SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Baaaaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् addddddi ८६ रुक्खेसु णाते जह सामली वा, जंसी रतिं वेतयंती सुवण्णा । वणेसु वा नंदणमाहु सेढे, णाणेण सीलेण य भूतिपन्ने ||१८|| __यथा वृक्षेषु मध्ये शामली वृक्षः ज्ञातः प्रसिद्धः, यस्मिन् रतिं वेदयन्ति सुपर्णा: भवनपतिविशेषाः, वनेषु च मध्ये यथा नन्दनं वनं तथा भूतिप्रज्ञः स भगवान् ज्ञानेन शीलेन च श्रेष्ठ इति ।।१८।। अपि चथणियं व सद्दाण अणुत्तरे तु, चंदो व ताराण महाणुमागे । गंधेसु वा चंदणमाहु सेढे, सेढे मुणीणं अपडिण्णमाहु ।।१९।। यथा शब्दानां मध्ये तु स्तनितं घनगर्जितम् अनुत्तरम्, तारकाणां च मध्ये यथा चन्द्रो महानुभावः, मतुब्लोपात् गन्धवत्सु द्रव्येषु मध्ये यथा चन्दनं तज्ज्ञाः श्रेष्ठमाहुः, एवं मुनीनां मध्ये नास्य रागद्वेषाभ्यां प्रतिज्ञा विद्यते इत्यप्रतिज्ञस्तम् अप्रतिज्ञं भगवन्तं श्रेष्ठम् आहुरिति ।।१९।। अपि चजहा सयंभू उदहीण सेढे, णागेसु या धरणिंदमाहु सेढे । खोतोदए वा रसवेजयंते, तवोवहाणे मुणिवेजयंते ॥२०॥ ____ यथा स्वयंभूः चरमोदधिः उदधीनां मध्ये श्रेष्ठः, नागेषु भवनपतिविशेषेषु धरणेन्द्र श्रेष्ठमाहुः ‘खोओ' देशीशब्द इक्षुरसार्थः तथा च इक्षुरस इव उदकं यस्य स इक्षुरसोदकः समुद्रः रसमाश्रित्य वैजयन्तः प्रधान: अपरसमुद्राणां पताकेवोपरि व्यवस्थितत्वात्, एवं तपउपधानेन विशिष्टतपोविशेषेण मुनिः भगवान् वैजयन्तः प्रधान इति ।।२०।। किञ्चहत्थीसु एरावणमाहुणाते, सीहे मियाणं सलिलाण गंगा। पक्खीसु या गरुले वेणुदेवे, णिबाणवादीणिह णायपुत्ते ।।२१।। . . हस्तिषु मध्ये ऐरावणं ज्ञातं प्रसिद्धम् आहुः मृगाणां च मध्ये यथा सिंहः, तथासलिलानां मध्ये यथा गङ्गाः, पक्षिषु मध्ये यथा गरुडः अपरनाम्ना वेणुदेवः प्रधानतया व्यवस्थितः, निर्वाणवादिनां मध्ये ज्ञातपुत्रः भगवान् प्रधान: यथावस्थितवादित्वादिति ।।२१।। आपे च जोहेसुणाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु । खत्तीण सेढे जह दंतवक्के, इसीण सेढे तह वद्धमाणे ।।२२।। योधेषु मध्ये ज्ञात: प्रसिद्धो दृष्टान्तभूतो वा विश्वा चतुरङ्गी सेना यस्य स विश्वसेनः चक्रवर्ती, यथा च पुष्पेषु मध्ये अरविन्दं प्रधानमाहुः क्षत्रियाणां मध्ये यथा दान्ता उपशान्ता
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy