________________
Baaaaadddd श्री सूत्रकृताङ्गसूत्रम् aaaaaaaa१३४ नान्यथेति ।।३।। किञ्चान्यत्जे यावि पुट्ठा पलिउंचयंति, आदाणमढें खलु वंचयंति । असाहुणो ते इह साधुमाणी, मायण्णि एसिंति अणंतघंतं ॥४॥
ये केचन तुच्छतया समुत्सेकिनोऽपरेण पुष्टाः कस्मादधीतं श्रुतं भवद्भिरिति ते तु स्वकीयमाचार्य निह्रवाना अपरं प्रसिद्ध प्रतिपादयन्ति यदिवा मयैवैतत् स्वत उत्प्रेक्षितमित्येवं ज्ञानगर्वात् पलिउंचयंति परिकुञ्चयन्ति निहृवते । यदिवालोचनादिके अवसरे पृष्टाः सन्तो मातृ-स्थानेनावर्णवादभयान्निहृवते । एवं माया कुर्वाणास्ते आदीयत इत्यादानं ज्ञानादिकं मोक्षो वा तम् अर्थम् आदानार्थं वञ्चयन्ति-भ्रंशयन्त्यात्मनः, खलुः अवधारणे वञ्चयन्त्येव । इह जगति साधुविचारे वा तेऽसाधवः आत्मोत्कर्षात् साधुमानिनः मायाविनस्ते एष्यन्ति यास्यन्ति अनन्तश: घातं विनाशं संसारं वा दोषद्वयदुष्टत्वात्तेषाम् एकं तावत्स्वयमसाधवो द्वितीयं साधुमानिन इति । तदेवमात्मोत्कर्षदोषारोधिलाभमप्युपहत्यानन्तसंसारिणो भवन्तीति ।।४।। साम्प्रतं क्रोधादिकषायदोषमुद्भावयितुमाहजे कोहणे होति जगढमासी, विओसियं जे उ उदीरएज्जा। अंधे व से दंडपहं गहाय, अविओसिए घासति पावकम्मी ||५||
यः कश्चित् प्रकृत्यैव क्रोधनो भवति तथा यो जगदर्थभाषी तद्यथा-ब्राह्मणं डोडमिति ब्रूयात् तथा काणं काणमित्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात्, यदिवा जगदर्थभाषी येन केनचित्प्रकारेणासदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थः । विओसियं विविधमवसितं पर्यवसितमुपशान्तं कलहं यः पुनरप्युदीरयेत्, साम्प्रतमेतद्विपाकं दर्शयति-यथा च कश्चित् अन्धः दण्डपथं गोदण्डमार्ग लघुमार्ग गृहीत्वा आश्रित्य तेन व्रजन् स धृष्यते कण्टकश्वापदादिभिः पीड्यते, एवमसावपि केवलं लिङ्गधार्यनुपशान्तक्रोध: कर्कशभाष्यधिकरणोद्दीपकः, तथा 'अविओसिए' अनुपशान्तद्वन्द्व-पापकर्मी संसारे पीड्यते ।। ५ ।। किञ्चजे विग्गहीए अन्नायभासी, न से समे होति अझंझपत्ते । ओवायकारी य हिरीमणे य, एगंतदिट्टी य अमाइरुवे ||६||
. यो विग्रहिक कलहप्रियः अन्याय्यभाषी यत्किञ्चनभाषी अस्थानभाषी गुर्वाधिक्षेपकरो वा नाऽसौ समो मध्यस्थो भवति, नापि अझंझाप्राप्त अकलहप्राप्त: अमायाप्राप्तो वा भवति । यदिवा अझंझाप्राप्तैः सम्यग्दृष्टिभिरसौ समस्तुल्यो न भवति यत: अतो नैवंविधेन भाव्यम्, अपि तु उपपातकारी आचार्यनिर्देशकारी यदिवा उपायकारी सूत्रोपदेशप्रवर्तकः ह्री: लज्जा संयमस्तत्र मनो यस्य स ह्रीमना: यदिवा अनाचारं कुर्वन् आचार्यादिभ्यो जिह्वेति लज्जतेऽसौ