________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
०.७ ११० होइ भागीत्यादि । तथा-त एव वीरा: धीरा वा ये आप्तो रागादिविप्रमुक्तस्तस्य प्रज्ञा केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते आप्तप्रज्ञान्वेषिण: आत्महितान्वेषिणो वा धृतिमन्तः जितेन्द्रियाश्चेति ।। ३३ ।। यदध्यवसायिनो पूर्वोक्तविशेषणविशिष्टा भवन्ति तदाह
गिहे दीवमपस्संता, पुरिसादाणिया नरा ।
ते वीरा बंधणुम्मुक्का, नावकखंति जीवितं ||३४||
ये गृहे गृहवासे दीपं भावदीपं श्रुतज्ञानलाभं द्वीपं वा भावद्वीपं संसारोत्तारं सर्वचारित्रम् अपश्यन्तः प्रव्रज्यां स्वीकृत्य पुरुषादानीया: नराः संवृता भवन्ति तदा ते वीराः पुत्रकलत्रादिस्नेहरूपेण बन्धनेनोन्मुक्ताः बन्धनोन्मुक्ताः सन्तः न पुनः जीवितम् असंयमजीवितम् अवकाङ्क्षन्तीति ।। ३४ ।। किञ्च
अगिद्धे सद्द-फासेसु, आरंभेसु अणिस्सिते ।
सव्वेतं समयातीतं, जमेतं लवितं बहुं ॥३५॥
शब्दस्पर्शेषु आद्यन्तग्रहणात् रूपेषु गन्धेषु रसेषु च अंगृद्धः तथा आरम्भेषु अनिश्रित: असम्बद्धः अप्रवृत्त इत्यर्थः । उपसंहरन्नाह - सर्वमेतत् अध्ययनादेराभ्य प्रतिषिध्यत्वेन यत् लपितम् उक्तं मया बहु तत् समयातीतम् आगमातीतम् इति कृत्वा नानुष्ठेयमिति ।। ३५ ।। प्रतिषेध्यप्रतिषेधद्वारेण मोक्षाभिसन्धानमाह
अतिमाणं च मायं च तं परिण्णाय पंडिते ।
1
गारवाणि य सव्वाणि, निव्वाणं संधए मुणि ॥३६॥ त्ति बेमि ।
अतिमानं महामानं मायां च चशब्दात् क्रोधलोभावपि, तथा सर्वाणि गारवाणि ऋद्धिरससातालक्षणानि च पंडित: ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत्, परिहृत्य च मुनि: निर्वाणं सन्धयेत् प्रार्थयेदिति ब्रवीमि पूर्ववत् ।। ३६।।
।। धर्मनाम नवममध्ययनं समाप्तम् ।।
|| दशमं समाध्यध्ययनम् ।।
इहानन्तराध्ययने धर्मोऽभिहित:, स चाऽविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः
प्रतिपाद्यते
घं मइमं अणुवीति धम्मं, अंजू समाहिं तमिणं सुणेह ।
अपडणे भिक्खू तु समाहिपत्ते, अणियाणभूतेसु परिव्वजा ||१||