________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् saasaa २५ ] शक्यते, यथा नन्दः किल मृत्युदूतैराकृष्ट आह कोटिं दद्यां यद्येकाहं जीयेत्, तथापि न लब्धवानिति ।।१।। सर्व संसारिणां सोपक्रमत्वादनियतमायुरुपदर्शयन्नाहडहरा वुड्वा य पासहा, गब्मत्था वि चयंति माणवा । सेणे जह वट्टयं हरे, एवं आउखयम्मि तुट्टती ।।२।।
पश्यत-डहरा:-बाला वृद्धाश्च गर्भस्था अपि मानवा जीवितं त्यजन्ति बह्वपायत्वादायुषः यथा श्येनो वर्तकं-तीत्तिरजातीयं भाषायां बटेरस्तं हरे व्यापादयेत्, एवम् आयुष उपक्रमकारणं प्राणान् हरेत्, तदभावे वा आयुःक्षये त्रुट्यति जीवितमिति शेषः ।।२।। तथामाताहिं पिताहिं लुप्पति, णो सुलभा सुगई वि पेच्चओ । एयाइं भयाइं पेहिया, आरंभा विरमेज्ज सुब्बते ॥३॥
कश्चिमातापित्रादिभिलृप्यते-संसारे भ्राम्यते स्नेहाकुलितमानसः । तस्य च स्वजनपोषणार्थं यत्किञ्चित्कारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि प्रेत्य-परलोके न सुलभा, अपि तु दुर्गतिरेव भवति, तदेवम् एतानि-दुर्गतिगमनादीनि भयानि प्रेक्ष्याऽऽरम्भाद् विरमेत् सुव्रतः सुस्थितो वेति पाठान्तरम् ।।३।। अनिवृत्तस्य दोषमाहजमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो। सयमेव कडेहिं गाहती णो, तस्सा मुच्चे अपुट्ठवं ||४||
यद्-यस्मादनिवृत्तानाम् इदं भवति तथाहि-जगति पृथग्भूता व्यवस्थिता ये कर्मभिलृप्यन्ते-भ्राम्यन्ते यातनास्थानेषु प्राणिनः ते स्वयं कृतैः कर्मभिः । गाहते नरकादिस्थानानि दु:खहेतूनि वा कर्माणि गाहते उपचिनोति, न च कोऽपि तस्य कर्मणो विपाकेन तपसा वा अस्पृष्टो मुच्यते जन्तुरिति ।।४।। अधुना स्वस्थानानित्यतां दर्शयितुमाहदेवा गंधव-रक्खसा, असुरा भूमिचरा सरिसिवा । राया नर-सेट्टि-माहणा सवे वि ठाणाई चयंति दुक्खिया ||५||
देवा ज्योतिष्कसौधर्माद्या गन्धर्वा राक्षसा एतदुपलक्षणत्वादष्टप्रकारा व्यन्तरा गृह्यन्ते असुरा उपलक्षणाद् दशप्रकारा भवनपतयः, भूमिचराः सरिसृपा एतदाद्यास्तिर्यञ्च: राजानः नराः श्रेष्ठिनो ब्राह्मणाश्चैते सर्वे अपि स्वकीयानि स्थानानि दुःखिताः सन्त: त्यजन्ति, यतः सर्वेषामपि प्राणत्यागे महदु:खं समुत्पद्यत इति ।।५।। किञ्च