________________
daddedbaadaanade श्री सूत्रकृताङ्गसूत्रम् aaaaaaaai१०८ निति ।।२४।। किञ्चान्यत्भासमाणो न भासेज्जा, णेय वंफेज्ज मम्मयं । मातिट्ठाणं विवज्जेजा, अणुविति वियागरे ।।२५।।
अन्यः कश्चिद्रत्नाधिको भाषमाणः स्यात्तत्रान्तर एव सश्रुतिकोडमित्येवमभिमानवान् न नैव भाषेत, मर्म गच्छतीति मर्मगं मामकं वा पक्षपातं न वंफेज्जा देशीयपदमेतत् अनुचितोल्लापार्थम् । अयं भाव कस्यचिदपि मन:पीडाकारि वचनं न भाषेत । तथा मातृस्थानं मायाप्रधानं वचो विवर्जयेत् तथा अनुचिन्त्य व्याकुर्यात् भाषेतेति ।।२५।। अपि चतत्थिमा ततिया भासा, जं वदित्ताऽणुतप्पती । जह छन्नं तं न वत्तवं, एसा आणा नियंठिया ||२६||
भाषा चतुर्धा, तथाहि-सत्या मृषा सत्यामृषा असत्यामृषा च तत्रेमा तृतीया भाषा सत्यामृषा तां न भाषेत यतो दोषाय किं पुनर्द्वितया मृषा समस्तार्थविसंवादिनी यां च उदित्वा अनुतप्यते पीड्यते पश्चात्तापं वा विधत्ते तां न वदेत, अथ सत्यामाश्रित्याह-'क्षणु हिंसायामिति' यत् छन्नं विहिंसकं सत्यमपि तन्न वक्तव्यम्, यदिवा प्रछन्नं-रहस्यं तन्न भाषितव्यम्, एषाऽऽज्ञा अयमुपदेशो निर्ग्रन्थो-भगवांस्तस्येति ।।२६।। होलावायं सहीवायं, गोतावायं च नो वदे । तुमं तुमं ति अमणुण्णं, सव्वसो तं ण वत्तए ॥२७॥
होलावादं रेकारपूर्वकमामन्त्रणवचनम, सखिवादं सखेत्येवंवादस्तम्, तथा-गोत्रोद्धाटनेन वादो गोत्रवादस्तं नो वदेत्, यो वृद्धः प्रभविष्णुर्वा तं प्रति त्वं त्वमिति न वक्तव्यम्, किं बहुना ? यद् अमनोज्ञं तत् सर्वशः साधूनां वक्तुं न पार्यत इति ।।२७।। अपि च- . अकुसीले सया भिक्खू, णो य संसग्गिय भए । सुहरूवा तत्थुवस्सग्गा पडिबुज्झेज्ज ते विदू ॥२८॥
अकुशील: सदा भिक्षुः पार्श्वस्थादिभि: कुशीलैः सार्धं संसर्गितां साङ्गत्यं नैव भजेत यतस्तत्र कुशीलसंसर्गे सुखरूपा: सातगौरवस्वभावा उपसर्गाः प्रादुष्यन्ति । विद्वान् तान् उपसर्गान् प्रतिबुध्येत् तथाहि-ते कुशीला वक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपादादिके प्रक्षाल्यमाने दोष: स्यात् ? तथा नाशरीरो धर्मो भवत्यतो येन केनचित् प्रकारेणाऽऽधाकमसन्निध्यादिना तथा उपानच्छत्रादिना च शरीरं धर्माधारं वर्तयेदित्यादि । तदेतत्सर्वं बुद्ध्वा च कुशीलसंसर्गं परिहरेदिति ।।२८।। किञ्चान्यत्