________________
odiakickadakad श्री सूत्रकृताङ्गसूत्रम् aakaaaaaaa१०९ णण्णत्थ अंतराएणं, परगेहे ण णिसीयए । गामकुमारियं किडं, नातिवेलं हसे मुणी ।।२९।।
___परगृहे गृहस्थगृहे न निषीदेत् उत्सर्गत:, अस्याऽपवादमाह-नान्यत्र अन्तरायात् जरारोगादिलक्षणात् तस्मिंश्चान्तराये सति उपविशेत्, यदिवा उपशमलब्धिमान् कश्चित् सुसहायो गुर्वनुज्ञात: कस्यचित्तथाविधस्य धर्मोपदेशनिमित्तमुपविशेदपि, तथा ग्रामकुमाराणामियं ग्रामकुमारिकां क्रीडां हास्यकन्दर्पादिकां कन्दुकादिकां वा न कुर्यात्, तथा वेला मर्यादा तामतिक्रान्तम् अतिवेलं न हसेत् मुनि कर्मबन्धभयादिति ।।२९।। अणुस्सुओ उरालेसु, जयमाणो परिवए । चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासते ||३०||
___ अनुत्सुक: उदारेषु शब्दादिषु विषयेषु, संयमानुष्ठाने च यतमान: परिव्रजेत्, भिक्षादिकायां चर्यायाम् अप्रमत्तः स्यात्, तथा-तत्र चर्यायां परिषहोपसर्गः स्पृष्ट सन् अध्यासीत सम्यक् सहेतेति ।।३० ।। परिषहोपसर्गाधिसहनमेवाऽधिकृत्याहहम्ममाणो न कुप्पेज्जा, बुच्चमाणो न संजले । सुमणो अहियासेज्जा, ण य कोलाहलं करे ।।३१।।
____ यष्टिलकुटादिभिः हन्यमानो न कुप्येत्, उच्यमानः आक्रुश्यमानो न संज्वलेत् न प्रतीपं वदेत्, न च मनोऽन्यथा विध्यात्, किन्तु सुमनाः सन् सर्वम् अध्यासीत सम्यक् सहेत, न च कोलोहलं कुर्यादिति ।।३१।। किञ्चान्यत्लद्धे कामे ण पत्थेज्जा, विवेगे एवमाहिए | आरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ||३२||
लब्धामान् कामान् वैरस्वामिवत् न प्रार्थयेत् न गृह्णीयात्, यदिवा तपोविशेषलब्धीनपि नोपजीव्यात्, नाप्यनागतान् ब्रह्मदत्तवत् प्रार्थयेद्, एवं च कुर्वतो विवेक: आख्यातः आविभावितो भवति, तथा-आर्याणि कर्तव्यानि सदा शिक्षेत अभ्यसेत् यदिवा आचरणीयानि ज्ञानदर्शनचारित्राणि बुद्धानाम् आचार्याणाम् अन्तिके समीपे सदा शिक्षेत, अनेन गुरुकुलवासो नित्यमासेवनीय इत्यावेदितं भवतीति ।।३२ ।। यदुक्तं बुद्धानामन्तिके शिक्षेत तत्स्वरूपनिरूपणायाहसुस्सूसमाणो उवासेज्जा, सुप्पण्णं सुतवस्सियं । वीरा जे अत्तपण्णेसी, धितिमंता जितिंदिया ||३३।।
गुर्वादेशं सुश्रूषमाणः उपासीत सुप्रज्ञं सुतपस्विनं गुरुम्, तथा चोक्तम्-नाणस्स