________________
Madadidacidicid श्री सूत्रकृताङ्गसूत्रम् ashliad१३२ गणधरादिकं च जीवादिपदार्थप्रकाशकत्वात् ज्योतिर्भूतं च सदा वसेत् सेवेत । क एवं कुर्युः ? इति दर्शयति-ये दुर्लभो वा श्रुतचारित्ररूपो धर्म इति अनुविचिन्त्य तमेव धर्म यथोक्तानुष्ठानत: प्रादुष्कुर्युः ते गुरुकुलवासं यावज्जीवमासेवन्त इति ।।१९।। किञ्चान्यत्अत्ताण जो जाणति जो य लोगं, आगइं च जो जाणइऽणागइं च । जो सासयं जाणइ असासयं च, जाती मरणं च जणोववातं ||२०|| अहो वि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणाति निज्जरंच, सो भासितुमरिहति किरियवादं ॥२१॥
यो हि आत्मानं परलोकयायिनं जानाति स एव आत्मज्ञः क्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया । यश्च लोकं चशब्दादलोकं च जानाति, यश्च जीवानाम् आगति तथा अनागतिं च कुत्र गतानां नागमनं भवति, तत्रानागति: सिद्धिः चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारित्रात्मकं यो जानाति, यश्च शाश्वतं नित्य सर्वं वस्तुजातं द्रव्यास्तिकनयाश्रयणात् जानाति अशाश्वतं वा पर्यायनयाश्रयणात, चकारान्नित्यानित्यं चोभयाकारंजानाति, अथवा निर्वाणं शाश्वतं, संसारमशाश्वतं यो जानाति, तथा जातिम् उत्पत्तिं नारकतिर्यङ्मनुष्यामरलक्षणां मरणं चाऽऽयुकक्षयलक्षणम्, तथा जायन्त इति जनास्तेषामुपपात:, स च नारकदेवयोर्भवति तं जनोपपातं च यो जानाति ।।२०।।
किञ्च-अधोऽपि नारकादौ सत्त्वानां विकुट्टनां पीडां च यो जानाति, तथा य आश्रवं संवरं च जानाति, तथा दुःखं सुखं च यो जानाति, तथा निर्जरां च यो जानाति स एव क्रियावादम्-अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च कर्मण: फलमित्येवरूपं वादं भाषितुमर्हति । अनेन च यो जीवादीन् नव सप्त वा पदार्थान् जानाति अभ्युगच्छति स एव परमार्थतः क्रियावादं प्रतिपादयितुमर्हति, क्रियावादेऽहंदुक्ततत्वपरिज्ञानस्य हेतुत्वादिति ।।२०-२१ ।। उपसंहरन्नाहसद्देसु रूवेसु असज्जमाणे, गंधेसु रसेसु अदुस्समाणे | णो जीवियं णो मरणाभिकंखी, आदाणगुत्ते वलयाविमुक्के ।।२२।। त्ति बेमि ।
असज्जमानः, शब्देषु रूपेषु च गन्धेषु रसेषु च अद्विषन् न जीवितम् असंयमजीवित नाभिकाङ्क्षत्, नापि परीषहोपरसगैरभिद्रुतो मरणाभिकाङ्क्षी स्यात्, यदिवा जीवितमरणयोरनभिलाषी संयममनुपालयेत् । तथा मोक्षार्थिनाऽऽदीयत इत्यादानं संयमस्तेन तस्मिन् वा सति गुप्तः आदानगुप्तः, यदिवा मिथ्यावादिनाऽऽदीयत इत्यादानम् अष्टप्रकारं कर्म