________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
१११
मतिमान् केवलालोकेन अनुविचिन्त्य ज्ञात्वा ऋजूम् अवक्रं धर्मं समाधिं च आख्यातवान्, तमिमं धर्म समाधिं च शृणुत यूयम्, तद्यथा - अप्रतिज्ञः निराकाङ्क्ष: भिक्षुस्तु धर्मं समाधिं च प्राप्तः । तथा अनिदानभूतेषु ज्ञानादिषु परिव्रजेत् । यदिवा अनिदान : अनाश्रवः सन् कस्यचिद्दुःखमनुत्पादयन् भूतेषु जन्तुषु परिव्रजेदिति । । १ । । कर्मणो निदानानि च प्राणातिपातादीनीति तानि परिहृत्य समाधिपालनार्थमाह
उड्ढढं अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा । हत्थेहि पाएहि य संजमेत्ता, अदिण्णमन्नेसु य नो गहेज्जा ॥२॥
ऊर्ध्वमधस्तिर्यक्षु दिक्षु ये च त्रसा ये च स्थावराः प्राणिन: तान् हस्ताभ्यां पादाभ्यां च संयम्य-बद्ध्वाऽन्यथा वा तेषां दुःखोत्पादनं न कुर्यात् यदिवा हस्तपादादीनि संयम्य संयत: सन् तान्न हिंस्यात् समाधिं चानुपालयेत् । तथा अन्यैः परैः अदत्तं न गृह्णीयात् । प्रथमतृतीयव्रतग्रहणान्मृषावादादीन्यप्यर्थतो निरस्तानि द्रष्टव्यानीति ।। २ ।। ज्ञानदर्शनसमाधिमधिकृत्याह
सुअक्खातधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु । आयं न कुज्जा इह जीवियट्ठी, चयं न कुज्जा सुतवस्सि भिक्खू ||३|| सुष्ठु आख्यातो धर्मो येनाऽसौ साधुः स्वाख्यातधर्मः अनेन ज्ञानसमाधिरुक्तो भवति, न हि ज्ञानमन्तरेण स्वाख्यातधर्मत्वमुपपद्यते, विचिकित्सा = चित्तविप्लुतिर्विद्वज्जुगुप्सा वा तां तीर्णः अतिक्रान्त: ‘तदेव निःशङ्क सत्यं यज्जिनैःप्रवेदितमित्येवं निःशङ्कतया न क्वचिच्चित्तविप्लुतिं विधत्त इत्यनेन दर्शसमाधिः प्रतिपादितो भवति येन केनचित् प्रासुकाहारोपकरणगतविधिनाऽऽत्मानं पालनात् लाढः स एवम्भूतः आत्मतुल्य : प्रजासु = पृथिव्यादिषु संयमानुष्ठानं चरेत् । आयं कर्माश्रवलक्षणं न कुर्यात् इह असंयमेन जीवितार्थी तथा चयं परिग्रहं आहारोपकरणादेर्धनधान्यादेर्वा सुतपस्वी भिक्षुः न कुर्यादिति ।। ३ ।। किञ्चान्यत्
सव्विंदियऽभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के । पासाहि पाणे य पुढो वि सत्ते, दुक्खेण अट्टे परिपच्चमाणे ॥४॥
प्रजासु =स्त्रीषु सर्वेन्द्रियाऽभिनिर्वृत: जितेन्द्रिय: मुनि: चरेत् । सर्वतो विप्रमुक्त: सन् पश्य पृथक् पृथगपि सत्वान् प्राणिनः दुःखेन आर्त्तान् स्वकृतेन्धनेन परिपच्यमानान् यदिवा दुष्प्रणिहितेन्द्रियान् परितप्यमानानिति । ४ । । अपि च
एतेसु बाले य पकुवमाणे, आवट्टती कम्मसु पावएसु । अतिवाततो कीरति पावकम्मं, निउजमाणे उ करेति कम्मं ॥५॥