________________
5.
श्री सूत्रकृताङ्गसूत्रम्
८५
प्रकाशयति अर्चिमालीव आदित्य इव दशाऽपि दिश इति ।। १३ ।। अथ मेरुपमानं भगवति योजयति
सुदंसणस्सेस जसो गिरिस्स, पवुच्चती महतो पव्वतस्स । एतोवमे समणे नायपुत्ते, जाती- जसो दंसण - णाणसीले ||१४||
एतदनन्तरोक्तं यशः' सुदर्शनस्य गिरे : महतः पर्वतस्य प्रोच्यते एतदुपम : श्रमण : ज्ञातपुत्र: श्री वर्धमानस्वामी जात्या यशसा दर्शनेन ज्ञानेन शीलेन च सर्वश्रेष्ठ इति ।। १४ ।। पुनरपि दृष्टान्तान्तरेण भगवतो वर्णनमाह
गिरीवरे वा निसहाऽऽयताणं, रुयगे व सेट्टे वलयायताणं । ततोवमे से जगभूतिपण्णे, मुणीण मज्झे तमुदाहु पण्णे ||१५||
यथा निषध: गिरिवर: आयतानां गिरीणां मध्ये दैर्येण श्रेष्ठः, तथा वलयायतानां मध्ये रुचकः पर्वतः श्रेष्ठस्तथा स भगवानपि तदुपम : जगति भूतिप्रज्ञ: प्रज्ञया श्रेष्ठः । अत एव तं भगवन्तं मुनीनां मध्ये प्रज्ञ: इति तत्स्वरूपविदः उदाहृतवन्तः उक्तवन्त इति ।। १५ ।। किञ्चान्यत्–
अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई | सुसुक्कसुक्कं अपगंडसुक्कं, संखेंदु वेगंतवदातसुक्कं ||१६||
नास्योत्तरः प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरस्तम् अनुत्तरं धर्मम् उदीरयित्वा उपदिश्य अनुत्तरं ध्यानवरं ध्यायति, तथाहि-उत्पन्नज्ञानो योगनिरोधकाले शुक्लध्यानस्य तृतीयभेदं तथा निरुद्धयोगश्च चतुर्थंभेदं ध्यायति, एतदेव दर्शयति-सुशुक्लशुक्लं सुष्ठु शुक्लवत् शुक्लम् अपगण्डशुक्लम् अपगतं गण्डं कलुषं यस्य तदपगण्डं निर्दोषाऽर्जुनसुवर्णवत् शुक्लं यदिवा अपगण्डम् उदकफेनं तद्वत् शुक्लम् तथा शङ्खेन्दुवत् एकान्तावदातशुक्लं ध्यानं ध्यायतीति ।। १६ ।। किञ्च -
अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता ।
सिद्धिं गतिं साइमणंतपत्ते, नाणेण सीलेण य दंसणेणं ||१७|| स महर्षि : भगवान् ज्ञानेन दर्शनेन शीलेन च अशेषं कर्म विशोधयित्वा क्षपयित्वा साद्यनन्तां अनुत्तराग्रां लोकाग्रव्यवस्थितत्वात् परमां सिद्धिगतिं प्राप्त इति ।। १७ । । पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-