SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ adaadaaaad श्री सूत्रकृताङ्गसूत्रम् ॐaaaaad१३५ ह्रीमनाः, तथा एकान्तेन जीवादितत्त्वेषु दृष्टिर्यस्याऽसौ एकान्तदृष्टिः स्यात्, पाठान्तरं वा ‘एगंतसड्डि' एकान्तेन जिनोक्तमार्गे श्रद्धावान् भवेत्, अमायिनो रूपं यस्याऽसौ अमायिरूप: निष्कपटश्च स्यादिति ।।६।। पुनरपि सद्गुणोत्कीर्तनामाहसे पेसले सुहमे पुरिसजाते, जच्चण्णिए चेव सुउज्जुयारे। बहु पि अणुसासिते जे तहच्चा, समे हु से होति अझंझपत्ते |७|| यः क्वचित् प्रमादस्खलिते सत्याचार्यादिना बह्वपि अनुशास्यमानः तथैव अर्चा: लेश्या चित्तवृत्तिर्यस्य स तथार्च: स्थिरशुभलेश्याकः स एव पुरुषजात: परमार्थत: पुरुषार्थकारित्वात् क्षमाशीलत्वाच्च, तथाऽसावेव जात्यन्वितः सच्छीलान्वितत्वात्, स एव सुष्ठु अतिशयेन ऋजुः-संयमस्तत्करणशील: सुऋजुकारी यदिवा 'उज्जुचारे' ति यथोपदेशं य प्रवर्तते, न पुनराचार्यादिवचनं प्रतिकूलयति स ऋजुचारः अवक्रः, पेशलं मिष्टवाक्यत्वात्, सूक्ष्मः सूक्ष्मदर्शित्वात् सूक्ष्मभाषित्वाद्वा, समः मध्यस्थो निन्दायां पूजायां च न रुष्यति न तुष्यति, तथा अझंझाप्राप्तः पूर्ववत्, यदि वा अझंझाप्राप्तै: वीतरागैः समो भवतीति ।।७।। प्रायस्तपस्वीनां ज्ञानमदस्तपोमदश्च भवतीत्यतस्तमाश्रित्याहजे आवि अप्पं वसुमं ति मंता, संखाय वादं अपरिच्छ कुज्जा । तवेण वा हं सहिते त्ति मंता, अण्णं जणं पस्सति बिंबभूतं ।।८।। यश्चापि कश्चिल्लघुप्रकृतिस्तुच्छतया आत्मानं वसुमन्तं संयमिनं, संख्या ज्ञानं तद्वन्तं चेति ज्ञानवन्तं चमत्त्वा नाऽपरः कश्चिन्मत्तुल्योऽस्तीति, तथा परमार्थम् अपरीक्ष्य आत्मोत्कर्षार्थं वादं कुर्यात् लालपेदित्यर्थः, तथा तपसा वाऽहम् एवात्र सहितो न मत्समः कोऽप्यस्तीति मत्त्वा अन्यं जनं यतिलोकं गृहस्थलोकं वा बिंबभूतं जलचन्द्रवत् तदर्थशून्यं लिङ्गमात्रधारकं पुरुषाकृतिमात्रं वा पश्यतीति ।।८।। एगंतकूडेण तु से पलेति, ण विज्जती मोणपदंसि गोते | जे माणणद्वेण विउक्कसेज्जा, वसुमण्णतरेण अबुज्झमाणे ॥९॥ एकान्तकूटेन अनन्तरोक्ताऽऽत्मोत्कर्षरूपभावकूटेनैकान्तत: असौ संसारचक्रवाले पर्येति बम्भ्रमीति, तु शब्दात् कामादिना मोहेन वा मोहितो बहुवेदने संसारे प्रलीयते । यश्चैवंभूतः असौ न विद्यते वर्तते मौनपदे संयमे सर्वज्ञप्रणीतमार्गे । सर्वज्ञमतमेव विशिनष्टि गां एतदेवाकिञ्चनत्वं सुरुक्षजीवत्वं वा त्रायते अर्थाऽविसंवादनत इति गोत्रं तस्मिन् गोत्रे जिनमते, यदिवा उच्चगोत्रे वर्तमानस्तदभिमानग्रहग्रस्तः, तथा यश्च माननार्थेन पूजासत्कारार्थं व्युत्कर्षयेत् मदं कुर्यात् सोऽपि मौनीन्द्रपदे न वर्तते वसुः संयमस्तमादाय य: अन्यतरेण मदस्थानेन परमार्थम् अबुध्यमानः
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy