________________
6666666 श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐ
२३
त्पादव्ययध्रौव्ययुक्तत्वेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति । तथा यदुक्तम्-‘अनन्तवाँल्लोकः सप्तद्वीपावच्छिन्नत्वादिति' तन्न प्रेक्षापूर्वकारिण: प्रत्येष्यन्ति, तद्ग्राहकप्रमाणाऽभावादिति । यद्यपि चोक्तम्- 'अपरिमाणं विजानाती' ति, तदपि न घटामियर्ति, यतः सत्यमप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशविकलत्वान्नैवाऽसौ प्रेक्षापूर्वककारिभिराद्रियते, तथाहि तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽप्यस्याऽपरिज्ञानमेवमन्यत्राऽपीत्याशङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात् ।। तस्मात्सर्वज्ञमेष्टव्यं, तथा यदुक्तं- 'स्वापबोधविभागेन परिमितं जानाती' त्येतदपि सर्वजनसमानत्वे यत्किञ्चिदिति । तदेवमनन्तादिकं लोकवादं परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्धेन दर्शयति-ये केचन त्रसा: स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्मपरिणत्या अस्त्यसौ पर्याय : अंजू : प्रगुणोऽव्यभिचारी येन ते त्रसाः सन्तः स्थावरा: संपद्यन्ते, स्थावरा अपि त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव स्थावरा: स्थावरत्वमेवाप्नुवन्ति, न पुनर्नित्यं यो यादृगिह स तादृगेवामुत्रापि भवतीत्ययं नियम इति ।। ८ ।। अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाह
उरालं जगओ जोयं, विपरीयासं पलेंति य । सव्वे अक्कंतदुक्खा य, अतो सव्वे अहिंसिया ||९||
यथा जगत औदारिकः-औदारिकशरीरिणो हि मनुष्यादेः योग:-व्यापारो चेष्टारूपो बालकौमारादिक: कालादिकृतोऽवस्थाविशेषो विपर्यासं अन्यथा चान्यथा भवन् पर्ययते-गच्छतीति प्रत्यक्षेणैव लक्ष्यते, तथैव सर्वे स्थावरजङ्गमा जन्तवः अन्यथाऽन्यथा च भवन्तो द्रष्टव्या इति । अपिच - सर्वे दुःखाक्रान्ता यदिवा अकान्तदुःखा अप्रियदुःखा प्रियसुखाश्च, अतः सर्वेऽपि ते यथा अहिंसिता भवन्ति तथा विधेयमिति ।। ९ ।। किमर्थं सत्त्वान् न हिंस्यादित्याहएतं खुणाणिणो सारं, जं न हिंसति किंचणं । अहिंसासमयं चेव, एतावंतं विजाणिया ||१०||
एतदेव ज्ञानिनः सारं यन्न हिनस्ति कञ्चन प्राणिजातं, तेन उपलक्षणं चैतत्, तेन मृषावादादिष्वपि न वर्तत इति । अपिच अहिंसया समतामेव आत्मनः सर्वजीवैस्तुल्यतां चैता - द्विजानीयाद् यथा मम मरणं दुःखं चाप्रियमेवं सर्वसत्त्वानामिति । अहिंसा हि ज्ञातागमस्य फलमिति विजानीयादित्यर्थः ।। १० ।। मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह
सिए य विगयगेही, आयाणं सारक्खए ।
चरिया ऽऽसण- सेज्जासु, भत्तपाणे य अंतसो ||११||
-
धर्मे उषितो विगतगृद्धिश्च आदानीयं ज्ञानादिरत्नत्रयं संरक्षयेत् किंच-चर्याऽऽसन