरायात् जरारोगादिलक्षणात् तस्मिंश्चान्तराये सति उपविशेत्, यदिवा उपशमलब्धिमान् कश्चित् सुसहायो गुर्वनुज्ञात: कस्यचित्तथाविधस्य धर्मोपदेशनिमित्तमुपविशेदपि, तथा ग्रामकुमाराणामियं ग्रामकुमारिकां क्रीडां हास्यकन्दर्पादिकां कन्दुकादिकां वा न कुर्यात्, तथा वेला मर्यादा तामतिक्रान्तम् अतिवेलं न हसेत् मुनि कर्मबन्धभयादिति ।।२९।। अणुस्सुओ उरालेसु, जयमाणो परिवए । चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासते ||३०||
___ अनुत्सुक: उदारेषु शब्दादिषु विषयेषु, संयमानुष्ठाने च यतमान: परिव्रजेत्, भिक्षादिकायां चर्यायाम् अप्रमत्तः स्यात्, तथा-तत्र चर्यायां परिषहोपसर्गः स्पृष्ट सन् अध्यासीत सम्यक् सहेतेति ।।३० ।। परिषहोपसर्गाधिसहनमेवाऽधिकृत्याहहम्ममाणो न कुप्पेज्जा, बुच्चमाणो न संजले । सुमणो अहियासेज्जा, ण य कोलाहलं करे ।।३१।।
____ यष्टिलकुटादिभिः हन्यमानो न कुप्येत्, उच्यमानः आक्रुश्यमानो न संज्वलेत् न प्रतीपं वदेत्, न च मनोऽन्यथा विध्यात्, किन्तु सुमनाः सन् सर्वम् अध्यासीत सम्यक् सहेत, न च कोलोहलं कुर्यादिति ।।३१।। किञ्चान्यत्लद्धे कामे ण पत्थेज्जा, विवेगे एवमाहिए | आरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ||३२||
लब्धामान् कामान् वैरस्वामिवत् न प्रार्थयेत् न गृह्णीयात्, यदिवा तपोविशेषलब्धीनपि नोपजीव्यात्, नाप्यनागतान् ब्रह्मदत्तवत् प्रार्थयेद्, एवं च कुर्वतो विवेक: आख्यातः आविभावितो भवति, तथा-आर्याणि कर्तव्यानि सदा शिक्षेत अभ्यसेत् यदिवा आचरणीयानि ज्ञानदर्शनचारित्राणि बुद्धानाम् आचार्याणाम् अन्तिके समीपे सदा शिक्षेत, अनेन गुरुकुलवासो नित्यमासेवनीय इत्यावेदितं भवतीति ।।३२ ।। यदुक्तं बुद्धानामन्तिके शिक्षेत तत्स्वरूपनिरूपणायाहसुस्सूसमाणो उवासेज्जा, सुप्पण्णं सुतवस्सियं । वीरा जे अत्तपण्णेसी, धितिमंता जितिंदिया ||३३।।
गुर्वादेशं सुश्रूषमाणः उपासीत सुप्रज्ञं सुतपस्विनं गुरुम्, तथा चोक्तम्-नाणस्स
Page #115
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
०.७ ११० होइ भागीत्यादि । तथा-त एव वीरा: धीरा वा ये आप्तो रागादिविप्रमुक्तस्तस्य प्रज्ञा केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते आप्तप्रज्ञान्वेषिण: आत्महितान्वेषिणो वा धृतिमन्तः जितेन्द्रियाश्चेति ।। ३३ ।। यदध्यवसायिनो पूर्वोक्तविशेषणविशिष्टा भवन्ति तदाह
गिहे दीवमपस्संता, पुरिसादाणिया नरा ।
ते वीरा बंधणुम्मुक्का, नावकखंति जीवितं ||३४||
ये गृहे गृहवासे दीपं भावदीपं श्रुतज्ञानलाभं द्वीपं वा भावद्वीपं संसारोत्तारं सर्वचारित्रम् अपश्यन्तः प्रव्रज्यां स्वीकृत्य पुरुषादानीया: नराः संवृता भवन्ति तदा ते वीराः पुत्रकलत्रादिस्नेहरूपेण बन्धनेनोन्मुक्ताः बन्धनोन्मुक्ताः सन्तः न पुनः जीवितम् असंयमजीवितम् अवकाङ्क्षन्तीति ।। ३४ ।। किञ्च
अगिद्धे सद्द-फासेसु, आरंभेसु अणिस्सिते ।
सव्वेतं समयातीतं, जमेतं लवितं बहुं ॥३५॥
शब्दस्पर्शेषु आद्यन्तग्रहणात् रूपेषु गन्धेषु रसेषु च अंगृद्धः तथा आरम्भेषु अनिश्रित: असम्बद्धः अप्रवृत्त इत्यर्थः । उपसंहरन्नाह - सर्वमेतत् अध्ययनादेराभ्य प्रतिषिध्यत्वेन यत् लपितम् उक्तं मया बहु तत् समयातीतम् आगमातीतम् इति कृत्वा नानुष्ठेयमिति ।। ३५ ।। प्रतिषेध्यप्रतिषेधद्वारेण मोक्षाभिसन्धानमाह
अतिमाणं च मायं च तं परिण्णाय पंडिते ।
1
गारवाणि य सव्वाणि, निव्वाणं संधए मुणि ॥३६॥ त्ति बेमि ।
अतिमानं महामानं मायां च चशब्दात् क्रोधलोभावपि, तथा सर्वाणि गारवाणि ऋद्धिरससातालक्षणानि च पंडित: ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत्, परिहृत्य च मुनि: निर्वाणं सन्धयेत् प्रार्थयेदिति ब्रवीमि पूर्ववत् ।। ३६।।
।। धर्मनाम नवममध्ययनं समाप्तम् ।।
|| दशमं समाध्यध्ययनम् ।।
इहानन्तराध्ययने धर्मोऽभिहित:, स चाऽविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः
प्रतिपाद्यते
घं मइमं अणुवीति धम्मं, अंजू समाहिं तमिणं सुणेह ।
अपडणे भिक्खू तु समाहिपत्ते, अणियाणभूतेसु परिव्वजा ||१||
Page #116
--------------------------------------------------------------------------
________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
१११
मतिमान् केवलालोकेन अनुविचिन्त्य ज्ञात्वा ऋजूम् अवक्रं धर्मं समाधिं च आख्यातवान्, तमिमं धर्म समाधिं च शृणुत यूयम्, तद्यथा - अप्रतिज्ञः निराकाङ्क्ष: भिक्षुस्तु धर्मं समाधिं च प्राप्तः । तथा अनिदानभूतेषु ज्ञानादिषु परिव्रजेत् । यदिवा अनिदान : अनाश्रवः सन् कस्यचिद्दुःखमनुत्पादयन् भूतेषु जन्तुषु परिव्रजेदिति । । १ । । कर्मणो निदानानि च प्राणातिपातादीनीति तानि परिहृत्य समाधिपालनार्थमाह
उड्ढढं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहि पाएहि य संजमेत्ता, अदिण्णमन्नेसु य नो गहेज्जा ॥२॥
ऊर्ध्वमधस्तिर्यक्षु दिक्षु ये च त्रसा ये च स्थावराः प्राणिन: तान् हस्ताभ्यां पादाभ्यां च संयम्य-बद्ध्वाऽन्यथा वा तेषां दुःखोत्पादनं न कुर्यात् यदिवा हस्तपादादीनि संयम्य संयत: सन् तान्न हिंस्यात् समाधिं चानुपालयेत् । तथा अन्यैः परैः अदत्तं न गृह्णीयात् । प्रथमतृतीयव्रतग्रहणान्मृषावादादीन्यप्यर्थतो निरस्तानि द्रष्टव्यानीति ।। २ ।। ज्ञानदर्शनसमाधिमधिकृत्याह
सुअक्खातधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू ||३|| सुष्ठु आख्यातो धर्मो येनाऽसौ साधुः स्वाख्यातधर्मः अनेन ज्ञानसमाधिरुक्तो भवति, न हि ज्ञानमन्तरेण स्वाख्यातधर्मत्वमुपपद्यते, विचिकित्सा = चित्तविप्लुतिर्विद्वज्जुगुप्सा वा तां तीर्णः अतिक्रान्त: ‘तदेव निःशङ्क सत्यं यज्जिनैःप्रवेदितमित्येवं निःशङ्कतया न क्वचिच्चित्तविप्लुतिं विधत्त इत्यनेन दर्शसमाधिः प्रतिपादितो भवति येन केनचित् प्रासुकाहारोपकरणगतविधिनाऽऽत्मानं पालनात् लाढः स एवम्भूतः आत्मतुल्य : प्रजासु = पृथिव्यादिषु संयमानुष्ठानं चरेत् । आयं कर्माश्रवलक्षणं न कुर्यात् इह असंयमेन जीवितार्थी तथा चयं परिग्रहं आहारोपकरणादेर्धनधान्यादेर्वा सुतपस्वी भिक्षुः न कुर्यादिति ।। ३ ।। किञ्चान्यत्
सव्विंदियऽभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के । पासाहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परिपच्चमाणे ॥४॥
प्रजासु =स्त्रीषु सर्वेन्द्रियाऽभिनिर्वृत: जितेन्द्रिय: मुनि: चरेत् । सर्वतो विप्रमुक्त: सन् पश्य पृथक् पृथगपि सत्वान् प्राणिनः दुःखेन आर्त्तान् स्वकृतेन्धनेन परिपच्यमानान् यदिवा दुष्प्रणिहितेन्द्रियान् परितप्यमानानिति । ४ । । अपि च
एतेसु बाले य पकुवमाणे, आवट्टती कम्मसु पावएसु । अतिवाततो कीरति पावकम्मं, निउजमाणे उ करेति कम्मं ॥५॥
Page #117
--------------------------------------------------------------------------
________________
aacadeoaaaaaaashe श्री सूत्रकृताङ्गसूत्रम् Madaaaad११२
एतेषु पृथिव्यादिषु-‘एवं तु' पाठान्तरं वा बालश्च संघट्टनपरितापनाऽपद्रावणादिना पापानि कर्माणि प्रकुर्वाण: एतेषु पापकेषु कर्मसु सत्सु पृथिव्यादिषु वा गतः सन् तेनैव संघट्टनादिना आवय॑ते पीड्यते । ‘आउट्टति' पाठान्तरमाश्रित्याऽशुभान् विपाकान् दृष्ट्वा श्रुत्वा ज्ञात्वा वा अतिपाततः प्राणातिपातादिभ्यो निवर्तते यत: अतिपातादेर्हेतोः पापकर्म क्रियते, तथा परांश्च भृत्यादीन् प्राणातिपातादौ नियोजयन् तु करोति पापं कर्म ।।५।। किञ्चाऽन्यत्आदीणभोई वि करेति पावं, मंता तु एगंतसमाहिमाहु । बुद्धे समाहीय रते विवेगे, पाणातिपाता विरते ठितप्पा ||६||
___ आ समन्ताद् दीना वृत्तिर्यस्याऽसौ आदीनावृत्तिः ‘आदीनभोजी' पाठान्तरं वा राजगृहीभिक्षुरिव जन: करोति पापम् इत्येवं मत्वा तु संसारोत्तारणाय एकान्तसमाधि-ज्ञानादिलक्षणम् आहुः तीर्थकरगणधरादयः । अत एव बुद्धः समाधौ विवेके चाहारोपकरणकषायत्यागरूपे रतः । एवम्भूतश्च प्राणातिपाताद् विरत: स्थितात्मा च स्यात् । 'ठियच्चि' पाठान्तरमाश्रित्य स्थितार्चिः सुविशुद्धलेश्य: स्यादिति ।।६।। किञ्चसवं जगं तू समयाणुपेही, पियमप्पियं कस्सइ नो करेज्जा । उट्ठाय दीणे तु पुणो विसण्णे, संपूयणं चेव सिलोयकामी ||७||
सर्वं जगत्-प्राणिसमूहं समशत्रुमित्रतया समतानुप्रेक्षी प्रियमप्रियं वा कस्यचिन्न कुर्यात्, अपि तु निःसङ्गतया विहरेत् । कश्चित्तु भावसमाधिना सम्यग उत्थाय परीषहोपसर्गस्तर्जितो दीन: पुन: विषण्णो भवति, कश्चित्तथा संपूजनं प्रार्थयेत्, श्लोककामी च श्लाधाभिलाषी च व्याकरणादीनि शास्त्राण्यधीते कश्चिदिति ।।७।। किञ्चान्यत्आहाकडं चेव निकाममीणे, निकामयारी य विसण्णमेसी । इत्थीसु सत्ते य पुढो य बाले, परिग्गहं चेव पकुव्वमाणे ||८||
आधाकृतम् आधाकर्माऽऽहारोपकरणादिकं निकामम् अत्यर्थं यः प्रार्थयते स निकाममीण इत्युच्यते, तथा-निकामम् आधाकर्मादीनि चरति सेवत इति निकामचारी, एवम्भूतश्च संयमोद्योगे विषण्णानां पार्श्वस्थादीनां विषण्णभावमेषत इति विषण्णैषी, अपि च-स्त्रीषु सक्तश्च पृथक् पृथक् तद्भाषितादिषु चाऽवसक्त: सन् बाल: तदुपायभूतं परिग्रहं प्रकुर्वाण: पापं कर्म समुच्चिनोतीति ।।८।। तथावेराणुगिद्धे णिचयं करेति, इतो चुते से इहमठ्ठदुग्गं । तम्हा तु मेधावि समिक्ख धम्म, चरे मुणी सव्वतो विप्पमुक्के ||९||
Page #118
--------------------------------------------------------------------------
________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaa११३]
येन केन परोपतापरूपेण कर्मणा जन्मान्तरशतानुयायि वैरमनुबध्यते तत्र गृद्धो वैराणुगृद्धः 'आरंभसक्तो' निचयं द्रव्योपचयं तन्निमित्तं भावोपचयं च कर्मनिचयं करोति, स एवम्भूत उपात्तवैर: इतध्युतः सन् इह संसारे अर्थत: परमार्थतो दुर्ग नरकादियातनास्थानमुपैति । यस्मादेव तस्मात्तु मेधावी समीक्ष्य धर्मं सर्वत: सर्वसङ्गतो विप्रमुक्त: सन् चरे=विहरेत् मुनिः ।।९।। अपि चआयं न कुज्जा इह जीवितही, असज्जमाणो य परिवएज्जा । णिसम्माभासी य विणीय गिद्धिं, हिंसण्णितं वा ण कहं करेज्जा ।।१०॥
इह-संसारे जीवितार्थी आजीविकाभयाद् आयं द्रव्यार्दः संचयं न कुर्यात्, पाठान्तरं 'छन्द न कुज्जा' विषयाभिलाषं न कुर्यादिति । तथा असजमानः सङ्गमकुर्वन् गृहपुत्रकलत्रादिषु परिव्रजेत् । गद्धिं विनीय=अपनीय निशम्यभाषी पर्यालोच्य भाषको भवेत, तदेव दर्शयति हिंसान्वितं वा कथां न कुर्यादिति ।।१०।। अपि च
आहाकडं वा ण णिकामएज्जा, णिकामयंते यण संथवेज्जा । धुणे उरालं अणुवेहमाणे, चेच्चाण सोयं अणपेक्खमाणे ||११||
आधाकृतं वा न निकामयेत् नाभिलषेत्, निकामयतश्च पार्श्वस्थादींश्च न संस्थापयेत्=पोषयेत् यदिवा न संस्तुयात् परिचयगोचरं न कुर्यादित्यर्थः । किञ्च मोक्षम् अनुप्रेक्षमाणः उरालम् औदारिकं शरीरं कर्म वा विकृष्टतपसा धुनीयात् अपनयेत् । शरीराऽपचयनिमित्तं शोकं च त्यक्त्वा याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादित्यर्थः ।।११।। किञ्चाऽपेक्षेतेत्याहएगत्तमेव अमिपत्थएज्जा, एवं पमोक्खो ण मुसं ति पास | एसप्पमोक्खो अमुसे वरे वी अकोहणे सच्चरते तवस्सी ||१२||
एकत्वम् ‘एगो मे सासओ अप्पा' इत्यादिलक्षणं अभिप्रार्थयेत् एवम् एकत्वभावनात: प्रमोक्षः कारणे कार्योपचारात् । न चैतद् मृषा भवति इति एवं पश्य । एष एवैकत्वभावनाभिप्राय: प्रमोक्ष : अमृषा तथा वरोऽपि प्रधानश्च यदिवा यः अक्रोधन: सत्यरतश्च स तपस्वी स एव सत्यः प्रधानश्च ।।१२।। किञ्चान्यत्इत्थीसुया आरत मेहुणा उ, परिग्गहं चेव अकुब्वमाणे । उच्चावएसु विसएसु ताई, णिस्संसयं भिक्खू सामाहिपत्ते ।।१३।।
स्त्रीषु यत् मैथुनं तस्मात् मैथुनात् आ समन्तात् अरत: आरत: निवृत्त इत्यर्थः परिग्रहं चाऽकुर्वाणः, उच्चावचेषु जघन्योत्कृष्टेषु विषयेषु अरक्तद्विष्ट, अपरेषां चोपदेशदानत:
Page #119
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aadamadaradi११४ त्रायी स भिक्षुः नि:संशयं समाधि प्राप्त : एवम्भूतो भिक्षुः विषयान्न संश्रयतीत्यर्थः ।।१३।। विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह- ......-- . - अरतिं रतिं च अभिभूय भिक्खू, तणाइफासं तह सीतफासं | उण्हं च दंसं च हियासएज्जा, सुमिं च दुमिं च तितिक्खएज्जा ||१४||
___ संयमे अरतिम् असंयमे च रतिम् अभिभूय निराकृत्य भिक्षुः तृणादिकान् स्पर्शान् आदिशब्दात् निम्नौन्नतभूप्रदेशस्पर्शाश्च तथा शीतस्पर्शम् उष्णं स्पर्श दंशंक्षुत्पिपासादिकं चाऽध्यासयेत् सम्यगधिसहेत तथा-गन्धं सुरभिं दुरभिं च चशब्दात् आक्रोशर्वधादिकांश्च तितिक्षयेत् सहेतेति ।।१४।। किञ्चान्यत्गुत्तो वईए य समाहिपत्ते, लेसं समाहट्ट परिवएज्जा । गिहं न छाए ण वि छावएज्जा, संमिस्सभावं पजहे पयासु ||१५||
गुप्तो वाचि वाचा वा वाग्गुप्तो मौनी पर्यालोच्यभाषी समाधि प्राप्तः शुद्धां लेश्यां समाहत्त्य उपादायाऽशुद्धां च परिहृत्य परिव्रजेत् । किञ्च गृहं प्रतिश्रयलक्षणं स्वतो न छादयेत् नापि परेण छादयेत् परकृतगृहनिवासित्वात् । अन्यदपि गृहकर्तव्यं परिजिहीर्षुराह-प्रजासुगृहस्थेषु स्त्रीषु स्त्रीभिर्वा पचनपाचनादिकां क्रियां कुर्वन् कारयंश्च सम्मिश्रीभावं भजतेऽतस्तत् अथवा सम्मिश्रीभाव: एकत्रवासस्तं प्रजह्यादिति ।।१५।। अपि चजे केइ लोगंसि उ अकिरियाया, अण्णेण पुडा धुतमादिसति । आरंभसत्ता गढिता य लोए, धम्मं न याणंति विमोक्खहेउं ||१६||
ये केचित् लोके तु 'अक्रिय आत्मा' अमूर्तत्वात् सर्वव्यापित्वाच्चेतिवादिन: ते सांख्या: 'अक्रियत्वे सति बन्धमोक्षौ न घटेत, इत्यभिप्रायवता अन्येनं पृष्टाः सन्त: धूतं मोक्षस्तदभावम् आदिशन्ति प्रतिपादयन्ति, ते तु पचनपाचनस्नानादिके आरम्भे सक्ताः गृद्धाश्च लोके मोक्षकहेतुभूतं धर्मं न जानन्तीति ।।१६।। किञ्चान्यत्पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो च वायं । जायस्स बालस्स पकुव्व देह, पवडती वेरमसंजतस्स ||१७||
पृथग्=नाना छन्द: अभिप्रायो येषां ते पृथक्छन्दाः इह मानवास्तु, तमेव नानाभिप्रायमाह-क्रियाऽक्रिययोश्च पृथक्त्वेन पृथग्वादं क्रियावादमक्रियावादं च समाश्रिताः सन्तो मोक्षहेतुं धर्मं चाऽजानाना आरम्भसक्ता एतत्कुर्वन्ति, तद्यथा-जातस्य बालस्य अज्ञपश्चादे: देहं प्रकृत्य खण्डशः कृत्वाऽऽत्मन: सुखमुत्पादयन्ति, तदेवं कुर्वत: असंयतस्य जन्मशतानुयायि वैरं प्रवर्धते पाठान्तरं वा 'जायाए बालस्स पगब्भणाए' बालस्य जातया-उत्पन्नया प्रगल्भतया वैरं वर्धत
Page #120
--------------------------------------------------------------------------
________________
Bassad श्री सूत्रकृताङ्गसूत्रम् asssass११५ इति ।।१७।। अपि चआउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य रातो परितप्पमाणे, अट्टे सुमूढे अजरामर ब्व ||१८||
आयुःक्षयं चाऽबुध्यमान: मन्दः अज्ञ: ममायते इति ममायी कामभोगतृषित: आर्त्तः अनि रात्रौ च परितप्यमान: मम्मणवत् सुमूढः अजरामरवद् आत्मानं मन्यमानः परिग्रहारम्भेषु प्रवर्तमानः साहसकारी स्यादिति ।।१८।। किञ्चान्यत्जहाहि वित्तं पसवो य सब्वे, जे बांधवा जे य पिता य मित्ता । लालप्पती सो वि य एइ मोहं, अन्ने जणा तं सि हरंति वित्तं ।।१९।।
वित्तं पशून् च सर्वं जहाहि-त्यज, तेषु ममत्वं मा कृथाः । ये बान्धवाः मातापित्रादय: ये च प्रियाः मित्राणि एते न किञ्चित् तस्य परमार्थत: कुर्वन्ति, केवलं वदन्ति, यथा-वयं ते इत्यादि, सोऽपि तेषु मोहमेति लालप्यते च प्रलपति च, यथा-हे मात: ! हे पिता: ! इत्येवमसमाधिवान् तदर्थं शोकाकुल: सन् यच्च महता क्लेशेनाऽपरप्राण्युपमर्दनेन च वित्तम् उपार्जयति तत् तस्य जीवत एव मृतस्य वा अन्ये जनाः हरन्ति लुम्पन्ति, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मत्वा सर्वं पापं परित्यज्य तपश्चरेदिति ।।१९।। तपश्चरणोपायमधिकृत्याहसीहं जहा खुद्दमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेधावि समिक्ख धम्मं, दूरेण पावं परिवज्जएज्जा ||२०||
__ यथा क्षुद्रमृगाः वने चरन्तः परिशङ्कमाना: बिभ्यत: सिंहं दूरेण परित्यज्य चरन्ति, एवं तु मेधावी समीक्ष्य धर्मं दूरेण पापं परिहृत्य परिव्रजेत् संयमानुष्ठायी तपश्चारी च भवेदिति ।।२०।। अपि चसंबुज्झमाणे तु णरे मतीमं, पावातो अप्पाण निवट्टएज्जा। हिंसप्पसूताई दुहाई मंता, वेराणुबंधीणि महब्मयाणि ||२१||
संबुध्यमानस्तु मतिमान् नरः मुमुक्षुः पापात् आत्मानं निवर्तयेत् । किंकृत्वेत्याहहिंसाप्रसूतानि दुःखानि वैरानुबन्धीनि महद्भयानि चेति मत्त्वा, पाठान्तरं वा 'निव्वाणभूए व परिव्वएज्जा' त्यक्तसावधव्यापारत्वात् निर्वाणभूत इव शीतीभूत इव परिव्रजेदिति ।।२१।। तथामुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा न वि कारवेज्जा, करेंतमन्नं पि य नाणुजाणे ॥२२॥
Page #121
--------------------------------------------------------------------------
________________
Mascidiaadimade श्री सूत्रकृताङ्गसूत्रम् aaaaaaa११६]
आप्तगामी सर्वज्ञोपदिष्टमार्गगामी मुनिः मृषां न ब्रूयात् सत्यमपि प्राण्युपघातकं न ब्रूयात् । एतद् मृषावादादिवर्जनं कृत्स्नं समाधि निर्वाणं चाहुः वर्धमानस्वामिनः, तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयं न कुर्यात्, न चाऽपरेण कारयेत् कुर्वन्तमन्यमपि च नानुजानीयादिति ।।२२।। अथोत्तरगुणानधिकृत्याहसुद्धे सिया जाए न दूसएज्जा, अमुच्छिते ण य अज्झोववण्णे । धितिमं विमुक्के ण य पूयणट्ठी, न सिलोयगामी य परिवएज्जा ||२३||
___ उद्गमोत्पादनैषणाभि: शुद्धे स्यात् कदाचित् जाते प्राप्ते सरसनीरसपिण्डे सति साधु रागद्वेषाभ्यां न दूषयेत्, तत्रापि रागस्य प्राधान्यख्यापनार्थमाह-न मूर्च्छित: अमूर्छितः सन् गृद्धिमकुर्वन्नाहारयति, तथा न च अध्युपपन्न: पौन:पुन्येनाऽभिलषमाणः आहारयेत्, अपि तु संयमयात्रार्थमाहारयेत् तथा धृतिमान् ग्रन्थेन च विमुक्तः सन् पूजनार्थी न भवेदिति । न च श्लोक: कीर्तिस्तद्गामी = तदभिलाषुकः श्लोकगामी परिव्रजेत् । र्कीयर्थी न काञ्चन क्रियां कुर्यादित्यर्थः ।।२३ ।। उपसंहरन्नाहनिक्खम्म गेहाउ निरावकंखी, कायं विओसज्ज नियाणछिण्णे। नो-जीवितं नो मरणाभिकंखी, चरेज्ज भिक्खू वलया विमुक्के ॥२४॥ त्ति बेमि ।
. गेहात् निष्क्रम्य जीवितेऽपि निराकाङ्क्षी सन् कायं व्युत्सृज्य निष्पतिकर्मतया चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत् तथा-न जीवितं नापि मरणमभिकाङ्क्षी । भिक्षुः वलयात्=कर्मबन्धनात् विप्रमुक्त: संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् ।।२४।।
|| दशममध्ययनं समाप्तम् ।।
।। अथैकादशं मार्गाध्ययनम् ।। अनन्तराध्ययने सम्यग्दर्शनज्ञानचारित्रलक्षणो भावसमाधिरुक्तः । स एव भावमार्गः मोक्षप्रापकत्वादत्राध्ययने प्रतिपाद्यतेकयरे मग्गे अक्खाते, माहणेण मतीमता। जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ।।१।।
जम्बूस्वामी सुधर्मस्वामिनं पृच्छति-कतरो मार्ग आख्यातः माहनेन मतिमता श्री वर्धमानस्वामिना ? यं ऋजुंमार्ग प्राप्य मुमुक्षुः दुरुत्तरं दुस्तरम्ओघं संसारसमुद्रं तरतीति ।।१।। स एव जम्बूस्वामी पुनरप्याह
Page #122
--------------------------------------------------------------------------
________________
aaaaaaaaadade श्री सूत्रकृताङ्गसूत्रम् aandaadaadaas११७ तं मग्गं अणुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू, तंणे बूहि महामुणी ।।२।।
तम् अनुत्तरं शुद्धं सर्वदुःखविमोक्षणं मार्गं यथा त्वं जानासि हे भिक्षो ! हे महामुने ! तं मागं तथा नः अस्माकं, बूहीति ।।२।। यद्यपि युष्मत्प्रत्ययेनाऽस्माकं प्रवृत्ति:स्यात्तथाप्यन्येषां मार्ग: किंभूतो मयाऽऽख्येय इत्यभिप्रायवानाहजइणे केइ पुच्छिज्जा, देवा अदुव माणुसा | तेसिं तु कतरं मग्गं, आइक्खेज्ज कहाहि णे ||३||
यदि नः अस्मान् केचिद् देवा अथवा मनुष्याः मार्गं पृच्छेयुः तेषां तु कतरं मार्गम् अहम् आख्यास्ये तदेतत् त्वं जानानः कथय नः अस्माकमिति ।।३।। एवं पृष्टः सुधर्मस्वाम्याहजइ वो केइ पुच्छिज्जा, देवा अदुव माणुसा । तेसिमं पडिसाहेज्जा, मग्गसारं सुणेहि मे ||४||
___ यदि वः युष्मान् केचित् देवा अथवा मनुष्याः पृच्छेयुः तदा तेषाम् इमं वक्ष्यमाणलक्षणं मार्गसारं मार्गपरमार्थं भवान् प्रतिकथयेत् तन्मम कथयतः श्रृणुत यूयमिति, पाठान्तरं वा 'तेसिं तु इमं मग्गं आइक्खेज्ज सुणेह मे' त्ति उत्तानार्थम् ।।४।। मार्गस्तुतिं कुर्वन् पुनरपि सुधर्मस्वाम्याहअणुपुत्रेण महाघोरं, कासवेण पवेदियं । जमादाय इओ पुलं, समुदं व ववहारिणो ||५|| अतरिंसु तरंतेगे, तरिस्संति अणागता । तं सोच्चा पडिवक्खामि, जंतवो तं सुणेह मे ॥६॥
यथाहम् अनुपूर्वेण परिपाट्या कथयामि तथा श्रुणुत, यदिवा यथा चानुपूर्व्या सामग्या वा मार्गोऽवाप्यते तच्छृणुत, तद्यथा-सम्यक्त्व-देशविरतिसर्वविरत्यादिप्राप्तिलक्षणया, तथा 'चत्तारि परमंगाणि' त्यादि । किंभूतं मार्गमित्याह-कापुरुषैर्दुरध्यवसेयत्वात् महाघोरं काश्यपेन श्रीमन्महावीरेण प्रवेदितं यमादाय सम्यग्दर्शनादिकं स्वीकृत्य इत: कालात् पूर्वं बहवो भव्या दुस्तरं भवौघम् अतार्ष: तीर्णवन्तः, तरन्ति एकेऽद्यापि विदेहेषु तथा तरिष्यन्ति अनागता: भविष्यन्त एष्यत्कालेऽनन्ता: यथा समुद्र व्यवहारिणः सांयात्रिका यानपात्रेण तं मागं श्रुत्वाऽवधार्य च प्रतिवक्ष्यामि तत् हे जन्तवः ! श्रृणुत मे कथयत इति ।। ५-६ ।। धर्ममूलाया अहिंसाया:
Page #123
--------------------------------------------------------------------------
________________
sataraikikik श्री सूत्रकृताङ्गसूत्रम् aakadaaee११८ प्रसिद्ध्यर्थमाहपुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। वाउजीवा पुढो सत्ता, तण रुक्ख सबीयगा ||७|| अहावरा तसा पाणा, एवं छक्काय आहिया । इत्ताव एव जीवकाए, नावरे विज्जती काए ||८||
पृथिवीजीवाश्च पृथक् पृथक् सत्त्वाः, अब्जीवास्तथा आग्नेया: तेजस्कायाः, वायुजीवाः पृथक् पृथक् सत्त्वाः, तृणानि वृक्षाश्च सबीजका: वनस्पतिकायाः, अथाऽपरे त्रसाः प्राणिनः, एवं षट्काया आख्याता: तीर्थकृद्भिः । एतावान् एव संक्षेपतो जीवनिकायः, नापरो कोऽपि जीवराशिविद्यत इति ।।७-८।। तदेवं षड्जीवनिकायं प्रदर्श्य यत्तत्र विधेयं तदाहसवाहिं अणुजुत्तीहिं, मतिमं पडिलेहिया । सवे अकंतदुक्खा य, अतो सब्वे न हिंसया ।।९।।
सर्वाभिः अनुयुक्तिभिः अनुकूलाभियुक्तिभि: मतिमान् प्रत्युपेक्ष्य पर्यालोच्य, यथासर्वे प्राणिन: अकान्तदुःखाश्च दुःखद्विषः सुखलिप्सवश्च अतः सर्वान् अपि प्राणिन: न हिंस्यादिति ।।९।। एतदेव समर्थयन्नाहएयं खुणाणिणो सारं, जंन हिंसति कंचणं । अहिंसा समयं चेव, एतावंतं विजाणिया ||१०||
एतदेव खुशब्दोऽवधारणे ज्ञानिनः सारं यत् कञ्चन प्राणिनं न हिनस्ति । एतावन्तम् एव अहिंसासमयं अहिंसाप्रधानमागमं विज्ञाय न हिंस्यात् कञ्चनेति ।।१०।। साम्प्रतं क्षेत्रतोऽहिंसामाहउड्डे अहे तिरियं च, जे केइ तस-थावरा । सव्वत्थ विरतिं विज्जा, संति निव्वाणमाहियं ।।११।।
ऊर्ध्वमधस्तिर्यक् च ये केचित् त्रसास्तथा स्थावराः, सर्वत्र प्राणिनि प्राणातिपाताद् विरति विद्यात् विजानीयात् कुर्यादित्यर्थः । एषा प्राणातिपातविरतिः स्वपरशान्तिहेतुत्वात् शान्तिः, अपि च-निर्वाणहेतुत्वात् निर्वाणमाख्यातम् यदिवा विरतिमान् आर्तरौद्रध्यानाभावात् शान्तिरूपो निर्वाणभूतश्च भवतीति ।।११।। अपि च
Page #124
--------------------------------------------------------------------------
________________
Baadddddddddd श्री सूत्रकृताङ्गसूत्रम् s aalaak११९ पभू दोसे निराकिच्चा, ण विरुज्झेज्ज केणति । मणसा वयसा चेव, कायसा चेव अंतसो ||१२||
इन्द्रियाणां प्रभवतीति प्रभुः वश्येन्द्रियः, यदिवा संयमपालने प्रभुः दोषान् मिथ्यात्वाऽविरत्यादीन् निराकृत्य अपनीय पराऽपकारक्रियया न विरुध्येत् केनचित् सह मनसा वचसा कायेन चैवाऽन्तशः यावज्जीवमिति ।।१२।। उत्तरगुणानधिकृत्याहसंवुडे से महापण्णे, धीरे दत्तेसणं चरे। एसणासमिए णिच्चं, वज्जयंते अणेसणं ॥१३॥
आश्रवद्वाररोधेन स भिक्षुः संवृतः महाप्रज्ञः धीरः गृहस्वाम्यादिना दत्ते सति एषणां चरेत् एषणीयं गृह्णातीत्यर्थः एषणासमितः सन् नित्यम् अनेषणां वर्जयेदिति ।।१३।। अनेषणीयपरिहारमाहभूयाइं समारंभ, समुद्दिस्स यजं कडं । तारिसंतुण गेण्हेज्जा, अन्नं पाणं सुसंजते ||१४||
तम् साधुम् उद्दिश्य भूतानि पृथिव्यादिजीवान् च समारभ्य उपमर्च च यदाहारादि कृतं तादृशं तु अन्नपानं सुसंयत: न गृह्णीयात् 'न भुंजेज्जा' इति पाठस्तु टीकाकृतोपलब्धः संभाव्यते ।।१४।। किञ्चपूतिकम्मंण सेवेज्जा, एस धम्मे दुसीमतो। जं किंचि अभिकंखेज्जा, सव्वसो तंण कप्पते ।।१५।।
एष धर्म: आचार: वुसीमतो वश्येन्द्रियस्य संयमवत: यदुत आधाकर्माद्यवयवेनापि संपृक्तं पूतिकर्म न सेवेत । किञ्च-यत्किञ्चित् आहारादिकम् अशुद्धत्वेन अभिकाङ्क्षेत् अभिशङ्केत तत् सर्वशः आहारोपकरणपूतिकर्म भोक्तुं न कल्पत इति ।।१५।। किञ्चान्यत्हणंतं नाणुजाणेज्जा, आतगुत्ते जिइंदिए । ठाणाइं संति सड्ढीणं, गामेसु णगरेसु वा ||१६||
सड्ढीणं धर्मश्रद्धावतां ग्रामेषु नगरेषु वा स्थानानि सन्ति तत्र कश्चिद् राजादिः धर्मबुद्ध्या प्राण्युपमर्दकारिणी कूपतडागखनन-प्रपा-सत्रादिकां क्रियां कुर्यात्, तेन च का 'किमत्र धर्मोऽस्ति नास्तीत्येवं पृष्टोऽपृष्टो वा आत्मगुप्तः जितेन्द्रियः साधुस्तदुपरोधाद् भयाद्वा तं प्राणिनो अन्तं नानुजानीयात् सावद्यानुष्ठानं नानुमन्येतेत्यर्थः ।।१६।। सावद्यानुष्ठानानुमतिं परिहर्तुकाम आह
Page #125
--------------------------------------------------------------------------
________________
addarddadakadad श्री सूत्रकृताङ्गसूत्रम् dededdddddi१२० तहा गिरं समारंभ , अस्थि पुण्णं ति नो वदे। अहवा णत्थि पुण्णं ति, एवमेयं महब्मयं ।।१७||
___ अनन्तरोक्तप्रकारेण पृष्टः साधुः तथा कूपखननादिविषयां गिरं समारभ्य निशम्याऽऽश्रित्य वा अस्ति पुण्यमिति न वदेत् अथवा नास्ति पुण्यमित्येवं न वदेत् यत एवम् एतत् एकतरदपि कथनं दोषहेतुत्वेन महाभयम् इति मत्वा नानुमन्येदिति ।।१७।। किमर्थं नानुमन्येतेत्याहदाणट्टयाए जे पाणा, हम्मति तस-थावरा । तेसिं सारक्खणट्ठाए, तम्हा अस्थि त्ति णो वए ||१८||
दानार्थं च तत्र दानसत्रादौ यस्मात् त्रसाः स्थावराश्च ये प्राणिनः हन्यन्ते तस्मात् तेषां संरक्षणार्थं साधुः पुण्यम् अस्तीति न वदेदिति ।।१८।। यद्येवं तर्हि नास्ति पुण्यमिति ब्रूयात् । तदेतदपि न ब्रूयादित्याहजेसिं तं उवकप्पेंति, अण्ण-पाणं तहाविहं । तेसिं लाभंतरायं ति, तम्हा णत्थि त्ति णो वदे ।।१९।।
यस्मात् पुण्यं नास्तीति निषेधे येषां जन्तूनां कृते तथाविधं प्राण्युपमर्दनदोषदुष्टं तद् अन्नपानम् उपकल्पयन्ति-निष्पादयन्ति तेषाम् आहारपानार्थिनां लाभान्तरायो विघ्नो भवेत् तस्मात् तत्र कूपखननसत्रादिके कर्मणि नास्ति पुण्यमिति एतदपि न वदेदिति ।।१९।। एनमेवार्थं पुनरपि समासतः स्पष्टतरं बिभणिषुराहजे य दाणं पसंसंति, वहमिच्छंति पाणिणं । जे यणं पडिसेहंति, वित्तिच्छेयं करेंति ते ॥२०॥
ये च प्रपासत्रादिकं दानं बहूनां जन्तूनामुपकारीति प्रशंसन्ति ते प्राणिनां वधमिच्छन्ति, तद्दानस्य प्राणातिपातमन्तरेणाऽनुपपत्तेः । येऽपि च अगीतार्थाः प्रतिषेधयन्ति ते प्राणिनां वृत्तिच्छेदम् आजीविकाविधं कुर्वन्तीति ।।२०।। तदेवं पृष्टैर्मुमुक्षुभिर्यद्विधेयं तदाहदुहओ वि ते ण भासंति , अस्थि वा नत्थि वा पुणो। आयं रयस्स हेच्चाणं, णिव्वाणं पाउणंति ते ।।२१।।
द्विधापि अस्ति नास्ति वा पुण्यमित्येवं ते साधवः पुनर्न भाषन्ते, किंतु पृष्टैः सद्भिर्न मौनं समाश्रयणीयम, निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोषवर्जित आहार: कल्पते, एवंविधविषये मुमुक्षूणामधिकार एव नास्तीति । उक्तं च-सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं, व्युच्छिन्नाऽशेषतृष्णा: प्रमुदितमनस: प्राणिसार्था भवन्ति । शोषं नीते जलौधे दिनकरकिरणैर्या
Page #126
--------------------------------------------------------------------------
________________
addeddakaddardie श्री सूत्रकृताङ्गसूत्रम् reacheducedes१२१] न्त्यनन्ता विनाशं, तेनोदासीनभावं व्रजति मुनिगण: कूपवप्रादिकार्ये ।।१।।
तदेवमुभयथापि भाषिते रजसः कर्मणाम् आय: लाभो भवतीत्यतस्तमायं रजसो मौनेनाऽनवद्यभाषणेन वा हित्वा त्यक्त्वा तेऽनवद्यभाषिणो निर्वाणं मोक्षं प्राप्नुवन्तीति ।।२१।। अपि चणिवाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सया जते दंते, निव्वाणं संधते मुणी ।।२२।।
यथा नक्षत्राणां चन्द्रमाः प्रधानः तथा निदानपरित्यागेन निर्वाणं प्रधानमिति ये निर्वाणमभिसन्धाय प्रवृत्तास्ते बुद्धा: ज्ञाततत्त्वा एव प्रधाना: नापर इति । यदिवा लोकस्य निर्वाणं प्रधानमित्येवं बुद्धाः प्रतिपादयन्ति, तस्मात् मुनिः सदा दान्त: यतः प्रयत्नवान् सन् निर्वाणं सन्धयेत् निर्वाणा) सर्वां क्रियां कुर्यादिति ।।२२।। किञ्चान्यत्वुज्झमाणाण पाणाणं, किच्चंताण सकम्मणा । आघाति साहु तं दीवं, पतिढेसा पवुच्चती ।।२३।।
__ मिथ्यात्वादिभि: स्रोतोभिः संसारसागराभिमुखम् उह्यमानानां नीयमानानां स्वकर्मणा च कृत्यमानानां प्रणिनां यः कश्चिद् गणधराचार्यादिकः तं सम्यग्दर्शनादिभावमार्गरूपं साधु शोभनं द्वीपमाख्याति । एवं च कृत्वा संसारभ्रमणविरतिलक्षणा सम्यग्दर्शनाद्यवाप्तिसाध्या एषा मोक्षप्राप्तिः प्रतिष्ठा प्रोच्यते तत्त्वज्ञैः । यदिवा स भावमार्गोपदेशक: एवाऽऽश्वासभूतत्वात् द्वीपं तथाऽऽधारभूतत्वात् प्रतिष्ठा प्रोच्यत इति ।।२३।। किंभूतोऽसावाश्वासद्वीपो भवति कीदृग्विधेन वाऽसावाख्यायत इत्येतदाहआयगुत्ते सया दंते, छिण्णसोए अणासवे | जे धम्म सुद्धमक्खाति, पडिपुण्णमणेलिसं ||२४||
य आत्मगुप्तः सदा दान्तः छिन्नस्रोता: अनाश्रवः स शुद्ध प्रतिपूर्णं सर्वविरतिरूपम् अनीशम् अद्वितीयं धर्ममाख्यातीति ।।२४।। एवम्भूतधर्ममजानानां दोषाभिधित्सयाहतमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धामो त्ति य मण्णंता, अंतए ते समाहिए ||२५||
तमेव अनन्तरोक्तविशेषणविशिष्टं धर्मम् अविजानन्त : अबुद्धा: अविवेकिन: बुद्धमानिनः वयमेव बुद्धाः स्मः इति च मन्यमानाः सर्वे ते परतीर्थिका: समाधेः सम्यग्दर्शनाख्यात् अन्ते पर्यन्तेऽतिदूरे वर्तन्त इति ।।२५।। किमिति ते समाधेर्दूरे इत्याशङ्याह
Page #127
--------------------------------------------------------------------------
________________
aaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् saksiaad१२२ ते य बीओदगं चेव, तमुद्दिस्सा य जं कडं । भोच्चा झाणं झियायंति, अखेतण्णा असमाहिता ||२६||
ते च शाक्यादय: यच्च बीजोदकम् अन्नपानं तमेव तीथिकम् उद्दिश्य तद्भक्तैः यद् कृतं तद् भुक्त्वा पुनस्तदवाप्तिकृते आर्तं ध्यानं ध्यायन्ति । अपि च-ते तीथिका धर्माधर्मविषये कर्तव्ये अखेदज्ञा : अनिपुणा: असमाहिताश्च असंवृततया मोक्षमार्गाख्याद् भावसमाधेर्दूरवर्तित्वादिति ।।२६।। यथैते तीथिका आर्तध्यायिनो भवन्ति तथा दृष्टान्तद्वारेणाहजहा ढंका य कंका य, कुलला मग्गुका सिही । मच्छेसणं झियायंति, झाणं ते कलुसाधमं ||२७||
_ यथा ढङ्काश्च कंकाश्च कुररा मद्गुका एते सर्वे पक्षिविशेषा जलाशयाश्रया आमिषजीविनः ते मत्स्यैषणां मत्स्यप्राप्ति शिखिणः कुक्कुटाश्च कीटप्राप्तिं ध्यायन्ति, एवंभूतं च ध्यानं कलुषाधमं भवतीति ।।२७।। दार्टान्तिकं दर्शयितुमाहएवं तु समणा एगे, मिच्छदिट्ठी अणारिया । विसएसणं झियायंति, कंका वा कलुसाहमा ||२८||...
एवं यथा ढङ्कादयो मत्स्यैषणां ध्यायन्ति, तद्ध्यायिनश्च कलुषाधमा भवन्ति एवमेव तु एके श्रमणा: शाक्यादयः मिथ्यादृष्टयः अनार्याः विषयैषणां ध्यायन्ति तद्ध्यायिनश्च कङ्का इव कलुषाधमा भवन्तीति ।।२८।। किञ्चसुद्धं मग्गं विराहित्ता, इहमेगे उदुम्मती । उम्मग्गगता दुक्खं, घंतमेसंति ते तहा ||२९||
शुद्धं मार्गं सम्यग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया विराध्य दूषयित्वा इह संसारे एके शाक्यादयः दुर्मतयः उन्मार्गगता: दु:खं घातं चान्तशस्ते तथा सन्मार्गविराधनया उन्मार्गगमनं च एषन्ते अन्वेषयन्ति दु:खमरणे शतश: प्रार्थयन्तीत्यर्थः ।।२९ ।। शाक्यादीनां चापायं दिदर्शयिषुस्तावद् दृष्टान्तमाहजहा आसाविणिं नावं, जातिअंधेदुरुहिया । इच्छती पारमागंतु, अंतरा य विसीयती ॥३०॥
यथा जात्यन्ध आस्राविणीं शतच्छिद्रां नावम् आरुह्य पारमागन्तुमिच्छति, न चासौ पारगामी भवति, अपि तु अन्तरा च विषीदति निमज्जतीत्यर्थः ।।३० ।। दाान्तिकमाह
Page #128
--------------------------------------------------------------------------
________________
००००० श्री सूत्रकृताङ्गसूत्रम्
एवं तु समणा एगे, मिच्छद्दिठ्ठी अणारिया । सोयं कसिणमावण्णा, आगंतारो महब्भयं ||३१||
एवं तु-सन्मार्गविराधनया उन्मार्गप्रवर्तकतया च एके श्रमणा: शाक्यादयः मिथ्यादृष्टयः अनार्याः कर्माश्रवरूपं कृत्स्नं स्रोत: आपन्नाः सन्तस्ते महाभयं पौनः पुन्येन भवदुःखम् आगन्तारः आगमनशीला भवन्ति, न च तेषां संसारोदधेरास्त्राविणीं नावं व्यवस्थितानां संसारोत्तरणं भवतीति भावः ।। ३१ ।। यतः शाक्यादयो महाभयमागन्तारो भवन्ति तत इदमुपदि - श्यते
इमं च धम्ममादाय, कासवेण पवेदितं ।
तरे सोयं महाघोरं, अत्तत्ताए परिव्व ॥ ३२ ॥
१२३
काश्यपेन वर्धमानस्वामिना प्रवेदितं इमं धर्ममादाय तरेत् महाघोरं स्रोतः । तदेवं आत्मत्राणाय परिव्रजेत् संयमानुष्ठायी भवेदित्यर्थः । क्वचित् पश्चार्धस्याऽन्यथा पाठ: 'कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए' भिक्षुः ग्लानस्य वैयावृत्यम् अग्लान: अपरिश्रान्तः कुर्यात् समाधिना, ग्लानस्य वा समाधिमुत्पादयन्निति ।। ३२ ।। संयमानुष्ठाने परिव्रजेदित्याहविरते गामधम्मेहिं जे केइ जगती जगा ।
I
तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए ||३३|
ग्रामधर्मेभ्यः शब्दादिविषयेभ्यः विरतः सन् ये केचित् जगति संसारे जगन्ति तास्थात्तद्व्यपदेश इति जीवास्तेषाम् आत्मोपमया दुःखमनुत्पादयन् तद्रक्षणे च स्थाम सामर्थ्यं कुर्वन् परिव्रजेदिति ।। ३३ ।। संयमविघ्नकारिणामपनयनार्थमाह
अतिमाणं च मायं च तं परिण्णाय पंडिते ।
"
सव्वमेयं निराकिच्चा, निव्वाणं संघए मुणी ||३४||
अतिमानं चकारादतिक्रोधमपि एवं मायां चशब्दाल्लोभं च तं कषायव्रातं संयमपरिपन्थिनं परिज्ञाय पण्डितः सर्वमेनं कषायसमूहं निराकृत्य अपनीय निर्वाणं सन्धयेत् मुनिरिति ।। ३४ ।। किञ्च
संधते साहुधम्मं च, पाव धम्मं णिराकरे । उवधाणवीरिए भिक्खू, कोहं माणं न पत्थए ||३५||
साधुधर्मं च ज्ञानादिकं दशविधं सम्यग्दर्शनज्ञानचारित्राख्यं वा अनुसन्धयेत् वृद्धिमापादयेत् चशब्दादनुपालयेच्च पाठान्तरं वा 'सद्दहे साधु धम्मं च । साधुधर्मं मोक्षमार्गत्वेन नि:श
Page #129
--------------------------------------------------------------------------
________________
aakakakkakkad श्री सूत्रकृताङ्गसूत्रम् ikaidik१२४
तया श्रद्दधीत चशब्दात्सम्यगनुपालयेच्च तथा पापधर्म प्राण्युपमर्दैन प्रवृत्तं निराकुर्यात् तथा उपधानं तपस्तत्र वीर्यं यस्य स उपधानवीर्यः भिक्षुः साधुः क्रोधं मानं च उपलक्षणान्मायां लोभमपि प्रतिसेवनया न प्रार्थयेत् नाभिलषेदिति ।।३५ ।। अथैवंभूतं भावमार्ग किं वर्धमानस्वाम्येवोपदिष्टवान् उताऽन्योऽपीत्येतदाशङ्कयाहजेय बुद्धा अतिक्कंता, जे य बुद्धा अणागता । संति तेसिं पतिट्ठाणं, भूयाणं जगती जहा ||३६||
ये च बुद्धाः तीर्थकरा अतीते कालेऽनन्ता अतिक्रान्ताः तथा ये बुद्धाः अनागताः भविष्यन्तस्तेऽपि अनन्ताः, तथा महाविदेहेषु साम्प्रतमपि संख्येया: सन्ति ते सर्वेऽपि भावमार्गमुपदिष्टवन्त: उपदिशन्ति उपदेक्ष्यति च, न केवलमुपदिष्टवन्तोऽनुष्ठितवन्तश्चेत्येतदर्शयति तेषां सर्वेषां शान्ति : भावमार्गः प्रतिष्ठानम् आधार: बुद्धत्वस्याऽन्यथानुपपत्ते: यदिवा शान्ति: मोक्ष: स तेषां प्रतिष्ठानम् आधारः, ततस्तदवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्तवन्तोऽनुष्ठितवन्तश्चेति गम्यते । शान्तिप्रतिष्ठानत्वे दृष्टान्तमाह-भूतानां त्रसस्थावराणां यथा जगती त्रिलोकी प्रतिष्ठानं तथा ते सर्वेऽपि बुद्धा: शान्तिप्रतिष्ठाना इति ।।३६ ।। प्रतिपन्नभावमार्गेण यद्विधेयं तदाहअहणं वतमावण्णं, फासा उच्चावया फुसे । ण तेसु विणिहण्णेज्जा, वातेणेव महागिरी ||३७||
अथ आपन्नव्रतं भावमार्गप्रतिपत्त्यनन्तरं साधं उच्चावचा: नानारूपा: स्पर्शा: परीषहोपसर्गाः स्पृशेयुः, न च तैः विहन्यात् नैव संयमानुष्ठानान्मनागपि विचलेत् वातेनेव महागिरिः मन्दरपर्वत इति ।।३७।। उपसंहरन्नाहसंवुडे से महापण्णे, धीरे दत्तेसणं चरे। निबुडे कालमाकंखी, एवं केवलिणो मयं ||३८|| त्ति बेमि |
आश्रवनिरोधात् संवृतः स महाप्रज्ञः धीरः परेण आहारादिके दत्ते सति एषणां चरेत्, तथा निर्वृत्त : शीतीभूत: कालं मृत्युकालं यावद्-आकाङ्केत् एतद् यद् मया प्राक् प्रतिपादितं तत् केवलिन : तीर्थकृतो मतम् । एतच्च जम्बूस्वामिनमुद्दिश्य सुधर्मस्वाम्याहकेवलिनो मतमेतदित्येवं भवता ग्राह्यम् इति ब्रवीमि पूर्ववत् ।।३८।।
।। इति मार्गाख्यमेकादशमध्ययनं समाप्तम् ।।
Page #130
--------------------------------------------------------------------------
________________
asiaaaaaad श्री सूत्रकृताङ्गसूत्रम् aid१२५
॥ अथ समवसरणं द्वादशमध्ययनम् ।। इहानन्तराऽध्ययने मार्गोऽभिहित:, स च कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते, अत: कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यम्, तच्चाऽत्राऽध्ययने निरूप्य क्रियावादाऽक्रियावादाऽज्ञानवादवैनयिकवादानां चतुर्णामपि आक्षेपं कृत्वा यत्र विक्षेपः क्रियते तद् भावसमवसरणम् । तत्र काल-स्वभावनियतिपूर्वकृतपुरुषकारलक्षणान् सर्वानपि कारणत्वेनाऽभ्युपगछन् तथाऽऽत्म-पुण्य-पाप-परलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाऽभ्युपगन्तव्यः शेषास्तु वादा अक्रियावादाऽज्ञानवादवैनयिकवादा मिथ्यावादा द्रष्टव्याः। अत्र तु बहुवक्तव्यं तन्मूलटीकाग्रन्थतोऽवसेयम् प्रस्तुतप्रयासस्याऽक्षरगमनिकामात्रत्वात् । अथ सूत्रमनुश्रियतेचत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति । किरियं अकिरियं विणयं ति तइयं, अण्णाणमाहंसु चउत्थमेव ||१||
चत्वारि समवसरणानि परतीर्थिकाऽभ्युपगमसमूहरूपाणि यानि प्रावादुकाः पृथक् पृथग् वदन्ति तानि च इमानि, तद्यथा-क्रियाम् अस्तीत्यादिकां वदितुं शीलं येषां ते प्रथमा: क्रियावादिन: (१) । तथा-अक्रियां नास्तीत्यादिकं वदितुं शीलं येषां ते द्वितीया अक्रियावादिनः (२) । तथा विनयं वदितुं शीलं येषां ते तृतीया वैनयिकाः (३) । तथा-अज्ञानमेव श्रेय इति वदितुं शीलं येषां ते चतुर्थास्तु अज्ञानिका इति (४) ।।।१।। अज्ञानिकास्तावत् प्रदर्श्यन्तेअण्णाणिया ता कुसला वि संता, असंथुया णो वितिगिच्छतिण्णा । अकोविया आहु अकोवियाए, अणाणुवीयीति मुसं वदंति ||२||
तेच अज्ञानिकास्तावत् वयमेव कुशला इतिवादिनः अपि सन्त: असंस्तुता: अज्ञानमेव श्रेय इति वादितयाऽसम्बद्धाः । असंस्तुतत्वादेव ते विचिकित्सां चित्तभ्रान्तिं न तीर्णा: नातिक्रान्ताः । स्वतो धर्मोपदेशं प्रति अकोविदाः अनिपुणास्ते अकोविदेभ्यः स्वशिष्येभ्य एवम् आहुः उक्तवन्तः, यथाऽज्ञानमेव श्रेय इत्यज्ञानपक्षसमाश्रयणात्ते अननुविचिन्त्य मृषां वदन्तीति ।।२।। साम्प्रतं वैनयिकवादं निसचिकीर्षुः प्रक्रमतेसच्चं असच्चं इति चिंतयंता, असाहु साहु त्ति उदाहरंता । जेमे जणा वेणइया अणेगे, पुडा वि भावं विणइंसु नाम ||३||
सद्भ्यो हितं सत्यं सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तम् असत्यम् इति चिन्तयन्त: मन्यमानाः, विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा-असाधुम् अविशिष्टकर्मकारिणं रासभादिकमपि वन्दनादिकया विनयप्रतिपत्त्या साधुमिति उदाहरन्त: प्रतिपादयन्त: न सम्यग्धर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव केवलात् धर्म इत्येवमभ्युपगमात्
Page #131
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
S
१-२६|
एत इत्याह-ये इमेजना इव प्राकृतपुरुषा इव जना: वैनयिकाः अनेके द्वात्रिंशद्भेदभिन्नाः, ते च केनचिद्धर्मार्थिना पृष्टा: अपिशब्दात् अपृष्टा वा भाव-विनयादेवं स्वर्गमोक्षावप्तिरित्येवं स्वाभिप्रायं व्यनैषुः विनीतवन्तः प्रतिपादितवन्तः, नाम शब्दः संभावनायां, संभाव्यत एव विनयात् सर्वकार्यसिद्धिरिति ।।३।। किञ्चान्यत्
अणोवसंखा इति ते उदाहु, अड्डे स ओभासति अम्ह एवं । लवावसंकी य अणागतेहिं णो किरियमाहंसु अकिरियआया ||४||
"
उप=सामीप्येन संख्या=परिच्छेदः ज्ञानमित्यर्थः उपसंख्या नोपसंख्या अनुपसंख्या तया अनुपसंख्यया=अपरिज्ञानेन वैनयिका: उदाहुः प्रतिपादयन्ति इति = एवं एष - स्वः अर्थः स्वर्गमोक्षादिकः अस्माकम् अवभासते = युज्यमानको भवति । साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाह-लवं-कर्म तस्मादपशङ्कितुम्-अपसर्तुं शीलं येषां ते लवापशङ्किनः लोकायतिकाः शाक्यादयश्च तेषामात्मैव नास्ति कुतस्तत्क्रिया तज्जनितो वा कर्मबन्ध इति । बौद्धाभ्युपगमे च अनागतै : क्षणैः चशब्दादतीतैश्च क्षणैः वर्तमानक्षणस्याऽसंगतेर्न क्रिया नापि च तज्जनित: कर्मबन्ध इति । तथा-अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिन: सांख्याः एतदेवं ते अक्रियावादिनः=लोकायतिकबौद्धसांख्या अपरिज्ञानेनैव न क्रियामाहुः, एवं ते सर्वे एतदुक्तवन्तः, तद्यथा-अस्माकमेवाऽभ्युपगमेऽर्थो युज्यमानो भवतीति श्लोकपूर्वार्ध: काकाक्षिगोलकन्यायेनाऽक्रियावादिमतेऽपि आयोज्यमिति ।।४।। साम्प्रतमक्रियावादिनामज्ञानविजृम्भितं
दर्शयितुमाह
सम्मिस्सभावं सगिरा गिहीते, से मुम्मई होति अणाणुवादी । इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥५॥
स्वकीयया गिरा=वाचा गृहीते अभ्युपगतेऽर्थे नान्तरीयकतया वा समागते सति तस्याऽऽयातस्यार्थस्य स्ववाचैव प्रतिषेधं कुर्वाणाः सम्मिश्रीभावम् अस्तित्वनास्तित्वाभ्युपगमं ते लोकायतिकादयः कुर्वन्ति, चशब्दात् व्यत्ययं कुर्वन्ति, तद्यथा-प्रतिषेधे प्रतिपाद्येडस्तित्वमेव प्रतिपादयन्ति, तथाहि लोकायतिकास्तावत् स्वशिष्येभ्यो जीवाद्यभावप्रतिपादकं शास्त्रं प्रतिपादयन्तो नान्तरीयकतयाऽऽत्मानं कर्तारं करणं च शास्त्रं तथा कर्मताऽऽपन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याऽभावान्मिश्रीभावो व्यत्ययो वा । बौद्धा अपि मिश्रीभावमेवमुपगता:, तद्यथा- गन्ता च नास्ति कश्चिद् गतय: षड् बौद्धशासने प्रोक्ताः । गम्यत इति च गति : स्याच्छ्रुति : कथं शोभना बौद्धी ।। १ ।। तथा-यदि शून्यस्तव पक्षो, मत्पक्षनिवारक कथं भवति ? अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ।। १ ।। इति स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति । तथा सांख्या अपि सर्वव्यापितयाऽऽत्मानमभ्युपगम्य प्रकृति
Page #132
--------------------------------------------------------------------------
________________
daadimiddddd श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaa१२७) वियोगान्मोक्षसद्भावं प्रतिपादयन्तस्तेऽप्यात्मनो बन्धं मोक्षं च स्ववाचा प्रतिपादयन्ति, ततश्च बन्धमोक्षसद्भावे सति स्वकीयया गिरा सक्रियत्वे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, यतो न क्रियामन्तरेण बन्धमौक्षौ घटेते । तदेवं सर्वेऽपि इमेऽक्रियावादिन: स्ववाचैव सम्मिश्रीभावं व्यत्ययं च प्रतिपद्यन्ते । यदिवा-बौद्धादिः कश्चित् स्याद्वादिना सम्यग्धेतुदृष्टान्तैः गृहीते निगृहीते सति सम्यगुत्तरं दातुमसमर्थो यत्किञ्चनभाषितया स 'मुम्मुई होई' जि गद्गदभाषितयाऽव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाच्च-मूकादपि मूको मूकमको भवति । एतदेव दर्शयति-स्याद्वादिनोक्तं साधनम् अननुवदितुं शीलमस्येति अननुवादी, सद्धेतुभिर्व्याकुलितमतितया मौनमेव प्रतिपद्यत इति भावः । यदिवा अननुभाष्य च प्रतिपक्षसाधनं तथाऽदूषयित्वा च, स्वपक्षं प्रतिपादयन्ति, तद्यथा-इदम् अस्मदभ्युपगतं दर्शनम् एक: पक्षोऽस्येति एकपक्षम् अप्रतिपक्षतयैकान्तिकम् अविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः । इदं चैवंभूतमपि सत्किमित्याह-द्वौ पक्षावस्येति द्विपक्षं सत्प्रतिपक्षमनैकान्तिकं पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः । यदिवाऽस्मदीयं दर्शनं द्विपक्षं कर्मबन्धनिर्जरणं प्रति पक्षद्वयसमाश्रयणात्, तत्समाश्रयणं चेहामुत्र च वेदनां चौरपारदारिकादीनामिव ते हि करणचरणनासिकादिच्छेदादिकामिहैवानुभवन्ति अमुत्र च नरकादौ । तथेदम् एकपक्षम् इहैव जन्मनि वैद्यत्वात्, तच्चेदम्-अविज्ञोपचितं परिज्ञोपचितमीर्यापथं स्वप्नांतिकं चेति । तदेवं स्याद्वादिनाऽभियुक्ताः स्वदर्शनमेवानन्तरोक्तया नीत्या प्रतिपादयन्ति, तथा स्याद्वादिसाधनोक्तौ छलायतनं छलं नवकम्बलो देवदत्त इत्यादिकम् आहुः उक्तवन्तः, चशब्दाच्च दूषणाभासादिकम् । तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति । यदिवा षडायतनानि उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत् षडायतनं कर्म इत्येवमाहुरिति ।।५।। साम्प्रतमेतद्रूषणायाहते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरिवाई। ज मायइ दित्ता बहवो मणूसा, भमंति संसारमणोवतग्गं ||६||
___ तेऽक्रियावादिनः अबुध्यमाना विरूपरूपाणि नानाप्रकाराणि शास्त्राणि एवं आचक्षते, तथाहि-पृथिव्यापस्तेजोवायुरित्येतान्येव चत्वारि भूतानि, नापर: कश्चित् सुखदु:खभागात्मा विद्यते । तथा-सर्व क्षणिकं निरात्मकं, “मुक्तिस्तु शून्यदृष्टेस्तदर्थाः शेषभावना'' इत्यादि यानि आदाय बहवो मनुष्यः संसारम् अनवदग्रम् अपर्यावसानं भ्रमन्ति, तथाहि-लोकायतिकानां सर्वशून्यत्वे प्रतिपाद्ये न प्रमाणमस्ति, तथा चोक्तम्-तत्त्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति । साऽस्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु सत् ।।१।। न च प्रत्यक्षमेवैकं प्रमाणम्, अतीतानागतभावतया पितृनिबन्धस्यापि व्यवहारस्याऽसिद्धेः, तत: सर्वव्यवहारोच्छेदः स्यादिति । बौद्धानामप्यत्यन्तक्षणिकत्वेन वस्तुत्वाभाव: प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः, सत्, न च क्षणः क्रमेणार्थक्रियां करोति, क्षणिकत्वहाने: नापि यौगपद्येन, एकऽस्मिन्नेव क्षणे
Page #133
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaarit श्री सूत्रकृताङ्गसूत्रम् sarastaas१२८] सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वेति ।।६।। पुनरपि शून्यमताविर्भावनायाहणाइच्चो उदेति ण अत्थमेति, ण चंदिमा वड्ढती हायती वा । सलिला ण संदंति ण वंति वाया, वंझे णियते कसिणे हु लोए ।।७।।
____नादित्य उदेति नास्तमेति, न चन्द्रमा वर्धते न हीयते, सलिलानि पर्वतनिर्झरेभ्यो न स्यन्दन्ते=न स्रवन्ति, न वान्ति वाताः, किं बहुनोक्तेन ? कृत्स्न: अप्ययं लोक: वन्ध्यः अर्थशून्य: नियत: निश्चित: अभावरूप इतियावत्, सर्वमिदं यदुपलभ्यते तन्मायास्वप्नेन्द्रजालकल्पमिदमिति एतत्परिहर्तुकाम आहजहा य अंधे सह जोतिणा वि, रुवाइंणो पस्सति हीणनेत्ते । संतं पि ते एवमकिरियआता, किरियं ण पस्संति निरुद्धपण्णा ||८||
यथान्धः जात्यन्धः पश्चाद्वा हीननेत्र: ज्योतिषाऽपि प्रदीपादिना सह वर्तमान: रूपाणि घटपटादीनि न पश्यति, एवं ते अपि अक्रियावादिनः सदपि घटपटादिकं वस्तु क्रियां च न पश्यन्ति यतस्ते निरूद्धप्रज्ञा : सन्तीति ।।८।। अनिरूद्धप्रज्ञास्तु ज्ञानिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, तदाहसंवच्छरं सुविणं लक्खणं च, निमित्तं देहं उप्पाइयं च । अटुंगमेतं बहवे अहित्ता, लोगंसि जाणंति अणागताई ॥९॥
सांवत्सरं ज्योतिष, स्वप्नं स्वप्नप्रतिपादकं ग्रन्थं, लक्षणं=श्रीवत्सादिकं, निमित्तं वाक्प्रशस्तशकुनादिकं, देहे भवं दैह-मषकतिलकादि, उत्पाते भवम् औत्पातिकम् उल्कापात-दिग्दाह-निर्घात-भूमिकम्पादिकं तथा अष्टाङ्ग च निमित्तमधीत्य बहवे लोका: लोके अस्मिन् अतीतानि अनागतानि च वस्तूनि जानन्ति, न चैतत् शून्यवादिषु घटते । तस्मादप्रमाणकमेव तैरभिधीयत इति ।।९।। एवं व्याख्याते सति पर आह-अष्टाङ्गनिमित्तशास्त्राणां सवृत्तिपरिभाषाणां नैकश्लोकलक्षप्रमाणत्वात् तद्वेदिनामपि परस्परत: षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाहकेई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते विज्जभावं अणहिज्जमाणा, आहंसु विज्जापलिमोक्खमेव ।।१०।।
छान्दसत्वात् प्राकृतशैल्या वा लिङ्गव्यत्यय इति कानिचिद् निमित्तानि तथ्यानि सत्यानि भवन्ति, केषाञ्चित् तत् ज्ञानं विपर्यासं व्यत्ययम् एति तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य ते अक्रियावादिनो विद्यभावं विद्याम् अनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा विद्यायाया: श्रुतस्य परिमोक्षं परित्यागं विद्यापरिमोक्षम् आहुः । यदिवा क्रियाया
Page #134
--------------------------------------------------------------------------
________________
aaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् aadiadda१२९ अभावात् विद्ययैव-ज्ञानेनैव मोक्षमाहुरिति । क्वचित् चरमपदस्यैवं पाठ: ‘जाणामु लोगंसि वयंति मन्द' त्ति विद्यामनधीत्यैव वयं स्वयमेव लोकं लोके वा भावान् जानीमः । एवं मन्दा: जडा वदन्तिा न च निमित्तस्याऽतथ्यतेति वाच्यं सम्यगधीतस्य श्रुतस्याऽविसंवादित्वात् । दृश्यते च चन्द्रोपरागादीनां संवादितत्वमिति ।। यदपि षट्स्थानपतित्वमुद्धोष्यते तदपि पुरुषा:श्रितक्षयोपशमवशेन, न च प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचाराशङ्का कर्तुं युज्यते । न हि सुविवेचितं कार्य कारणं व्यभिचरति । तदेवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचरतीति ।।१०।। साम्प्रतं क्रियावादाभिमतं दुदूषयिषुस्तन्मनमाविष्कुर्वन्नाहते एवमक्खंति समेच्च लोगं, तहा तहा समणा माहणा य ।. सयंकडं णण्णकडं च दुक्खं, आहंसु विज्जाचरणं पमोक्खं ||११||
क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण लोकं चराचरं समेत्य ज्ञात्वा एवं ते सावधारणम् आख्यान्ति प्रतिपादयन्ति यथा सर्वमस्त्येवेति न किञ्चिन्नास्तीति । कथमाख्यान्ति ? यथा यथा शुभाऽशुभा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति ते च श्रमणाः तीर्थका ब्राह्मणा: वा क्रियात एव सिद्धिमिच्छन्ति । किञ्च-यत्किञ्चित् संसारे दुःखं तथा सुखं तत् सर्वं स्वयम् एव कृतं नान्यकृतं न कालेश्वरादिना कृतम् । यदिवाऽन्यथा पातनिका-केनैतानि समवसरणानि प्रतिपादितानि, यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्क्याह-ते तीर्थकरा: एवम् अनन्तरोक्तया प्रक्रियया सम्यग् आख्यान्ति-लोकं केवलज्ञानेन समेत्य ज्ञात्वा । किम्भूतास्ते एवमाख्यान्तीत्याह-तथागता: तीर्थकरत्वं केवलज्ञानं च गताः प्राप्ताः, श्रमणा: साधवः, ब्राह्मणाः संयतासंयता: आख्यान्ति-यथा यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति-यत्किञ्चित् दुःखं च सुखं तत् स्वयम् आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति । तथा चोक्तम् “सव्वो पुव्वकयाणं कम्माणं पावई फलविवागं । अवराहेसु गुणेसु य निमित्तमित्तं परो होइ" ।।१।।
___ एतच्चाहुस्तीर्थकरगणधरादयः विद्या च ज्ञानं, चरणं च क्रिया, ते द्वेऽपि विद्येते कारणत्वेन यस्येति विद्याचरण: प्रमोक्षस्तं विद्याचरणं प्रमोक्षम् । अयं भाव:-न च ज्ञानरहितायाः क्रियायाः सकाशात् सिद्धिः, तदुपायपरिज्ञानाभावात्, अतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिरित्याहुस्तीर्थकरगणधरादय इति ।।११ ।। किञ्च- . ते चक्खु लोगंसिह णायगा तु, मग्गाऽणुसासंति हितं पयाणं । तहा तहा सासयमाहु लोए, जंसी पया माणव ! संपगाढा ||१२||
ते तीर्थकरादयः चक्षुरिव चक्षुः लोके यथावस्थितपदार्थोपदेशकत्वात् अत एव ते नाय
Page #135
--------------------------------------------------------------------------
________________
adddddddddase श्री सूत्रकृताङ्गसूत्रम् dada१३० कास्तु सद्गति प्रापकत्वादनर्थनिवारकत्वाच्च हितं मार्ग ज्ञानादिकं मोक्षमार्गम् अनुशासति प्रजानां जीवानाम् । किञ्च-यथा यथा द्रव्यार्थतया लोके यद्यद्-वस्तु शाश्वतं तत् तथा तथा आहुः, यदिवा अयं जीव लोको यथा यथा मिथ्यात्वादिभिः शाश्वतो भवति तथा तथैवाहः, यस्मिंश्च प्रजा: जन्तवः हे मानव ! नरामरनारकतिर्यग्भेदेन संप्रगाढा: व्यवस्थिता इति ।।१२।।लेशतो जन्तुभेदप्रदर्शनद्वारेण तत्प्रयत्नमाहजे रक्खसा वा जमलोइया वा, जे या सुरा गंधवा य काया । आगासगामी य पुढोसिया य, पुणो पुणो विपरियासुर्वेति ।।१३।।
ये च केचन राक्षसाः अनेन व्यन्तराः सर्वेऽपि गृह्यन्ते, तथा यमलौकिका: अम्बादयस्तदुपलक्षणात् सर्वे भवनपतयः, तथा ये च सुराः वैमानिका: चशब्दाज्ज्योतिष्काः, तथा ये गान्धर्वा : विद्याधरा व्यन्तरविशेषा वा, तथा कायाः पृथिवीकायादयः षडपि गृहयन्त इति । पुनरन्येन प्रकारेण सर्वान् संजिधृक्षुराह-ये केचन आकाशगामिन : सम्प्राप्ताऽऽकाशगमनलब्धयश्चतुर्विधदेवनिकायविद्याधरपक्षिवायवः, तथा ये पृथिव्याश्रिताः पृथिव्यप्तेजोवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियास्ते सर्वेऽपि स्वकृतकर्मभिः पुनः पुनः विपर्यासमुपयान्ति अरहट्टघटीन्यायेन परिभ्रमणमुपयान्तीति ।।१३।। किञ्चान्यत्जमाहु ओहं सलिलं अपारगं, जाणाहिणं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहतो वि लोयं अणुसंचरंति ।।१४।।
___ यं संसारसागरम् आहुः तीर्थकरगणधरादयः कथमाहुः ? सलिलौघम् चरमोदधेरिव अपारगं तं संसारं दुर्मोक्षं भवगहनं जानीहि अस्तिवादिनामपि किमुत कुमार्गपतितनास्तिकादीनाम् । यस्मिन् संसारे विषण्णाः अवसक्तास्ते कुमार्गपतिता: विषयाऽङ्गनादिभिः वशीकृताः द्विधाऽपि आकाशाश्रितं पृथिव्याश्रितं च स्थावरजङ्गमरूपं वा लोकम् अनुसंचरन्ति, यदिवा द्विधा लिङ्गमात्रप्रव्रज्ययाऽविरत्या च रागद्वेषाभ्यां वा लोकमनुसंचरन्तीति ।।१४।। किञ्चान्यत्ण कम्मुणा कम्म खवेति बाला, अकम्मुणा उ कम्म खति धीरा | मेधाविणो लोभमयावतीता, संतोसिणो णो पकरेंति पावं ||१५||
न कर्मणा सावद्यारम्भेण कर्म पापं क्षपयन्ति अज्ञानत्वात् बाला इव ते बाला:, अपि तु अकर्मणा आश्रवनिरोधेन तु अन्तश: शैलेश्यवस्थायां कर्म क्षपयन्ति धीराः वीरा: लोभमयात् परिग्रहात् अतीताः, अत एव सन्तोषिणः न कुर्वन्ति पापम् । क्वचित् पाठः 'लोभभयादतीता:' लोभश्च भयं च समाहारद्वन्द्वः लोभाद्वा भयं तस्मादतीता इति ।।१५।। लोभातीता: किंभूता भवन्तीत्याह
Page #136
--------------------------------------------------------------------------
________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् addakaddak१३१] ते तीत-उप्पण्ण-मणागताइं, लोगस्स जाणंति तहागताइं । णेतारो अण्णेसि अणण्णणेया, बुद्धा हु ते अंतकडा भवंति ||१६||
ते तीर्थकरादयो लोकस्य अतीतोत्पन्नानागतानि त्रिकालवर्तीनि सुखदुःखानि तथागतानि यथास्थितानि जानन्ति, तथा अन्येषां प्रत्युपदेशदानेन मोक्षं प्रति नेतारो भवन्ति, तथा स्वयम्बुद्धत्वात् तेषामन्यनेत्रभावात् ते अनन्यनेयाः, हिताहिप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः । ते च बुद्धाः स्वयंबुद्धास्तीर्थकरगणधरादयः कर्मण: अन्तकृतो भवन्तीति ।।१६।। यावदद्यापि ये कर्मणोऽन्तकरा न भवन्ति तान् दर्शयितुमाहतेणेव कुव्वंतिण कारवेंति, भूताभिसंकाए दुगुंछमाणा । सया जता विप्पणमंति धीरा, विण्णत्तिधी (वी) रा य भवंती एगे ।।१७।।
ते ज्ञानिनः भूताभिशङ्कया जीवोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः तत् स्वयं नैव कुर्वन्ति न अन्येन कारयन्ति, कुर्वन्तमप्यन्यं न समनुजानन्ति । एवमन्यान्यपि महाव्रतान्यायोज्यानि । तदेवं सदा यता: संयता: सन्त: संयमानुष्ठानं प्रति विप्रणमन्ति तत्परा भवन्ति धीराः । तथा एके केचन हेयोपादेयं विज्ञाय च तदेव निःशङ्कं सत्यं यज्जिनः प्रवेदितमि'त्येवं कृतनिश्चयाः कर्मविदारणे वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद् वीरा इति । पाठान्तरं वा' विण्णत्ति वीरा य भवन्ति एके' एके केचन गुरुकर्माणोऽल्पसत्त्वा विज्ञप्तिः=ज्ञानं, तेनैव वीरा भवन्ति, नानुष्ठानेनेति ।।१७।। कानि पुनस्तानि भूतानि यच्छङ्कयाऽऽरम्भं जुगुप्सन्तीत्येतदाशङ्कयाहडहरे य पाणे बुड्ढे य पाणे, ते आततो पासति सबलोए । उदेहती लोगमिणं महंतं, बुद्धऽप्पमत्तेसु परिवएज्जा ||१८||
ये केचन 'डहरे' लघवश्च कुन्थ्वादयः सूक्ष्मा वा ते सर्वेऽपि प्राणिनः, ये च वृद्धाः बादरशरीरिण प्राणिनः, तान् सर्वान् आत्मतया आत्मतुल्यान् पश्यति सर्वलोके । तथा लोकमिमं पर्यायाणामनन्तत्वात् महान्तमुत्प्रेक्षते । एवं लोकमशाश्वतमुत्प्रेक्षमाणः बुद्धः अप्रमत्तेषु यतिषु मध्ये अप्रमत्त एव परिव्रजेत् । यदिवा प्रमत्तेषु गृहस्थेषु अप्रमत्तः सन् परिव्रजेदिति ।।१८।। किञ्च
जे आततो परतो याविणच्चा, अलमप्पणो होति अलं परेसिं । तं जोतिभूतं च सयावसेज्जा, जे पादुकुज्जा अणुवीयि धम्मं ॥१९॥
.य:सर्वज्ञः स आत्मतः स्वतो यश्च गणधरादिकः स परतो जिनवरादेः सकाशात् लोकं ज्ञात्वा परेभ्य उपदिशति स आत्मानं परेषां च त्रातुम् अलं समर्थो भवति । तं सर्वज्ञ
Page #137
--------------------------------------------------------------------------
________________
Madadidacidicid श्री सूत्रकृताङ्गसूत्रम् ashliad१३२ गणधरादिकं च जीवादिपदार्थप्रकाशकत्वात् ज्योतिर्भूतं च सदा वसेत् सेवेत । क एवं कुर्युः ? इति दर्शयति-ये दुर्लभो वा श्रुतचारित्ररूपो धर्म इति अनुविचिन्त्य तमेव धर्म यथोक्तानुष्ठानत: प्रादुष्कुर्युः ते गुरुकुलवासं यावज्जीवमासेवन्त इति ।।१९।। किञ्चान्यत्अत्ताण जो जाणति जो य लोगं, आगइं च जो जाणइऽणागइं च । जो सासयं जाणइ असासयं च, जाती मरणं च जणोववातं ||२०|| अहो वि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणाति निज्जरंच, सो भासितुमरिहति किरियवादं ॥२१॥
यो हि आत्मानं परलोकयायिनं जानाति स एव आत्मज्ञः क्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया । यश्च लोकं चशब्दादलोकं च जानाति, यश्च जीवानाम् आगति तथा अनागतिं च कुत्र गतानां नागमनं भवति, तत्रानागति: सिद्धिः चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारित्रात्मकं यो जानाति, यश्च शाश्वतं नित्य सर्वं वस्तुजातं द्रव्यास्तिकनयाश्रयणात् जानाति अशाश्वतं वा पर्यायनयाश्रयणात, चकारान्नित्यानित्यं चोभयाकारंजानाति, अथवा निर्वाणं शाश्वतं, संसारमशाश्वतं यो जानाति, तथा जातिम् उत्पत्तिं नारकतिर्यङ्मनुष्यामरलक्षणां मरणं चाऽऽयुकक्षयलक्षणम्, तथा जायन्त इति जनास्तेषामुपपात:, स च नारकदेवयोर्भवति तं जनोपपातं च यो जानाति ।।२०।।
किञ्च-अधोऽपि नारकादौ सत्त्वानां विकुट्टनां पीडां च यो जानाति, तथा य आश्रवं संवरं च जानाति, तथा दुःखं सुखं च यो जानाति, तथा निर्जरां च यो जानाति स एव क्रियावादम्-अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च कर्मण: फलमित्येवरूपं वादं भाषितुमर्हति । अनेन च यो जीवादीन् नव सप्त वा पदार्थान् जानाति अभ्युगच्छति स एव परमार्थतः क्रियावादं प्रतिपादयितुमर्हति, क्रियावादेऽहंदुक्ततत्वपरिज्ञानस्य हेतुत्वादिति ।।२०-२१ ।। उपसंहरन्नाहसद्देसु रूवेसु असज्जमाणे, गंधेसु रसेसु अदुस्समाणे | णो जीवियं णो मरणाभिकंखी, आदाणगुत्ते वलयाविमुक्के ।।२२।। त्ति बेमि ।
असज्जमानः, शब्देषु रूपेषु च गन्धेषु रसेषु च अद्विषन् न जीवितम् असंयमजीवित नाभिकाङ्क्षत्, नापि परीषहोपरसगैरभिद्रुतो मरणाभिकाङ्क्षी स्यात्, यदिवा जीवितमरणयोरनभिलाषी संयममनुपालयेत् । तथा मोक्षार्थिनाऽऽदीयत इत्यादानं संयमस्तेन तस्मिन् वा सति गुप्तः आदानगुप्तः, यदिवा मिथ्यावादिनाऽऽदीयत इत्यादानम् अष्टप्रकारं कर्म
Page #138
--------------------------------------------------------------------------
________________
०.००००८ श्री सूत्रकृताङ्गसूत्रम्
००.०० १३३
तस्मिन्नाऽऽदातव्ये मनोवाक्कायैर्गुप्तः समितश्च, भाववलयं माया तया विमुक्तो वलयविमुक्त इति ब्रवीमि ।।२२।।
।। इति श्रीसमवसरणाध्ययनं समाप्तम् ।
11
॥ अथ त्रयोदशं याथातथ्याऽध्ययनम् ।
अनन्तरं समवसरणाख्यमध्ययनं समाप्तम्, तत्र परवादिमतानां निराकरणं कृतम्, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते- '
आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं । सतोय धम्मं असतो य सीलं, संतिं असंतिं करिस्सामि पाउं ॥१॥
यथातथाभावो याथातथ्यं = तत्त्वं परमार्थः, तच्च समग्दर्शनज्ञानचारित्रलक्षणं, तदेव दर्शयति ज्ञानप्रकारमिति प्रकारशब्द आद्यर्थे, तत्सम्यग्ज्ञानादिकं पुरुषस्य जीवस्य यद् जातम् उत्पन्नं तदहं प्रवेदयिष्यामि, यदिवा याथातथ्यं स्वभावं नाना प्रकारम् उच्चावचं वा पुरुषस्य प्रवेदयिष्यामि । फलं च पश्चार्द्धेन दर्शयति सतः सत्पुरुषस्य धर्मं शीलं शान्ति = निर्वृत्तिं च तथा असत: अशोभनपुरुषस्य अधर्मम् अशीलमशान्तिं च प्रादुष्करिष्यामि ।। १ ।। प्रतिज्ञातं दर्शयितुकाम आह
I
अहो य रातो य समुट्ठितेहिं, तहागतेहिं पडिलब्भ धम्मं । समाहिमाघातमझोसयंता, सत्थारमेव फरुसं वयंति ॥२॥
अहोरात्रं समुत्थितेभ्यस्तथागतेभ्य: श्रुतधरेभ्यः धर्मं प्रतिलभ्य अवाप्य तैराख्यातं समाधिम् मोक्षमार्गम् अजोषयन्तः असेवमाना: निह्नवा बोटिकाश्च तथा केचिद्विषीदन्तश्चाचार्यदिना वात्सल्यतया चोदिता: सन्तस्तं शास्तारम् आचार्यादिकम् एवं वक्ष्यमाणप्रकारेण परुषं वदन्ति ।। २ ।। किञ्च
विसोहियं ते अणुकाहयंते, जे आतभावेण वियागरेज्जा । अाणि होति बहूगुणाणं, जे णाणसंकाए मुसं वदेज्जा ॥३॥
ते निह्नवादय: ये विशोधितं मोक्षमार्गं अनुकथयन्त: आत्मभावेन स्वाभिप्रायेणाऽन्यथा व्यागृणीयुः व्याख्यानयेयुः गोष्ठामाहिलादिवत् एवम्भूतश्च अस्थानिक : अभाजनं भवति बहुगुणानाम् । क्वचित्पाठ ‘अट्ठाणिए होंति बहूणिवेस' अपात्रमसौ भवति ज्ञानप्रदिगुणानां बहुः अनर्थसंपादकत्वेनासदभिनिवेशो यस्य स बहुनिवेशः । पुनः किम्भूतास्ते ? ज्ञानशङ्कया सर्वज्ञप्रणीते श्रुतज्ञाने शङ्कया यदिवा पाण्डित्याभिमानेन मृषा वदेयु:, यथाहं ब्रवीमि तथैव युज्यते,
Page #139
--------------------------------------------------------------------------
________________
Baaaaadddd श्री सूत्रकृताङ्गसूत्रम् aaaaaaaa१३४ नान्यथेति ।।३।। किञ्चान्यत्जे यावि पुट्ठा पलिउंचयंति, आदाणमढें खलु वंचयंति । असाहुणो ते इह साधुमाणी, मायण्णि एसिंति अणंतघंतं ॥४॥
ये केचन तुच्छतया समुत्सेकिनोऽपरेण पुष्टाः कस्मादधीतं श्रुतं भवद्भिरिति ते तु स्वकीयमाचार्य निह्रवाना अपरं प्रसिद्ध प्रतिपादयन्ति यदिवा मयैवैतत् स्वत उत्प्रेक्षितमित्येवं ज्ञानगर्वात् पलिउंचयंति परिकुञ्चयन्ति निहृवते । यदिवालोचनादिके अवसरे पृष्टाः सन्तो मातृ-स्थानेनावर्णवादभयान्निहृवते । एवं माया कुर्वाणास्ते आदीयत इत्यादानं ज्ञानादिकं मोक्षो वा तम् अर्थम् आदानार्थं वञ्चयन्ति-भ्रंशयन्त्यात्मनः, खलुः अवधारणे वञ्चयन्त्येव । इह जगति साधुविचारे वा तेऽसाधवः आत्मोत्कर्षात् साधुमानिनः मायाविनस्ते एष्यन्ति यास्यन्ति अनन्तश: घातं विनाशं संसारं वा दोषद्वयदुष्टत्वात्तेषाम् एकं तावत्स्वयमसाधवो द्वितीयं साधुमानिन इति । तदेवमात्मोत्कर्षदोषारोधिलाभमप्युपहत्यानन्तसंसारिणो भवन्तीति ।।४।। साम्प्रतं क्रोधादिकषायदोषमुद्भावयितुमाहजे कोहणे होति जगढमासी, विओसियं जे उ उदीरएज्जा। अंधे व से दंडपहं गहाय, अविओसिए घासति पावकम्मी ||५||
यः कश्चित् प्रकृत्यैव क्रोधनो भवति तथा यो जगदर्थभाषी तद्यथा-ब्राह्मणं डोडमिति ब्रूयात् तथा काणं काणमित्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात्, यदिवा जगदर्थभाषी येन केनचित्प्रकारेणासदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थः । विओसियं विविधमवसितं पर्यवसितमुपशान्तं कलहं यः पुनरप्युदीरयेत्, साम्प्रतमेतद्विपाकं दर्शयति-यथा च कश्चित् अन्धः दण्डपथं गोदण्डमार्ग लघुमार्ग गृहीत्वा आश्रित्य तेन व्रजन् स धृष्यते कण्टकश्वापदादिभिः पीड्यते, एवमसावपि केवलं लिङ्गधार्यनुपशान्तक्रोध: कर्कशभाष्यधिकरणोद्दीपकः, तथा 'अविओसिए' अनुपशान्तद्वन्द्व-पापकर्मी संसारे पीड्यते ।। ५ ।। किञ्चजे विग्गहीए अन्नायभासी, न से समे होति अझंझपत्ते । ओवायकारी य हिरीमणे य, एगंतदिट्टी य अमाइरुवे ||६||
. यो विग्रहिक कलहप्रियः अन्याय्यभाषी यत्किञ्चनभाषी अस्थानभाषी गुर्वाधिक्षेपकरो वा नाऽसौ समो मध्यस्थो भवति, नापि अझंझाप्राप्त अकलहप्राप्त: अमायाप्राप्तो वा भवति । यदिवा अझंझाप्राप्तैः सम्यग्दृष्टिभिरसौ समस्तुल्यो न भवति यत: अतो नैवंविधेन भाव्यम्, अपि तु उपपातकारी आचार्यनिर्देशकारी यदिवा उपायकारी सूत्रोपदेशप्रवर्तकः ह्री: लज्जा संयमस्तत्र मनो यस्य स ह्रीमना: यदिवा अनाचारं कुर्वन् आचार्यादिभ्यो जिह्वेति लज्जतेऽसौ
Page #140
--------------------------------------------------------------------------
________________
adaadaaaad श्री सूत्रकृताङ्गसूत्रम् ॐaaaaad१३५ ह्रीमनाः, तथा एकान्तेन जीवादितत्त्वेषु दृष्टिर्यस्याऽसौ एकान्तदृष्टिः स्यात्, पाठान्तरं वा ‘एगंतसड्डि' एकान्तेन जिनोक्तमार्गे श्रद्धावान् भवेत्, अमायिनो रूपं यस्याऽसौ अमायिरूप: निष्कपटश्च स्यादिति ।।६।। पुनरपि सद्गुणोत्कीर्तनामाहसे पेसले सुहमे पुरिसजाते, जच्चण्णिए चेव सुउज्जुयारे। बहु पि अणुसासिते जे तहच्चा, समे हु से होति अझंझपत्ते |७||
यः क्वचित् प्रमादस्खलिते सत्याचार्यादिना बह्वपि अनुशास्यमानः तथैव अर्चा: लेश्या चित्तवृत्तिर्यस्य स तथार्च: स्थिरशुभलेश्याकः स एव पुरुषजात: परमार्थत: पुरुषार्थकारित्वात् क्षमाशीलत्वाच्च, तथाऽसावेव जात्यन्वितः सच्छीलान्वितत्वात्, स एव सुष्ठु अतिशयेन ऋजुः-संयमस्तत्करणशील: सुऋजुकारी यदिवा 'उज्जुचारे' ति यथोपदेशं य प्रवर्तते, न पुनराचार्यादिवचनं प्रतिकूलयति स ऋजुचारः अवक्रः, पेशलं मिष्टवाक्यत्वात्, सूक्ष्मः सूक्ष्मदर्शित्वात् सूक्ष्मभाषित्वाद्वा, समः मध्यस्थो निन्दायां पूजायां च न रुष्यति न तुष्यति, तथा अझंझाप्राप्तः पूर्ववत्, यदि वा अझंझाप्राप्तै: वीतरागैः समो भवतीति ।।७।। प्रायस्तपस्वीनां ज्ञानमदस्तपोमदश्च भवतीत्यतस्तमाश्रित्याहजे आवि अप्पं वसुमं ति मंता, संखाय वादं अपरिच्छ कुज्जा । तवेण वा हं सहिते त्ति मंता, अण्णं जणं पस्सति बिंबभूतं ।।८।।
यश्चापि कश्चिल्लघुप्रकृतिस्तुच्छतया आत्मानं वसुमन्तं संयमिनं, संख्या ज्ञानं तद्वन्तं चेति ज्ञानवन्तं चमत्त्वा नाऽपरः कश्चिन्मत्तुल्योऽस्तीति, तथा परमार्थम् अपरीक्ष्य आत्मोत्कर्षार्थं वादं कुर्यात् लालपेदित्यर्थः, तथा तपसा वाऽहम् एवात्र सहितो न मत्समः कोऽप्यस्तीति मत्त्वा अन्यं जनं यतिलोकं गृहस्थलोकं वा बिंबभूतं जलचन्द्रवत् तदर्थशून्यं लिङ्गमात्रधारकं पुरुषाकृतिमात्रं वा पश्यतीति ।।८।। एगंतकूडेण तु से पलेति, ण विज्जती मोणपदंसि गोते | जे माणणद्वेण विउक्कसेज्जा, वसुमण्णतरेण अबुज्झमाणे ॥९॥
एकान्तकूटेन अनन्तरोक्ताऽऽत्मोत्कर्षरूपभावकूटेनैकान्तत: असौ संसारचक्रवाले पर्येति बम्भ्रमीति, तु शब्दात् कामादिना मोहेन वा मोहितो बहुवेदने संसारे प्रलीयते । यश्चैवंभूतः असौ न विद्यते वर्तते मौनपदे संयमे सर्वज्ञप्रणीतमार्गे । सर्वज्ञमतमेव विशिनष्टि गां एतदेवाकिञ्चनत्वं सुरुक्षजीवत्वं वा त्रायते अर्थाऽविसंवादनत इति गोत्रं तस्मिन् गोत्रे जिनमते, यदिवा उच्चगोत्रे वर्तमानस्तदभिमानग्रहग्रस्तः, तथा यश्च माननार्थेन पूजासत्कारार्थं व्युत्कर्षयेत् मदं कुर्यात् सोऽपि मौनीन्द्रपदे न वर्तते वसुः संयमस्तमादाय य: अन्यतरेण मदस्थानेन परमार्थम् अबुध्यमानः
Page #141
--------------------------------------------------------------------------
________________
addaddedicateek श्री सूत्रकृताङ्गसूत्रम् addeddadadak[१३६] माद्यति नाऽसौ अशेषमदनिकन्दनं सर्वज्ञमतं जानातीति ।।९।। सर्वेषां मदस्थानानामुत्पत्तेरारभ्य जातिमदो बाह्यनिमित्तनिरपेक्षो यथा भवत्यतस्तमधिकृत्याह-- - - जे माहणे जातिए खत्तिए वा, तह उग्गपुत्ते तह लेच्छती वा । जे पवइते परदत्तभोई, गोत्ते ण जे थब्मति माणबद्धे ||१०||
यो हि जात्या ब्राह्मणः क्षत्रियो वा जायते, तद्भेदमेव दर्शयति-उग्रपुत्रः तथा लिच्छवी वा सन् संसाराऽपसदतामवगम्य यः प्रव्रजित: अत एव परदत्तभोजी सम्यक् संयमानुष्ठानविधायी अभिमानबद्ध मानास्पदे गोत्रे जातोऽपि यः न स्तभ्नाति न गर्वमुपयाति । भिक्षार्थं परगृहाण्यटन् कथं हास्यास्पदं गर्वं कुर्यात्, नैव कुर्यादित्यर्थः ।।१०।। न चाऽसौ मानः क्रियमाणो गुणायेति दर्शयितुमाह
ण तस्स जाती व कुलं व ताणं, णण्णत्थ विज्जा-चरणं सुचिण्णं । णिक्खम्म जे सेवतिऽगारिकम्म, ण से पारए होति विमोयणाए ||११||
___ न तस्य प्रव्रजितस्य जाति वा कुलं वा अन्यतरदपि मदस्थानं संसारे पर्यटतस्त्राणं भवति । विद्या च ज्ञानं च चरणं च = क्रिया च विद्याचरणं तच्च सुचीर्णं तस्माद् अन्यत्र मदस्थानेषु संसारोत्तरणाऽऽशा न विद्यते । निष्क्रम्य प्रव्रज्यां गृहीत्वाऽपि यदि पुन: सेवते अगारिकर्म जात्यादिकं मदस्थानं तदा नाऽसौ पारगो भवति विमोचनाय । स्वतोऽवलेपात् संसारसमुद्रे निमज्जन् परेषां कथं तारको भविष्यति ? कथमपि नैवेत्यर्थः ।।११।। पुनरप्यभिमानदोषाविर्भावनायाहणिक्किचणे भिक्खू सुलूहजीवी, जे गारवं होति सिलोयगामी । आजीवमेयं तु अबुज्झमाणे, पुणो पुणो विपरियासुवेति ।।१२।।
___ धनधान्यादित्यागात् निष्किञ्चनोऽपि भिक्षुः सुष्ठु रूक्षम् अन्तप्रान्तं वल्लचणकदि तेन जीवितुं शीलमस्य स सुरूक्षजीवी, एवम्भूतोऽपि यो गौरवं समाश्रित्य श्लोककामी आत्मश्लाघाभिलाषी भवति स परमार्थम् अबुध्यमानः एतदेवाकिञ्चनत्वं सुरूक्षजीवित्वं वा आजीविकांजीवनोपायं कुर्वन् पुन: पुन: संसारे विपर्यासमुपयाति संसारसमुद्रोत्तरणायाऽभ्युद्यतोऽपि तत्रैव निमज्जतीति ।।१२।। समाधिमसेवमानानामाचार्यपरिभाषिणां वाऽनन्तरोक्तदोषास्तस्मादमीभि: शिष्यगुणैर्भाव्यमित्याहजे भासवं भिक्खु सुसाधुवादी, पडिहाणवं होति विसारए य । आगाढपण्णे सुविमावितप्पा, अण्णं जणं पण्णसा परिमवेज्जा ||१३||
यो भाषागुणदोषज्ञतया भाषावान् भिक्षुः तथा शोभनं वदितुं शीलमस्येति सुसाधु
Page #142
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaa१३७ वादी तथा वादावसरे धर्मकथावसरे वा प्रतिभानवान् उत्पन्नप्रतिभ: विशारदश्च चशब्दात् श्रोत्रभिप्रायज्ञश्च, तथा आगाढप्रज्ञः तत्त्वनिष्ठत्वात्, सुभावितात्मा धर्मवासनया सुष्ठु भावितत्वात्, तदेवमेभिर्गुणैः सुसाधुर्भवति । यश्चैभिरेव निर्जराहेतुभूतैर्मदं कुर्वन् अन्यं जनं प्रज्ञया परिभवेत् तदाऽन्येषां का वार्ता ? ।।१३।। एतद्दोषमाहएवं ण से होति समाहिपत्ते, जे पण्णवं भिक्षु विउक्कसेज्जा । अहवा वि जे लाभमयावलित्ते, अण्णं जणं खिंसति बालपण्णे ||१४||
एवं स साधुः समाधि प्राप्तो न भवति यः प्रज्ञावान् भिक्षुः व्युत्कर्षेत् गर्वं कुर्यात् अथवा योऽपि लाभ-मदावलिप्तः सन् अन्यं जनं खिंसति निन्दति स बालप्रज्ञः मूर्खप्राय इति ।।१४।। अन्यदपि मदस्थानं न विधेयमित्याहपण्णामयं चेव तवोमयं च, णिण्णामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिते उत्तमपोग्गले से ।।१५।।
भिक्षुः प्रज्ञामदं तपोमदं गोत्रमदं च निर्नामयेत्-निश्चयेन अपनयेत् । आजीवन्ति अनेनत्याजीव: अर्थनिचयस्तं गच्छति आश्रवतीत्यसौ आजीवगः अर्थमदः तम् अर्थमदं च चतुर्थं मदस्थानम् आहुः चशद्धाच्छेषमदान् च नामयेत् तन्नामनाच्च असौ पण्डित: भवति तथासावेव समस्तमदापनोदक: उत्तमपुद्गलः उत्तमात्मा अथवा उत्तमोत्तमो भवति पुद्गलशब्द आत्मवाची प्रधानवाची चेति ।।१५।। उपसंहरन्नाहएताइं मदाइं विगिंच धीरे, ण ताणि सेवंति सुधीरधम्मा। ते सव्वगोत्तावगता महेसी, उच्चं अगोत्तं च गतिं वयंति ।।१६।।
एतानि मदानां स्थानानि वित्यजेत्, ये धीराः सुधीर: सुप्रतिष्ठितो धर्मो येषां ते सुधीरधर्माणः तानि मदस्थानानि न सेवन्ते । ते महर्मयः सर्वगोत्रापगता : अगोत्रजाम् उच्चां गतिं मोक्षाख्यां चशब्दात् कल्पातीतेषु पञ्च महाविमानेषु व्रजन्तीति ।।१६।। किञ्चभिक्खू मुयच्चा तह दिट्ठधम्मे, गामं च (व) णगरंच (व) अणुप्पविस्सा । से एसणं जाणमणेसणं च, अण्णस्स पाणस्स अणाणुगिद्धे ||१७||
___स भिक्षुः स्नानादिसंस्काराभावात् मृतेव अर्चा तनुः शरीरं यस्य स मृतार्च: यदिवा मोदनं मुत् तद्भूता शोभनाऽर्चा-लेश्या यस्य मुदर्च: प्रशस्तलेश्य:, दृष्टः अवगतो यथावस्थितो धर्मो येन स दृष्टधर्मा ग्रामं नगरं चानुप्रविश्य तत्र एषणाम् अनेषणां च जानन् दोषांश्च परिहरन् अथवा यो यस्याभिग्रहः सा तस्यैषणा अपरा त्वनेषणेत्येवम् एषणाऽनेषणाभिज्ञ: अन्नस्य पानस्य
Page #143
--------------------------------------------------------------------------
________________
adddddddddede श्री सूत्रकृताङ्गसूत्रम् ddddddddd१३८] वा अननुगृद्धः आहारादावमूर्च्छित: सम्यग् शिक्षां गृह्णीयादिति ।।१७।। किञ्चअरतिं रतिं च अभिभूय भिक्खू, बहूजणे वा तह एगचारी । एगंतमोणेण वियागरेज्जा, एगस्स जंतो गतिरागती य ।।१८।।
संयमे अरतिम् असंयमे च रतिम् अभिभूय अपनीय भिक्षुः तथा बहवः साधवो गच्छवासितया सहाया यस्य स बहुजन : जिनकल्पिकादिर्वा एकचारी केनचित् पृष्टोऽसौ एकान्तमौनेन संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे अन्यदा वा एकस्यैव जन्तोः गतिरागतिश्च भवति तत्र धर्मं विहायाऽपरः कोऽपि सहायो न भवतीति ब्रूयादिति ।।१८।। किञ्चान्यत्सयं समेच्चा अदुवा वि सोच्चा, भासेज्ज धम्मं हितदं पयाणं । जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ।।१९।।
स्वयं समेत्य=ज्ञात्वा संसारं तत्कारणं मिथ्यात्वादि तथा मोक्षं तत्कारणं च सम्यग्दर्शनादि समेत्य अथवा आचार्यादेः सकाशात् श्रुत्वा अन्येभ्य प्रजाभ्यः जन्तुभ्यो हितदं धर्म भाषेत । तथा ये गर्हिताः सनिदानप्रयोगा: धर्मकथाप्रबन्धा वा यदिवा सनिदाना वाक्प्रयोगा परदोषोद्घट्टनलक्षणास्तान् सुधीरधर्माः महर्षयः न सेवन्ते=न ब्रूवत इति ।।१९।। किञ्चा
न्यत्
केसिंचि तक्काइ अबुज्झ भावं, खुद्द पि गच्छेज्ज असद्दहाणे । आयुस्स कालातियारं वघातं, लद्धाणुमाणे य परेसु अढे ||२०||
केषाञ्चित् तीथिकानां तर्कया वितर्केण स्वमतिपर्यालोचनेन भावम् अभिप्रायम् अबुध्वा कश्चित् साधुः श्रावको वा किञ्चिद्धर्मदेशनाद्वारेण परविरोधकृद् वचो बूयाद्, स च तीर्थिकस्तद्वचः अश्रद्धान: पालकपुरोहितवत् क्षुद्रत्वमपि गच्छेत् विरूपमपि कुर्यात्, तथाहि स कुपितो वक्तुर्यदायुस्तस्य आयुषो व्याघातरूपं परिक्षेपस्वभावं कालातिचारं दीर्घस्थितिकमायुः संवर्तयेत्, यत एवं ततः कोऽयं ? कञ्च नत ? इत्यादि लब्धमनुमानं येन पराभिप्रायपरिज्ञाने स लब्धानुमानः परेषु परतीथिकादिषु प्रतिपाद्येषु यथायोगं यथार्हप्रतिपत्त्या अर्थान् सद्धर्मप्ररूपणादिकान् जीवादीन् वा स्वपरोपकाराय ब्रूयादिति ।।२०।। अपि चकम्मं च छंदं च विविंच धीरे, विणएज्ज उ सवतो आयभावं । रूवेहिं लुप्पंति भयावहेहिं, विज्जं गहाय तसथावरेहिं ।।२१।।
स धर्मकथिक: धीरः कर्म=अनुष्ठानं गुरुलघुकर्मतां वा छन्दनम् अभिप्रायं च विवे
Page #144
--------------------------------------------------------------------------
________________
Saamaaaaaad श्री सूत्रकृताङ्गसूत्रम् asso१३९ चयेत् जानीयात् ज्ञात्वा च धर्मदेशनां कुर्वन् श्रोतुः पापभावं, पाठान्तरं वा आत्मभावं मिथ्यात्वादिकं विषयगृहनुतां वा सर्वथा विनयेत् अपनयेत् तुशब्दात् विशिष्टगुणारोपणं च कुर्यात्, यत: प्राय: प्राणिनो भयावहै : रूपैः उपलक्षणात् शब्दादिविषयैश्चेहामुत्र च लुप्यन्ते विडम्बनाभाजो भवन्ति, ततः श्रोतुरभिप्रायं च गृहीत्वा सम्यगवगम्य विद्वान् त्रसस्थावरेभ्यो हितं धर्ममाविभावयेदिति ।।२१।। सर्वमेव तपश्चरणादिकं पूजासत्कारादिनिरपेक्षेण विधेयं विशेषतो धर्मदेशनामित्याहन पूयणं चेव सिलोयकामी, पियमप्पियं कस्सति णो कहेज्जा। सब्वे अणढे परिवज्जयंते, अणाउले या अकसाइ भिक्खू ।।२२।।
साधु देशनां विदधानो न पूजनम्-अभिकाङ्क्षत् न च श्लोककामी-नापि श्लोकं कीर्ति कामयेद्, तथा श्रोतुर्यत् प्रियं राजकथादिकं छलितकथादिकं च तथा अप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं च कस्यचित् न कथयेत्, पाठान्तरं वा निन्दादिकं न कुर्यादिति । अपि तु सम्यग्दर्शनादिकं धर्मं कथयेत् । उपसंहरन्नाह-सर्वान् अनर्थान् परिवर्जयेत् अनाकुल: अकषायी च भिक्षुर्भवेदिति ।।२२।। सर्वाध्ययनोपसंहारार्थमाहआहत्तहियं समुपेहमाणे सव्वेहिं पाणेहिं निहाय दंडं। नो जीवियं नो मरणाभिकंखी, परिवएज्जा वलयाविमुक्के ।।२३।।
यथातथ्यं सम्यग्दर्शनादिकं धर्म समुत्प्रेक्षमाण : अनुष्ठानतोऽभ्यस्यन् सर्वेषु प्राणिषु दण्ड्यन्ते प्राणिनो येन स दण्डः प्राणव्यपरोपनविधानं तं दण्डं निधाय परित्यज्य प्रांणात्ययेऽपि याथातथ्यं धर्मं नोल्लङ्घयेदिति । एतदेव दर्शयति-नजीवितम् असंयमजीवितं काक्षेत्, न च परीषहपराजितो मरणाभिकाङ्क्षी स्यात् । तदेवं मेधावी परिव्रजेत् वलयेन मायारूपेण मोहनीयकर्मणा वा विप्रमुक्त: वलयविप्रमुक्त इति ब्रवीमिति पूर्ववत् ।।२३।।
।। याथातथ्याऽध्ययनम् समाप्तम् ।।
।। अथ ग्रन्थनामकं चर्तुदशमध्ययनम् ।। अनन्तराध्ययने याथातथ्यमिति सम्यकचारित्रमभिहितं, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवतीति ग्रन्थत्यागश्चात्राध्ययने प्रतिपाद्यतेगंथं विहाय इह सिक्खमाणो, उट्ठाय सुबंभचेरं वसेज्जा । ओवायकारी विणयं सुसिक्खे, जे छेए विप्पमादं न कुज्जा ||१||
Page #145
--------------------------------------------------------------------------
________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
इह प्रवचने ग्रन्थं विहाय सम्यगुत्थानेन उत्थाय ग्रहणासेवनशिक्षां शिक्षमाण: सुब्रह्मचर्यं संयमं वा आवसेत् सम्यक्कुर्यात् । तथा आचार्यवचनस्य अवपातः निर्देशस्तत्कारी अवपातकारी सदाऽऽज्ञाविधायी विनयं सुशिक्षेत्= परिपालयेत् तथा यः छेक : निपुण: स संयमानुष्ठाने आचार्यवचने वा विविधं प्रमादं विप्रमादं न कुर्यादिति ।। १ ।। स्वच्छन्दतया गच्छान्निर्गतस्यापायान् दृष्टान्तद्वारेणाह
जहा दियापोतमपत्तजातं, सावासगा पविडं मण्णमाणं ।
तमचाइयं तरुणमपत्तजातं ढंकादि अव्वत्तगमं हरेज्जा ||२||
"
यथा अपत्रजातम् अपक्षोद्भवं द्विजपोतं पक्षिशिशुं स्वाऽऽवासकात् स्वनीडात् प्लवितुम् उत्पतितुं मन्यमानं ढंकादय: प्रतीताः तं तरुणमपत्रजातम् अव्यक्तगमं गमनाभावे नंष्टुम् असमर्थं हरेयुंः नीत्वा व्यापादयेयुरिति ।। २ ।। अथ दान्तिकमाह
एवं तु सेहं पि अधम्मं, निस्सारियं वुसिमं मण्णमाणा । दियस्स छावं व अपत्तजातं हरिंसु णं पावधम्मा अणेगे ||३||
"
१४०
एवं तु अपुष्टधर्माणं शैक्षमपि पापधर्माण: तीर्थिकाः स्वजना राजादयो वा अनेके गच्छात् निस्सारितम् अस्माकं वश्यमिति मन्यमाना: यदिवा वुसिमं चारित्रं निस्सारमिति मन्यमानास्तं शैक्षं द्विजस्य शावमिव पक्षिशिशुमिव अपत्रजातं हृतवन्त: त्रिकालगोचरत्वात् सूत्रस्येति ।।३ ।। तदेवमेकाकिनो बहवो दोषा अतः सदा गुरुपादमूले स्थातव्यमित्येतद्दर्शयितुमाहओसाणमिच्छे म समाहिं, अणोसिते णंतकरे ति णच्चा | ओभासमाणो दवियस्स वित्तं, ण णिक्कसे बहिता आसुपण्णे ||४||
अवसानं गुरोरन्तिके व्यवस्थानं तत् यावज्जीवं समाधिं सन्मार्गानुष्ठानरूपं इच्छेत् मनुजः साधुरित्यर्थः । गुरोरन्तिके अनुषित : = अव्यवस्थितः समाधे: कर्मणो यथाप्रतिज्ञातस्य वा नान्तकरो भवतीत्येवं ज्ञात्वा सदागुरुकुलवासे वसेत् । किं कुर्वन्नित्याह- द्रव्यस्य मुक्तिगमनयोग्यस्य साधोः सर्वज्ञस्य वा वृत्तम् अनुष्ठानम् अवभासयन् उदभासयन् अनुष्ठानतो धर्मकथिको वा कथनतोऽवभासयन् गुरुकुळवासं सदा वसेत न ततो बहिः निष्कसेत् निर्गच्छेत् आशुप्रज्ञः क्षिप्रप्रज्ञः, यतो गुरुकुलवासो बहूनां गुणानामाधार इति ।।४।। तदेवं गुरुकुलवासमावसन् स्थानशयनासनादावुपयुक्तो भवति तदुपयुक्तस्य च गुणमुद्धावयन्नाह
1
जे ठाणओ या सयणासणे या परक्कमे यावि सुसाधुजुते । समितीसु गुत्तीसु य आयपण्णे, वियागरेंते य पुढो वदेज्जा ॥५॥
Page #146
--------------------------------------------------------------------------
________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
१४१
यह स्थानतः स्थानमाश्रित्य शयनासने चकारात् गमनागमने तपश्चरणादि च पराक्रमतश्च सुसाधोः ये समाचारास्तैः समायुक्तः सुसाधुयुक्तः स सुसार्धुभवति । अपि च गुरुकुलवासे निवसन् समितिषु गुप्तिषु च आगता प्रज्ञा यस्य स आगतप्रज्ञः स्वतो भवति । परस्यापि च व्याकुर्वन् कथयन् पृथक् पृथग् गुरोः प्रसादात् परिज्ञातस्वरूपः समितिगुप्तीनां यथावस्थितपालनं तत्फलं च वदेत् प्रतिपादयेदिति । । ५ । । समितिसमितेन यद्विधेयं तदाहसद्दाणि सोच्चा अदु भेरवाणि, अणासवे तेसु परिव्वएज्जा । निद्दं च भिक्खू न पमाय कुज्जा, कहंकहं पी वितिगिच्छति
||६|
वेणुवीणादिकान् मधुरान् अथवा भैरवान् = भयावहान् कर्णकटुकान् शब्दान् श्रुत्वा तेषु अनाश्रवः रागद्वेषरहितो भूत्वा परिव्रजेत् । तथा निद्राप्रमादं चशब्दात् विकथाकषायादिकं च न कुर्यात् । तदेवं गुरुकुलवासात् भिक्षुः कथंकथमपि विचिकित्सां=देशसर्वगतां चित्तविप्लुतिं तीर्णो भवति, यदिवा पञ्चमहाव्रतभारं कथंकथमपि पारं नेष्यामीत्येवंभूतां विचिकित्सां गुरुप्रसादात् तीर्णो भवति, अन्येषामिपि तदपनयनसमर्थः स्यादिति ।। ६ ।। किञ्चान्यत्डहरेण वुड्ढेणऽणुसासिते ऊ, रातिणिएणावि समव्वएणं । सम्मं तगं थिरतो णाभिगच्छे, णिज्जंतए वा वि अपारए से ||७|
स गुर्वन्तिके निवसन् क्वचित् प्रमादस्खलिते डहरेण क्षुल्लकेन वृद्धेन रत्नाधिकेन समवयसा व अनुशासित: चोदितः सम्यक् स्थिरतः अपुनःकरणतया तकम् अनुशासनं न अभिगच्छेत्=न प्रतिपद्येत । एवं गुरुणा मोक्षं प्रति नीयमानोऽपि अनुशास्यमानोऽपि असौ तदकरणत: संसारसमुद्रस्य अपारग एव भवतीति ।।७।। साम्प्रतं स्वपक्षचोदनानन्तरं स्वपरचोदनामधिकृत्याह
।
विउट्ठितेणं समयाणुसिडे, डहरेण वुड्ढेण व चोतिते तु । अच्चुट्ठिताए घडदासिए वा, अगारिणं वा समयाणुसट्टे ॥८॥
विरुद्धोत्थानेनोत्थितो व्युत्थित: परतीर्थिको गृहस्थो वा मिथ्याद्रष्टिस्तेन व्युत्थितेन यदिवा संयमात् भ्रष्टो व्युत्थितस्तेन साधुः स्खलितः सन् समयानुशासित:, तद्यथा नैवंविधमनुष्ठानं स्वागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि तथा 'डहरेण' क्षुल्लकेन वृद्धेन वा तुशब्दात् समानवयसा वा चोदित: तथा अतीवाऽकार्यकरणं प्रति उत्थिता तया अत्युत्थितया यदिवा दासीत्वेन अत्यन्तोत्थिता दास्या अपि दासीति तामेव विशिनष्टि घटदास्या जलवाहिन्या चोदित: स्वहितं मन्यमानः सुसाधुर्न कुप्येत् । तथा अगारिणां गृहस्थानां य समय : आचारस्तेनानुशासितः समयानुशासित:, यथा गृहस्थानामपि एतन्न कर्तुं युज्यते यदारब्धं भवतेत्येवमात्मापेक्षया लघुनापि चोदितो ममैवैतच्छ्रेय इति मन्यमानो न मनागपि मनो दूषयेदिति ।। ८ ।। एतदेवाह
Page #147
--------------------------------------------------------------------------
________________
odiacaddicikcarad श्री सूत्रकृताङ्गसूत्रम् aaaaaaad१४२ ण तेसु कुज्झे ण य पलहेज्जा, ण यावि किंचि फरुसं वदेज्जा । तहा करिस्सं ति पडिस्सुणेज्जा, सेयं खु मेयं ण पमाद कुज्जा ||९||
न तेषु स्वपरपक्षचोदकेषु कुप्येत् न च तान् चोदकान् प्रव्यथयेत् दण्डादिप्रहारेण पीडयेत्, नापि तान् किञ्चित् परुषं वदेत् अपि तु तेभ्यो निवेदयेत्, यथा भवाननुशास्ति तथैव करिष्यामि इति प्रतिशृणुयात् स्वीकुर्यात् । तथा श्रेय: मे एतत् चोदनं नामेति मन्यमानो न पुनः प्रमादं कुर्यादिति ।।९ ।। अस्यार्थस्य दृष्टान्तं दर्शयितुमाहवणंसि मुढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं । तेणावि मज्झं इणमेव सेयं, जं मे बुहा सम्मऽणुसासयंति ।।१०||
__वने दिग्भ्रमेण मूढस्य यथाऽमूढाः प्रजानां हितं मार्गमनुशासति, अनुशास्तिश्चात्मनः श्रेयो मन्यते, एवं तेनापि असदनुष्ठायिना चोदितेन न कुपितव्यम्, अपितु यद् एतत् बुद्धाः समनुशासति तद् मम श्रेय इति मन्तव्यम् ।।१०।। पुनरप्यस्यार्थस्य पुष्ट्यर्थमाहअह तेण मूढेण अमूढगस्स, कायव्व पूया सविसेसजुत्ता । एतोवमं तत्थ उदाहु वीरे, अणुगम्म अत्थं उवणेति सम्मं ।।११।।
अथ यथा तेन मूढेन सन्मार्गावतारितेन तस्य अमूढस्य सन्मार्गोपदेष्टुः परमुपकारं मन्यमानेन सविशेषयुक्ता=विशिष्टा पूजा कर्तव्या, एवम् एतामुपमाम् उदाहुः प्राकृतशैल्या तिव्यत्ययात् उदाहृतवन्त: वीर: वर्धमानस्वामी । अनुगम्य=बुद्ध्वा अर्थं परमार्थं चोदनाकृतं परमोपकारं सम्यग् आत्मनि उपनयति, तद्यथा-अहमनेन मिथ्यात्ववनाज्जन्मजरामरणाद्युपद्रवादुपदेशदानेनोत्तारित इति गाथार्थः ।१११ ।। पुन: अपरो दृष्टान्तोऽभिधीयतेणेया जहा अंधकारंसि राओ, मग्गं ण जाणाइ अपस्समाणं । से सूरियस्स अब्भुग्गमेणं, मग्गं विजाणाति पगासियंसि ।।१२।।
यथा हि प्रावृषि अन्धकारायां रात्रौ स्वभ्यस्तप्रदेशोऽपि नेता-मार्गदेशको मार्गमपश्यन् न जानाति । स एव नायकः सूर्यस्य अभ्युद्गमेन प्रकाशिते दिक्चक्रे मार्ग विजानातीति ।।१२।। अथ दार्टान्तिकमाहएवं तु सेहे वि अपुठ्ठधम्मे, धम्मं न जाणाति अबुज्झमाणे। से कोविए जिणवयणेण पच्छा, सूरोदए पासति चक्खुणेव ।।१३।।
यथा हि असौ अन्धकारवृतायां रजन्यां अटव्यां मार्गमपश्यन्नपि सूर्योदयेन अपनीते तमसि चक्षुषा पश्यति, एवं तु शैक्षोऽपि अपुष्टधर्मा धर्मं न जानाति अबुद्ध्यमानः स एव तु
Page #148
--------------------------------------------------------------------------
________________
श्री सूत्रकृताङ्गसूत्रम्
१४३
पश्चात् गुरुकुलवासात् जिनवचनेन कोविदः निपुणः सन् यथावस्थितान् जीवादीन् पदार्थान् मूलोत्तरगुणांश्च पश्यति जानातीति ।। १३ ।। तत्र मूलगुणानधिकृत्याह
उड्डुं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा । सया जते तेसु परिव्वज्जा, मणप्पदोसं अविकंपमाणे ||१४||
ऊर्ध्वाऽस्तिर्यक्षु दिक्षु ये च त्रसा ये च स्थावराः प्राणिन: तेषु सदा यत: संयत:
=
: संयमाद् अविकम्पमान: अचलन् तदपकारे उपकारे वा मनागपि मनः प्रद्वेषम् अकुर्वन् परिव्रजेत् एवं शेषाण्यपि महाव्रतानि सम्यगनुपालयेदिति ।। १४ । । गुरोरन्तिके वसतो विनय
माह
कालेण पुच्छे समियं पयासु, आइक्खमाणो दवियस्स वित्तं । तं सोयकारी य पुढो पवेसे, संखा इमं केवलियं समाहिं ॥१५॥
गुरुकुलवासे निवसन् प्रजासु जीवविषये कालेन प्रष्टव्यकालेऽवसरं ज्ञात्वा समितम् आचार्यादिकं सम्यक् पृच्छेत् । स च तेन पृष्ट आचार्यादिः द्रव्यस्य = वीतरागस्य तीर्थंकरस्य वा वृत्तम् अनुष्ठानं संयमं ज्ञानं वा आचक्षाण: माननीयो भवति । कथमित्याह - तद् आचार्यादिना कथितं श्रोत्रे-कर्णे कर्तुं शीलमस्येति श्रोत्रकारी यथोपदेशकारी सन् पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत्=व्यवस्थापयेत्, व्यवस्थापनीयं दर्शयति-संख्याय सम्यग् ज्ञात्वा इमं वक्ष्यमाणं कैवलिकं केवलिना भाषितं समाधिं मोक्षमार्गं हृदये पृथग् व्यवस्थापयेदिति ।। १५ ।। किञ्चान्यत्
अस्सि सुठिच्चा तिविहेण तायी, एतेसु या संति निरोहमाहु ।
ते एवमक्खंति तिलोगदंसी, ण भुज्जमेतं ति पमायसंगं ||१६||
अस्मिन् गुरुकुलवासे निवसता यत् श्रुतं श्रुत्वा चाऽवधारितं तस्मिन् समाधिभूते मोक्षमार्गे सुष्ठु स्थित्वा त्रिविधेन मनोवाक्कायकर्मभिः कृतकारितानुमतिभिर्वा, त्रायी आत्मपररक्षकः साधुस्तस्य एतेषु च समिति गुप्त्यादिषु शान्तिः भवति, तथा निरोधम् अशेषकर्मक्षयरूपम् आहुः ते त्रिलोकदर्शिनः एवं केवलालोकेन दृष्ट्वा आचक्षते एतदेव समितिगुप्त्यादिकं न भूयः पुनः प्रमादसंङ्गं विधेयतया प्रतिपादितवन्त इति ।। १६ ।। किञ्च
णिसम्म से भिक्खु समीहमद्वं, पडिमाणवं होति विसारते या । आयाणमट्ठी वोदाण मोणं, उवेच्च सुद्धेण उवेति मोक्खं ||१७|
गुरुकुलवासे निवसन् स भिक्षु : समीहितार्थम् मोक्षार्थं निशम्य श्रुत्वा चावधार्य प्रतिभानवान् उत्पन्नप्रतिभो भवति परेषां च तत्प्रातिपादनाय विशारदोऽपि भवति, किञ्च - आदानार्थी
Page #149
--------------------------------------------------------------------------
________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
७ १४४
सम्यग्दर्शनाद्यर्थी व्यवदानतपसी तप: संयमौ उपेत्य आदाय शुद्धेन चाहारेणाऽऽत्मानं यापयन् यदिवा शुद्धेन मार्गेणाऽऽत्मानं वर्तयन्नुपैति मोक्षम् । 'न उवेइ मारं ' पाठान्तरमाश्रित्य नोपैति मारं संसारम् यदिवा प्राणत्यागलक्षणं मारं बहुशो न प्राप्नोति । तथाहि - अप्रतिपतितसम्यकत्व उत्कृष्टत: सप्ताष्टौ वा भवान् म्रियते नोर्ध्वमिति ।। १७ । । तदेवं गुरुकुलनिवासितया यत् कुर्वन्ति
1
तदाह
संखाय धम्मं च वियागरेंति, बुद्धा हु ते अंतकरा भवंति । ते पारगा दोह वि मोयणाए, संसोधितं पण्हमुदाहरति ||१८||
तेच बुद्धाः संख्यया सदबुद्धया धर्मं व्यागृणन्ति प्रतिपादयन्ति, एवं कर्मणाम् अन्तकरा भवन्ति ते द्वयोरपि स्वपरयोः कर्मपाशात् स्नेहादिनिगडाद्वा मोचनया संसारसमुद्रस्य पारगा भवन्ति । ते च बुद्धाः सम्यक् संशोधितं पूर्वापराविरुद्धं नयनिक्षेपैर्वा विवेचितं प्रश्नं शब्दम् उदाहरन्ति उत्तरं ददातीति ।। १८ ।। प्रश्नमुदाहरन् कश्चिदन्यथापि ब्रूयादतः तत्प्रतिषेधायाह
नो छाते नो वि य लूसएज्जा, माणं ण सेवेज्ज पगासणं च । ण याविपणे परिहास कुज्जा, ण याऽसिसावाद वियागरेज्जा ||१९||
स प्रश्नस्योदाहर्ता कुतश्चिन्निमित्तात् सूत्रार्थं परगुणान् च न छादयेत्, नापि सूत्रार्थं लूषयेद्=विडम्बयेत्, आत्मनः प्रतिभासंपन्नत्वेन मानं तथा बहुश्रुतत्वेन तपस्वित्वेन वा प्रकाशनं न सेवेत । नापि प्राज्ञः परस्य परिहासं केलिप्रियं न ब्रूयात् यदिवोपहासप्रायं न कुर्यात् । " न च आर्शीवादं बहुपुत्रो बहुधनो दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, अपि तु भाषासमितियुक्तेन भाष्यमिति ।। १९ । । किंनिमित्तमार्शीवादो न विधेय इत्याह
I
भूताभिसंका दुगुछमाणो णणिव्वहे मंतपदेण गोत्तं ।
ण किंचि मिच्छे मणुओ पयासु, असाहुधम्माणि ण संवदेज्जा ॥२०॥
·
[=नाप
भूताभिशङ्कया जीवोपमर्दशङ्कया सावद्यमार्शीवादं जुगुप्समानः न ब्रूयात् । तथा गास्त्रायते इति गोत्रं=वाक्संयमस्तं मन्त्रपदेन विद्याऽपमार्जनविधिना न निर्वाहयेत्-न निःसारं कुर्यात्, यदिवा गोत्रं=जन्तूनां जीवितं तद् मन्त्रपदेन = राजादिगुप्तभाषणपदेन न निर्वाहयेत् = नयेदिति । तथा प्रजासु=श्रोतृषु मनुजः साधुः व्याख्यानं धर्मकथां वा कुर्वन् न किञ्चित् पूजासत्कारादिकम् इच्छेत् । तथा असाधुधर्मान् कुत्सितधर्मान् छगवधदानतर्पणादिकान् न संवदेत्, यदिवा नासाधुधर्मान् संवादयेत्, अथवा परै: संवादनलक्षणमाऽऽत्मश्लाघां नेच्छेदिति ।।२०।। किञ्चान्यत्–
Page #150
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् addadaddddddd१४५] हासं पि णो संधये पावधम्मे, ओए तहियं फरुसं वियाणे । नो तुच्छए नो व विकत्थइज्जा, अणाइले या अकसाइ भिक्खू ।।२१।।
यथा स्वपरयोः हास्यम् उत्पद्यते तथा शब्दादिकं शरीरावयवं अन्यान् वा पापधर्मान् सावधव्यापारान् न सन्धयेद् न विदध्यात् तद्यथा-इदं छिन्द्धि भिन्छि । तथा कुप्रावचनिकानपि हास्यप्रायं नोपहसेत- तद्यथा-शोभनं भवदीयं व्रतं, तथाहि-'मृद्वी शय्या प्रातरुत्थाय पेया' इत्यादिकं परदोषोद्भावनं पापबन्धकमिति हास्येनापि न वक्तव्यम् । तथा रागद्वेषरहितत्वात् ओजः साधुः तथ्यं सत्यमपि परुषं कर्कशं ज्ञपरिज्ञया विजानीयात् प्रत्याख्यानपरिज्ञया च परिहरेत् । यदिवा परमार्थत: तथ्यं दुरनुष्ठेयत्वाच्च परुषं संयमं विजानीयात्=तदनुष्ठानत: सम्यगवगच्छेत् । तथा स्वत: किञ्चिदर्थविशेषं परिज्ञाय पूजासत्कारादिकं वाऽवाप्य न तुच्छयेद् नोन्मादं गच्छेत, न च विकत्थयेत्=नात्मानं श्लाघयेत, परं वा सम्यगनवबुध्यमानं नात्यन्तं कदर्थयेत् । तथा व्याख्यानावसरे धर्मकथावसरे वा अनाविल: लाभादिनिरपेक्ष: अनाकुलो वा भवेत् । तथा भिक्षुः सदा अकषायी भवेदिति ।।२१।। साम्प्रतं व्याख्यानविधिमाहसंकेज्ज याऽसंकितभाव भिक्खू, विभज्जवादं च वियागरेज्जा । भासादुगं धम्मसमुट्टितेहिं, वियागरेज्जा समया सुपण्णे ।।२२।।
भिक्षुः व्याख्यानं कुर्वन्नर्वाग्दर्शित्वाद् विषमार्थनिर्णय प्रति अशङ्कितभावोऽपि शङ्केत, यदिवा अशङ्कितभावम् अपि अर्थं न तथा कथयेत् यथा पर: शङ्केत, तथा विभज्यवादं पृथगथनिर्णयवादं स्याद्वादं वा व्यागृणीयात्, अथवा सम्यगर्थान् विभज्य=पृथक् कृत्वा तद्वादं वदेत्, तद्यथा-द्रव्यार्थतया नित्यवादं पर्यायार्थतस्त्वनित्यवादं वदेत्, तथा स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति, परद्रव्यादिभिस्तु न सन्ति इत्यादिकं विभज्यवादं वदेत् । विभज्यवादमपि भाषाद्विकेन ब्रूयादित्याह-भाषयो: आद्यचरमयोः सत्यासत्यामृषयोकिं भाषाद्विकं धर्मसमुत्थितैः उद्युक्तविहारिभिः सह विहरन् सुप्रज्ञः चक्रिरङ्कयोः समतया व्यागृणीयात् वदेदिति ।।२२।। किञ्चान्यत्अणुगच्छमाणे वितहं भिजाणे, तहा तहा साहु अकक्कसेणं । ण कत्थती भास विहिंसएज्जा, निरुद्धगं वा वि न दीहएज्जा ||२३||
___ तस्यैवं भाषाद्वयेन कथयत: कश्चित् मेधावितया अनुगच्छन् सम्यगवबुध्यते, अपरस्तु मन्दमेधावितया वितथम् अन्यथैव विजानीयात्, तं च सम्यगनवबुध्यमानं साधुन निर्भर्त्सयेत्, किन्तु यथा यथाऽसौ बुध्यते तथा तथा अकर्कशेन वचनेन बोधयेत् नानादरेण कथयन् मनः पीडामुत्यादयेत् तथा क्वचित् प्रश्नयतो दोषदुष्टामपि भाषाम् आश्रित्य प्रश्नयितारं न विहिंस्यात् न तिरस्कुर्यात् । तथा निरुद्धम् अर्थस्तोकं स्तोककालीनं वा व्याख्यानं दीर्घवाक्यैः महता शब्देन
Page #151
--------------------------------------------------------------------------
________________
aaddakadad श्री सूत्रकृताङ्गसूत्रम् aaaaaaa१४६ यदिवा व्याकरणतर्कप्रवेशेन प्रसक्त्यनुप्रसक्त्या न दीर्घयेदिति ।।२३।। अपि चसमालवेज्जा पडिपुण्णभासी, निसामिया समिया अट्ठदंसी । आणाए सुद्धं वयणं मिउंजे, मिसंधए पावविवेग मिक्खू ॥२४॥
___ यत्पुनरतिगहनार्थत्वाद् अल्पाक्षरैर्नावबुध्यते तत् सम्यग् समन्तात् पर्यायशब्दोच्चारणतो भावार्थकथनाच्चालपेत् भाषेत समालपेत् । तथा क्वचित्श्रोतृविशेषमाश्रित्य हेतुयुक्त्यादिभिः प्रतिपूर्णभाषी स्यात् । तथाऽऽचार्यादेः सकाशादर्थं श्रुत्वा निशम्य अवगम्य च सम्यगर्थं प्रतिपाद्यं द्रष्टुं शीलमस्य स सम्यगदर्थदर्शी सन् आज्ञया आगमानुसारेण शुद्धं वचनम् अभियुञ्जीत अभिवदेत् । एवमभिवदन भिक्षः पापविवेकं केवलनिर्जरां काङ्क्षमाणः निर्दोषवचनम् अभिसन्धयेदिति ।।२४।। पुनरपि भाषाविधिमाहअहाबुइयाइं सुसिक्खएज्जा, जएज्ज या णातिवेलं वदेज्जा । से दिट्टिमं दिट्टिण लूसएज्जा, से जाणति भासिउं तं समाहिं ॥२५॥
'अहाबुइयाई' यथोक्तानि तीर्थंकरादिभि: तानि सदा सुशिक्षेत आसेवनतोऽपि शिक्षेत, ततश्च देशनायां यतेत् । तथा-देशनां कुर्वन् कर्तव्यकालस्याध्ययनकालस्य वा वेलामतिक्रम्य नातिवेलं वदेत् । तथा यथाकालवादी यथाकालचारी च स भिक्षुः दृष्टिमान् स्वपरदर्शनज्ञो वदन् दृष्टिं सम्यग्दर्शनं न लूषयेत न दूषयेत्, अपितु यथा श्रोतुः सम्यकत्वं स्थिरीभवति तथा वदेत्, न पुनः शङ्कोत्पादनेन दूषयेत् । एवम् असौ तं समाधि सम्यग्दर्शनादिकं सम्यक्तत्त्वव्यवस्थाऽऽख्यं वा भाषितुं जानातीति ।।२५।। किञ्चान्यत्अलूसए णो पच्छण्णभासी, णो सुत्तमत्थं च करेज्ज ताई। सत्थारभत्ती अणुवीति वायं, सुयं च सम्म पडिवातएज्जा ||२६||
सर्वज्ञागमं कथयन् अपसिद्धान्तेन न लूषयतीति अलूषकः स्यात्, तथा सिद्धान्तार्थं प्रच्छन्नभाषणेन न गोपयतीति न प्रछन्नभाषी भवेत, प्रच्छन्नं वाऽर्थमपरिणताय न भाषेत । तथा न च सूत्रम् अन्यत् स्वमतिकल्पनात: त्रायी कुर्यात्, यदिवा सूत्रं तदर्थं वाऽन्यथा न विदधीत शास्तृभक्त्या उत्सूत्रभयाद् अनुविचिन्त्य वादं वदेत् । तथा यत् श्रुतम् आचार्यादेः सकाशात् तत्तथैव सम्यक् प्रतिपादयेदिति ।।२६।। उपसंहारार्थमाहसे सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवक्के कुसले वियत्ते, से अरिहति भासिउं तं समाहिं ।।२७|| त्ति बेमि ।
Page #152
--------------------------------------------------------------------------
________________
ॐdaisaddddd श्री सूत्रकृताङ्गसूत्रम् asaa१४७
अध्ययनोक्तगुणः स भिक्षुः यथावस्थितप्ररूपणात: शुद्धं सूत्रमस्यासौ शुद्धसूत्रः तथा तपश्चरणं यद्यस्य सूत्रस्य तद्विद्यते यस्यासौ उपधानवान् तथा धर्मं च यः सम्यक् वेत्ति विन्दते वा लभते तेन तत्र तत्र-आगमग्राह्यहेतुग्राह्ययोः स्वसमयसिद्धार्थपरसमयसिद्धार्थयो: उत्सर्गापवादयोर्वा यः अर्थस्ताभ्यामेव यथास्वं सोऽर्थः प्रतिपादयितव्यः, एवंगुणसंपन्नश्च आदेयवाक्यो भवति, तथा य आगमप्रतिपादने कुशलः सदनुष्ठाने च व्यक्तः परिस्फुटो नासमीक्ष्यकारी, सोऽर्हति तं समाधि सर्वज्ञोक्तं ज्ञानादिकं वा भाषितुं नापर: कश्चिदिति ब्रवीमि पूर्ववत् ।।२७।।
।। समाप्तं चर्तुदशं ग्रन्थाध्ययनम् ।।
।। अथ यदतीतनामकं पञ्चदशमध्ययनम् ।।
इहानन्तराध्ययने सबाह्याभ्यन्तरग्रन्थस्य परित्यागो विधेय इत्यभिहितम् । ग्रन्थपरित्यागाच्चायतचरित्रो भवति साधुः । ततो यादृगसौ यथा च संपूर्णामायतचारित्रतां-प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यतेजमतीतं पडुप्पण्णं, आगमिस्सं च णायगो । सवं मण्णति तं ताती, सणावरणंतए ||१||
यदतीतं प्रत्युत्पन्नम् आगमिष्यच्च द्रव्यजातं तद् असौ नायक: प्रणेता यथावस्थितस्वरूपनिरुपणात् त्रायी दर्शनावरणान्तक: उपलक्षणात् ज्ञानावरणाद्यन्तकः सर्वं द्रव्यपर्यायाभ्यां मन्यते जानाति केवलालोकेनेति ।।१।। स च ईदृग्भवतिअंतए वितिगिंछाए, से जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होति तहिं तहिं ।।२।।
विचिकित्सायाः चित्तविप्लुतेः संशयज्ञानस्य वा अन्तकः तदावरणक्षयात् सः अनीदृशम् अनन्यसदृशं जानाति । अपि च-अनीदृशस्य उत्पादव्ययध्रौव्ययुक्तस्य सत: स्याद्वादस्य वा आख्याता असौ तत्र तत्र जैनेतरदर्शने न भवति, तेषां द्रव्यपर्याययोरनभ्युपगमादिति ।।२ ।। अर्हतश्च यथा सर्वज्ञत्वं भवति तथा दर्शयितुमाहतहिं तहिं सुयक्खायं, से य सच्चे सुआहिए । सदा सच्चेण संपण्णे, मेत्तिं भूतेहिं कप्पते ||३||
___ तत्र तत्र यद्यद् भगवता जीवादिकं पदार्थजातमुपन्यस्तं तत्तत् स्वाख्यातं सुष्ठु प्रतिपादितं भवति, अविरोधिवचनात् युक्तिभिर्युक्तत्वाच्च स च आख्याता सद्भयो हितत्वात् सत्यः, सदा सत्येन ऋतेन संयमेन वा संपन्नः भूतेषु जगज्जीवेषु मैत्री कल्पेत तद्रक्षणपरतया कुर्या
Page #153
--------------------------------------------------------------------------
________________
श्री सूत्रकृताङ्गसूत्रम् १४८
दिति ।।३।। यथा भूतेषु मैत्री संपूर्णा भवति तथा दर्शयति-
भूतेहिं न विरुज्झेज्जा, एस धम्मे सीमओ । सीमं जगं परिण्णाय, अस्सि जीवितभावणा ||४||
भूतैः स्थावरत्रसैः न विरुध्येत जीवहिंसां न कुर्यादित्यर्थः, एष धर्मः जीवाऽविरोधकारित्वात् वुसीमओ तीर्थकृतः सत्संयमवतो वा । 'वुसिमं' तीर्थकृत् सत्संयमवान् वा जगत् चराचरं परिज्ञाय अस्मिन् जगति मौनीन्द्रे वा धर्मे भावना: पञ्चविंशतिरूपा द्वादशप्रकाराश्च या अभिमतास्ता जीवितभावना जीवसमाधानकारिणी : सत्संयमाङ्गतया मोक्षकारिणीर्भावयेदिति ।।४।। सद्भावनाभावितस्य यद्भवति तद्दर्शयितुमाह
भावणाजोगसुद्धप्पा, जले णावा व आहिया । नावा व तीरसंपत्ता, सव्वदुक्खा तिउट्टति ॥५॥
भावनाभियोगिः सम्य:गप्रणिधानलक्षणो भावनायोगस्तेन शुद्ध आत्मा = अन्तरात्मा यस्य स भावनायोगशुद्धात्मा जले अनिमज्जनत्वेन नौरिव आख्यातः । नौरिव यथाऽसौ निर्यामकाऽधिष्ठिताऽनुकूलवातेरिता तीरसंपन्ना तथाऽसावपि आयतचारित्रवान् तीर्थकृत् सत्संयमी वा समस्तद्वन्द्वापगमात् सर्वदुःखेभ्यः जन्मजरामरणरोगशोकवियोगलक्षणेभ्यः त्रुट्यति अपगच्छति मोक्षाख्यं च तीरमवाप्नोतीति ।। ५ ।। अपि च
तिउवृति तु मेधावी जाणं लोगंसि पावगं । तिउट्टंति पावकम्माणि, नवं कम्ममकुव्वओ ||६॥
"
I
मेधावी अशुभयोगेभ्य: सर्वबन्धनेभ्यो वा त्रुट्यति मुच्यते लोके पापकं कर्म ज्ञप्रत्याख्यानपरिज्ञया जानन्=परिहरन् । नवं च कर्म अकुर्वतः पूर्वसंचितानि पापकर्माणि त्रुट्यन्ति अशेषकर्मक्षयो मोक्षो भवतीति ।। ६ ।। केषाञ्चित् स्वतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवतीतीदमाशङ्क्याह
अकुव्वतो णवं नत्थि, कम्मं नाम विजाणइ ।
विन्नाय से महावीरे, जेण जाति ण मिज्जती ||७||
कामपि क्रियाम् अकुर्वतो नवं कर्म नास्ति बन्धाऽभावात् कर्माभावे च कुत: संसाराभिगमनम् ? स कर्म नामतो भेदतश्च विजानाति, संभावनायां वा नामशब्दः स महावीर : कर्मस्वरूपं विज्ञाय तत् करोति येन संसारे पुनर्न जायते न म्रियते, नरकादिकया जात्या न मीयते न व्यपदिश्यते वा ।। ७ ।। किं पुनः कारणमसौ जात्यादिना न मीयते इत्याशङ्कयाह
Page #154
--------------------------------------------------------------------------
________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaa१४९ न मिज्जति महावीरे, जस्स नत्थि पुरेकडं । वाऊ व जालमच्चेति, पिया लोगंसि इथिओ ||८||
__यस्य नास्ति पुराकृतं कर्म स महावीरः जात्यादिना न मीयते 'भिज्जाई' पाठान्तरमाश्रित्याऽसौ जन्मादिना न भ्रियते पूर्यते । वायुरिव यथा ज्वालामत्येति तथाऽसौ लोके प्रियाः स्त्रियः अतिक्रामति=न ताभिर्जीयते तत्स्वरूपावगमात् तज्जन्यविपाकदर्शनाच्च ।।८।। अधुना स्त्रीप्रसङ्गाश्रवनिरोधफलमाविर्भावयन्नाहइथिओ जे ण सेवंति, आदिमोक्खा हु ते जणा। ते जणा बंधणुम्मुक्का, नावकंखंति जीवितं ।।९।।
ये महासत्त्वाः स्त्रियः न सेवन्ते ते जनाः इतरजनातीता: साधव आदौ प्रथमं मोक्षो येषां ते आदिमोक्षाः एवावगन्तव्याः ।आदिशब्दस्य प्रधानवाचित्वात् प्रधानभूतमोक्षाख्यपुरुषार्थोद्यता: तेजना: स्त्रीपाशलक्षणात् बन्धनादुन्मुक्ता बन्धनोन्मुक्ताः सन्तो नावकाङ्क्षन्ति जीवितम् असंयमजीवितं दीर्घजीवितं वा ।।९।। किञ्चान्यत्जीवितं पिडतो किच्चा, अंतं पावंति कम्मुणा । कम्मुणा संमुहीभूया, जे मग्गमणुसासति ||१०||
ये जीवितम् असंयमजीवितं पृष्ठतः कृत्वा कर्मणाम् अन्तं पर्यवसानं प्राप्नुवन्ति, यदिवा कर्मणा सदनुष्ठानेन संसारस्यान्तमाप्नुवन्ति ते कर्मणा विशिष्टानुष्ठानेन मोक्षस्य संमुखीभूताः तस्य मार्गमनुशासन्ति ।।१०।। अनुशासनप्रकारमधिकृत्याहअणुसासणं पुढो पाणे, वसुमं पूयणासते । अणासते जते दंते, दढे आरयमेहुणे ।।११।।
धर्मदेशनया अनुशासनं सन्मार्गेऽवतरणं प्राणिषु स्वस्वाशयवशात् पृथक् पृथग्भवति । किम्भूतोऽनुशासक इत्याह-वसुमान् संयमवान् पूजनाऽस्वादक: अथवा पूजाऽनाशय: यदिवा द्रव्यत: समवसरणादि काया: पूजाया आस्वादको भावतश्चानास्वादक : तद्गतगााभावात्, सत्यप्युपभोगे यतः संयत एव यतः असौ दान्तः, एतद्गुणोऽपि कथमित्याह- दृढ : संयमे, आरतम् . उपरतं मैथुनं यस्य स आरतमैथुन: अपगतेच्छामदनकामः सत्संयमवानेवासाविति ।।११।। अथ किमित्यसावुपरतमैथुन इत्याशङ्कयाह- - - . . णीवारे य न लीएज्जा, छिन्नसोते अणाइले | अणाइले सया दंते, संधि पत्ते अणेलिसं ॥१२।।
Page #155
--------------------------------------------------------------------------
________________
addadiaddaide श्री सूत्रकृताङ्गसूत्रम् ddcdadidadibas१५०
नीवारः सूकरादीनां पशूनां वध्यस्थानप्रवेशनभूतो भक्ष्यविशेषस्तत्तुल्ये मैथुने स न लीयेत=न स्त्रीप्रसङ्गं कुर्यात्, किंभूतः सन् छिन्नस्रोता: निरुद्धाश्रवद्वारः अनाविल: अकलुषोऽनाकूलो वा विषयाऽप्रवृत्तेः स्वस्थचेताः सदा दान्तः अनीदृशम् अनन्यतुल्यं सन्धि कर्मविवरलक्षणमवसरं प्राप्तो भवतीति ।।१२।। किञ्चअणेलिसस्स खेतण्णे, ण विरुज्झेज्ज केणइ । मणसा वयसा चेव, कायसा चेव चक्खुमं ।।१३।।
अनीदृशस्य संयमस्य मौनीन्द्रधर्मस्य वा खेदज्ञः निपुण: केनचित् सार्धं मनसा वचसा कायेन च योगत्रिककरणत्रिकेण न विरुध्येत । एवंभूत एव परमार्थत: चक्षुष्मान् भवतीति ।।१३।। अपि चसेहुचक्खू मणुस्साणं, जे कंखाए तु अंतए । अंतेण खुरो वहती, चक्कं अंतेण लोति ।।१४॥
समनुष्याणां भव्यानां सदसत्पदार्थप्रकाशनात् चक्षुः नेत्रभूत: यश्च काडझायाः भोगेच्छायाः अन्तकः पर्यन्तवर्ती । अन्तवर्त्यपि विवक्षितम) साधयतीति दृष्टान्तेनाह-अन्तेन क्षुरः नापितोपकरणं वहति अर्थक्रियाकारी भवति तथा चक्रं रथाङ्गमपि अन्तेन लोट्ठति मार्गे प्रवर्तते एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति ।।१४।। अमुमेवार्थामाविर्भावयन्नाहअंताणि धीरा सेवंति, तेण अंतकरा इहं । इह माणुस्सए ठाणे, धम्ममाराहिउं णरा ||१५||
न केवलं तीर्थकरादयः अन्येऽपि नराः इह मनुष्ये स्थाने धर्ममाराध्य अन्तानि क्षेत्रत उद्यानादि द्रव्यतोऽन्तप्रान्ताहारादीनि धीराः सेवन्ते तेन इह लोके आर्यक्षेत्रे संसारस्य अन्तकरा भवन्ति निष्ठितार्था भवन्तीत्यर्थः ।।१५।। इदमेवाहनिहितट्ठा व देवा वा, उत्तरीए इमं सुतं । सुतं च मेतमेगेसि, अमणुस्सेसु णो तहा ||१६||
धर्ममाराध्य नरा निष्ठितार्था वा भवन्ति देवा वा प्रचुरकर्मतया भवन्ति, इदं उत्तरीये लोकोत्तरीये प्रवचने श्रुतम् । मया एतच्च तीर्थकरात् श्रुतम् इति गणधरः स्वशिष्याणामेकेषां कथयति यथा मनुष्येषु सिद्धिर्भवति न तथाऽमनुष्येषु गतित्रयवर्तिषु सच्चारित्रपरिणामाभावादिति ।।१६।। इदमेव स्वनामग्राहमाह
Page #156
--------------------------------------------------------------------------
________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ladak१५१] अंतं करेंति दुक्खाणं, इहमेगेसि आहितं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ।।१७।।
यथा इहलोके एकेषां वादिनाम् आख्यातम् अमनुष्या अशेषानां दुःखानामन्तं कुर्वन्ति इति न तथार्हतां, अमनुष्याणं सामग्यभावात् । इदमन्यत् पुनरेकेषां स्वशिष्यानां गणधरादिभिः आख्यातं, तद्यथा-दुर्लभोऽयं समुच्छ्रयः मनुष्यशरीरादिलक्षणो मोक्षकनिबन्धनं युगसमिलादिन्यायात् ।।१७।। अपि चइतो विद्धंसमाणस्स, पुणो संबोहि दुल्लमा । दुल्लमा उ तहच्चा णं, जे धम्मट्ठ वियागरे ॥१८॥
इत: मनुष्यभवात् सद्धर्मतो वा विध्वंसमानस्य अकृतपुण्यस्य पुन: बोधिः धर्माऽवाप्ति: दुर्लभा । दुर्लभा तथा बोधिप्राप्तियोग्या अर्चा लेश्या यदिवाऽर्चा मनुष्यशरीरम्, जन्तूनां ये धर्म एवार्थ: धर्मार्थस्तं धर्मार्थं व्याकुर्वन्ति तीर्थंकरगणधरादयः, ये धर्मप्रतिपत्तियोग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति ।।१८।। किञ्चान्यत्जे धम्मं सुद्धमक्खंति, पडिपुण्णमणेलिसं । अणेलिसस्स जं ठाणं, तस्स जम्मकहा कुतो ।।१९।।
ये वीतरागाः सर्वज्ञास्ते प्रतिपूर्णमनीदृशं शुद्ध धर्ममाख्यान्ति स्वत: समाचरन्ति च । अनीदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं तदवाप्तस्य तस्य जन्मकथा कुतः ? कर्मबीजाभावात् नैवेत्यर्थः ।।१९।। किञ्चान्यत्कुतो कताइ मेधावी, उप्पज्जंति तहागता । तहागता य अपडिण्णा, चक्खू लोगस्सऽणुत्तरा ||२०||
__कर्मबीजाभावात् कुतः कदाचिदपि मेधाविनः तथा अपुनरावृत्त्या गताः पुनरस्मिन् संसारे उत्पद्यन्ते ? न कथञ्चित् कदाचिदित्यर्थः । तथा तथागता: तीर्थकरगणधरादयः अप्रतिज्ञाः निराशंसा सत्त्वहितकरणोद्यता अनुत्तरज्ञानत्वात् अनुत्तरं प्राकृतत्वाल्लिङ्गव्यत्ययः लोकस्य चक्षुः नेत्रभूता वर्तन्त इत्यर्थः ।।२०।। किञ्चान्यत्अणुत्तरे य ठाणे से, कासवेण पवेदिते । जं किच्चा णिन्बुडा एगे, निर्ल्ड पावंति पंडिया ।।२१।। . अनुत्तरं च तत् संयमाख्यं स्थानं काश्यपेन श्रीवर्धमानस्वामिना प्रवेदितं यत् कृत्वा
Page #157
--------------------------------------------------------------------------
________________
Medaladkareducedeiodie श्री सूत्रकृताङ्गसूत्रम् deddaddedia१५२] संयममनुपाल्य एके निर्वृत्ता: निर्वाणं प्राप्ताः सन्तः पण्डिताः संसारस्य निष्ठां पर्यवसानं प्राप्नुवन्तीति ।।२१।। अपि चपंडिए वीरियं लद्धं, निग्घायाय पवत्तगं । धुणे पुबकडं कम्म, नवं चावि न कुब्बति ।।२२।।
पण्डितः कर्मणां निर्घातनाय प्रवर्तकं वीर्यं लब्ध्वा पूर्वकृतं कर्म धूनीयात् अपनयेत् नवं च असौ न करोति आश्रवनिरोधादिति ।।२२।। किञ्चन कुब्बती महावीरे, अणुपुब्बकडं रयं । रयसा संमुहीभूते, कम्मं हेच्चाण जं मतं ॥२३॥
महावीरः कर्मविदारणसहिष्णुः सन् यदपरजन्तुभि: आनुपूर्येण मिथ्यात्वाऽविरत्यादिभिः कृतं आनुपूर्व्यकृतं रजः कर्म बध्यते तदसौ न करोति । अपि च-रजसा-कर्मणा सत्संयमानुष्ठानेन यन्मतम् अष्टप्रकारं कर्म तत्सर्वं हित्वा त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखीभूत : असाविति ।।२३।। अन्यच्चजं मतं सव्वसाहूणं, तं मयं सल्लकत्तणं । साहइत्ताण तं तिण्णा, देवा वा अभविंसु ते ॥२४॥
सर्वसाधूनां यन्मतं तत् संयमस्थानं शल्यकर्तनं कर्मकर्तनं वा मतम् । तत् सदनुष्ठानं साधयित्वा ते बह्वः साधवः संसारसमुद्रं तीर्णाः, अपरे च सर्वकर्मक्षयाभावात् देवाः अभूवन् भवन्ति भविष्यन्ति चेति ।।२४।। सर्वोपसंहारार्थमाहअभविंसु पुरा वीरा, आगमिस्सा वि सुब्बता । दुण्णिबोहस्स मगस्स, अंतं पादुकरा तिण्णा ||२५|| त्ति बेमि |
__ अभूवन पुरा वीराः वर्तमानकाले च भवन्ति तथा आगमिष्यति काले अपि भविष्यन्ति सुव्रताः ये दुर्निबोधस्य दुष्प्रापस्य मार्गस्य ज्ञानादे: अन्तं परमकाष्ठामवाप्य तस्यैव मार्गस्य प्रादुष्करा: प्रकाशकरणशीला: स्वयं चानुष्ठायिन: संसार, तीर्णा : तरन्ति तरिष्यन्तिसमुद्रं चेति ब्रवीमि पूर्ववत् ।।२५।।
।। पञ्चदशमध्ययनं यदतीतं नाम समाप्तम् ।।
Page #158
--------------------------------------------------------------------------
________________
aakaaskacid श्री सूत्रकृताङ्गसूत्रम्
१५३] ।। अथ षोडशनामकमध्ययनम् ।। इहानन्तरोक्तेषु पञ्चदशस्वध्ययनेषु येऽर्था अभिहिता विधिप्रतिषेधद्वारेण तान् तथैवाऽऽचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यतेअहाह भगवं-एवं से दंते दविए वोसट्टकाए ति वच्चे माहणे त्ति वा १ समणेत्ति वा २, भिक्खूत्ति वा ३, णिग्गंथेत्ति वा ४ । पडिआह-भंते ! कहं दंते दविए वोसट्ठकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिग्गंथेत्ति वा ? तं नो बूहि महामुणी ! इतिविरतसवपावकम्मेहिं पेज्ज-दोस-कलह-अब्भक्खाण-पेसुन्न-परपरिवाय- अरतिरति-मायामोस-मिच्छादंसणसल्ले विरए समिते सहिते सदा जते णो कुज्झे णो माणी माहणे ति वच्चे ।
अथाह भगवान्-एवमसौ दान्तः द्रव्यः संयमस्तद्वान् भव्य:मुक्तिगमनयोग्यत्वात्, व्युत्सृष्टकायः निष्प्रतिकर्मशरीरत्वात् माहनः इति वा, श्रमणः इति वा, भिक्षुः इति वा, निर्ग्रन्थः इति वा पदैः वाच्यः । एवं भगवतोक्ते सति शिष्यः प्रत्याह-भगवन् ! भदन्त ! भयान्त ! भवान्त ! इति वा योऽसौ दान्तो द्रव्यभूतो व्युत्सृष्टकाय: सन् ब्राह्मणः श्रमणो भिक्षुर्निर्ग्रन्थ इति कथं वाच्यः तद् हे महामुने ! न: अस्माकं ब्रूहि-कथय । भगवान् यथाक्रम माहनादीनां पदानां प्रवृत्तिनिमित्तमाह-इति एवं पूवोक्ताध्ययनार्थवृत्तिः सन् विरत: सर्वपापकर्मभ्यः, तथा प्रेम रागः, द्वेषः, कलहः अभ्याख्यानं, पैशुन्यं, परपरिवादः परनिन्दा, अरतिः, रतिः, मायामृषा, मिथ्यात्वदर्शनशल्यं ततो विरतः समित: ज्ञानादिभिहितेन वा सहितः, सदा यतः संयत: न क्रुध्येत नाऽपि मानी भवेत् इत्यादिगुणकलितः साधुर्माहन इति वाच्य इति ।।१।। अथ श्रमणशब्दस्य प्रवृत्तिनिमित्तमाह
एत्थ वि समणे अणिस्सिते अणिदाणे आदाणं च अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोभं च पेज्जं च दोसं च इच्चेवं जतो जतो आदाणातो अप्पणो पदोसहेतुं ततो तओ आदाणातो पुव्वं पडिविरते विरते पाणाइवायाओ, दंते दविए वोसढकाए समणे त्ति वच्चे ।
अत्रापि अनन्तरोक्ते विस्त्यादिके गुणसमूहे वर्तमानः श्रमणो वाच्यः, एतद्गुणयुक्तेनापि भाव्यमित्याह-अनिश्रित: अप्रतिबद्धः, अनिदान : निराकाङ्क्षो वर्तेत, तथाऽऽदीयतेऽष्टप्रकारं कर्म येन तद् आदानं, अतिपातं हिंसां, मृषावादं, बहिद्धं-मैथुनपरिग्रहौ, क्रोधं मानं मायां लोभं प्रेम द्वेषं च परिहरेदिति । एवं यतो यत आदानात् पूर्वोक्तलक्षणात् आत्मनः
Page #159
--------------------------------------------------------------------------
________________
adhaachaad श्री सूत्रकृताङ्गसूत्रम् addakaddap५४] प्रद्वेषहेतवः ततस्तत: प्राणातिपातादेः विरत: आदानात् पूर्वम् एवं प्रतिविरत: स्यात् । यश्चैवंभूतो दान्तः द्रव्यः=संयमी व्युत्सृष्टकायः स श्रमण इति वाच्य इति ।।२।। साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमाहएत्थ वि भिक्खू अणुन्नए नावणए णामए दंते दविए वोसटुकाए संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्टिते ठितप्या संखाए परदत्तभोई भिक्खु त्ति वच्चे ।
___अत्रापि पूर्वोक्तमाहनशब्दप्रवृत्तिहेतवो भिक्षुशब्दस्य प्रवृत्तिनिमित्तेऽवगन्तव्याः, अमी चान्ये, तद्यथा-अनुन्नत: मदरहितः, नावनत: अदीनमनाः, नामक: नम्रो विनयेन वाऽष्ट प्रकारं कर्म नामयति=अपनयतीत्यर्थः । तथा दान्तः द्रव्यः पूर्ववत् व्युत्सृष्टकायः संविधूय अपनीय विरूपरूपान् परीषहानुपसर्गाश्च, तथा अध्यात्मयोगेन शुद्धम् आदानं चारित्रं यस्य स अध्यात्मयोगशुद्धाऽऽदानं, तथा सम्यगुत्थानेन उत्थितः, तथा स्थितो मोक्षाध्वनि आत्मा यस्य य स्थितात्मा, तथा संख्याय विज्ञाय संसारासारतां धर्मसामग्रीदुर्लभतां च सत्संयमकरणोद्यत: परदत्तभोजी, स एवंगुणकलितो भिक्षुरिति वाच्य इति ।।३।। साम्प्रतं निर्ग्रन्थशब्दस्य प्रवृत्तिनिमित्तमाह
___ एत्थवि णिग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसामाइए आयवायपत्ते विऊ दुहओवि सोयपलिच्छिन्ने णो पूयासक्कारलाभट्ठी धम्मट्ठी धम्मविऊ णियागपडिवन्ने समियं चरे दंते दविए वोसट्ठकाए निग्गंथेत्ति वच्चे ।।४।। से एवमेव जाणह जमहं भयंतारो ।। तिबेमि ।।
अत्रापि अनन्तरोक्ते गुणसमूहे वर्तमानो निर्ग्रन्थ इति वाच्यः, अमी चान्ये व्यपदिश्यन्ते, तद्यथा-एकः रागद्वेषरहितः, एकविद् जैनशासनं मोक्ष: संयम एव वा तथ्यमिति वेत्ति, बुद्धः, संछिन्नस्त्रोता: निरुद्धाश्रवः, सुसंयतः सुसमितः, सुसामायिकः समशत्रुमित्रभाव:, उपयोगादिलक्षणस्य आत्मनो वादस्तं प्राप्त: आत्मवादप्राप्तः विद्वान्, द्रव्यभावभेदात् द्विधाऽपि परिच्छिन्नस्त्रोताः, न पूजासत्कारलाभार्थी, धर्मार्थी, धर्मविद्, नियागो मोक्षः संयमो वा तं प्रतिपन्न: नियागप्रतिपन्नः एवंभूतः समतां चरेत् दान्तःद्रव्यः, व्युत्सुष्टकायः निग्रन्थ इति वाच्य इति ।।४।। उपसंहरन्नाह- प्रतिपन्न: नियागप्रतिपन्न: एयंभूतः
सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमाह-से-तद् यन्मया कथितम् एवमेव जानीत यूयं यस्मादहं सर्वज्ञाज्ञया ब्रवीमि न च सर्वज्ञा भगवन्तः भयात् त्रातारो वाऽन्यथा ब्रुवते । इति परिसमाप्त्यर्थे । ब्रवीमीति पूर्ववत् ।
।। गाथा षोडशमध्ययनं समाप्तम् ।। ।। प्रथमः श्रुतस्कन्धः समाप्तः ।।
Page #160
--------------------------------------------------------------------------
________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
प्रशस्तिः
श्रीमद्वीरजिनेशस्य श्री सुधर्मा गणाधिपः । तपागच्छतरोर्मूलं श्री गणिपिटकस्य च ।।१।। तस्य परम्पराSSयातः प्रवचनप्रभावकः । श्रीमद्विजयसिंहाख्यः सिंहो दुर्वादिकुम्भिषु ।। २ ।। तस्य पट्टाम्बरे सूर्यः, शैथिल्यध्वान्तशोषणः । श्री सत्यविजयोऽभूच्च सत्यनिष्ठशिरोमणिः ||३|| तन्मूलशाख - संवेगी, तदाद्याचार्यनायकः । अभूच्छ्रीविजयानन्दो, जगदानन्ददायकः ।।४।। स्मारको जिनकल्पस्य, स्वचारित्रेण साम्प्रतम् । श्रीमान् कमलसूरीशः पट्टेऽभूत्तस्य कर्मठः ।।५।। शिष्यः श्री विजयानन्दसूरेर्बभूव सिद्धवाक् । श्री वीरविजयः पूज्यो वाचकवरवीरभूः ।।६।। विजयदानसूरीशः शिष्यस्तस्य बुधाग्रणीः । श्रीमत्कमलसूरीशपट्टप्रभावकोऽभवत् ॥ ७॥ तस्याऽभूदभिः प्रशस्तचरणः शिष्यः समेषां मतः । सेव्यः सार्धचतुःशताधिकमुनिव्रातेन वात्सल्यभूः । स्रष्टा बन्धविधान-कर्मविवृतेः सिद्धान्तपारङ्गतः, कर्मव्रातविदारणैकसुभटः श्री प्रेमसूरीश्वरः ||८ ॥ तस्य शिष्यलवेनैषाऽक्षरगमनिका कृता । द्वितीयाङ्गस्य टीकां चाऽऽलम्ब्य चूर्णिमपि क्वचित् ।।९।।
श्री जयघोषसूरीणां, सम्मत्या चाऽऽशुबोधये । सूरिणा कुलचन्द्रेण, शोधयन्तु बहुश्रुताः ।।१०।। युग्मम् ।।
१५५
Page #161
--------------------------------------------------------------------------
________________
હહહહટશ્રી સૂત્રતા સૂત્રમ્
આયડ તીર્થોદ્ધારક, વૈરાગ્યવારિધિ ૫.પૂ. આચાર્યદેવ શ્રી ફુલચન્દ્રસૂરીશ્વરજી મ.સા.ની સાહિત્ય યાત્રા.
૧. શ્રી કલ્પસૂત્ર અક્ષરગમનિકા (પ્રત) ૨. શ્રી મહાનિશીથ સૂત્ર
૦૩. શ્રી આચારાંગ સૂત્ર અક્ષરગમનિકા (ભાગ-૧)
૨૪. શ્રી આચારાંગ સૂત્ર અક્ષરગમનિકા (ભાગ-૨)
૫. શ્રી સૂત્ર-કૃતાંગ સૂત્ર અક્ષરગમનિકા (ભાગ-૧)
૬. શ્રી સૂત્ર-કૃતાંગ સૂત્ર અક્ષરગમનિકા (ભાગ-૨) નિર્માણાધીન
૭. શ્રી પંચકલ્પભાષ્ય ચૂર્ણિ
૮. શ્રાદ્ધજીતકલ્પ
૯. યતિજીતકલ્પ
૦૧૦. ન્યાયાવતાર-સટીક
*૧૧. શ્રી વિંશતિવિંશિકા પ્રકરણ-અનુવાદ ૦૧૨. શ્રી વિંશતિવિંશિકા પ્રકરણ-સટીક *૧૩.શ્રી શ્રાદ્ધવિધિ પ્રકરણ (પ્રત) ૧૪. શ્રી માર્ગપરિશુદ્ધિ પ્રકરણ-સટીક ૧૫. સુલભ ધાતુ રૂપ-કોશ ૧૬. સંસ્કૃત શબ્દ રૂપાવલી
♦ ૧૭. સંસ્કૃત ધાતુ અદ્યતનાદિ રૂપાવલી ♦ ૧૮. મુહપતિ ચર્ચા (હિન્દી-ગુજરાતી)
• આ નિશાનીવાળા પુસ્તકો અપ્રાપ્ય છે.
१५६
♦ ૧૯.જૈન શ્રાવકાચાર (હિન્દી) ♦ ૨૦. જૈન શ્રાવકાચાર (ગુજરાતી) * ૨૧. જૈન ઇતિહાસ (હિન્દી) ૨૨. જીવવિચાર એવં તત્ત્વજ્ઞાન (હિન્દી) ૨૩. સુબોધ સંસ્કૃત માર્ગોપદેશિકા (સંસ્કૃત બુક-૧)
૨૪. સુબોધ સંસ્કૃત મન્દિરાન્ત પ્રવેશિકા (સંસ્કૃત બુક-૨)
૦ ૨૫. કર્મ નચાવત તિમહિ નાચત. * ૨૬.સુખી જીવનની માસ્ટર કી ૦ ૨૭. જીવથી શિવ તરફ ૦ ૨૮. તત્ત્વની વેબસાઇટ
૨૯. ભક્તિ કરતા છૂટે મારા પ્રાણ ૦૩૦. કૌન બનેગા ગુરૂગુણજ્ઞાની ૩૧. ઓઘો છે અણમૂલો... ૩૨. સુબોધ પ્રાકૃત વિજ્ઞાન પાઠમાલા (પ્રાકૃત બુક)
૩૪.
૩૩. સુબોધ સંસ્કૃત થાતુરૂપાવલી ભાગ-૧ સુબોધ સંસ્કૃત થાતુરૂપાવલી ભાગ-૨ ૩૫.સુબોધ સંસ્કૃત થાતુરૂપાવલી ભાગ-૩ ૩૬.સુબોધ સંસ્કૃત થાતુરૂપાવલી ભાગ-૪ ૩૭.શ્રાદ્ધવિધિ પ્રકરણ (હિન્દી)
'
છ પ્રાપ્તિ સ્થાન દિવ્ય દર્શન ટ્રસ્ટ
૩૯, કલિકુંડ સોસાયટી, મફલીપુર ચાર રસ્તા, ધોળકા, જી. અમદાવાદ. ફોન (૦૨૭૧૪) ૨૨૫૪૮૨, ૨૨૫૯૮૧.
Page #162
--------------------------------------------------------------------------
_