________________
Michaelaetactretchachesed श्री सूत्रकृताङ्गसूत्रम् daceadacandit २२ ] लोगवायं निसामेज्जा, इहमेगेसि आहितं । विवरीतपण्णसंभूतं, अन्नउत्तं तयाणुयं ||५||
पाखण्डिनां पौराणिकानां च लोकानां वादं लोकवादं निशामयेत् तदेव दर्शयति-इहसंसारे एकेषां यद् आख्यातम् तद् विपरीतसंज्ञासंभूतं तथा यद् अन्योक्तम् अविवेकिजनजल्पितं तदनुगं-तदनुगच्छतीत्यर्थः ।।५।। तमेवानन्तरोक्तं लोकवादं दर्शयितुमाहअणंते णितिए लोए, सासते ण विणस्सति । अंतवं णितिए लोए, इति धीरोऽतिपासति ||६||
अनन्तो नित्यश्च लोक: सांख्यानां, यदिवा यो यादृगिह भवे स तादृगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अङ्गनैवेत्यादि, शाश्वतो न विनश्यति दिगात्माकाशाद्यपेक्षया वैशेषिकाणां तथा अन्तवान् नित्यश्च लोकः पौराणिकानां सप्तद्वीपावच्छिन्नत्वादिति धीरः कश्चित्साहसिकोऽन्यथाभूतार्थप्रतिपादनात् व्यासादिरिवातिपश्यतीति अतिपश्यति ।।६।। किंचअपरिमाणं विजाणाति, इहमेगेसि आहितं । सव्वत्थ सपरिमाणं, इति धीरोऽतिपासति ||७||
____कश्चित्तीर्थिकतीर्थकृत् अपरिमाणं विजानाति असावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्-सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ? इति, इहैकेषामाख्यातम्, तथा सर्वत्र सपरिमाणमिति धीरोऽतिपश्यति, तथाहि ते ब्रुवते-दिव्यं वर्षसहस्त्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यतीत्यतिपश्यति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः ।।७।। अस्य चोत्तरदानायाहजे केति तसा पाणा, चिटुंतऽदुव थावरा | परियाए अत्थि से अंजू, तेण ते तस-थावरा ||८||
'अनन्तो नित्यश्च लोक:- इत्यादि यदभिहितं तस्योत्तरं-तथाहि-अथाप्रच्युतानुत्पन्नस्थिरैकस्वाभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, यतो ये केचित् त्रसाः प्राणा: त्रसत्वेन अथवा स्थावराः स्थावरत्वेन तिष्ठन्ति, तेषां च सदैव तादृशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रिया: सर्वा अप्यनर्थिका आपोरन् । न चैतदृष्टमिष्टम् तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसङ्क्रमणमनिवारितमिति पर्यायतया अनित्यत्वं स्थितम् । यदि द्रव्यार्थतया नित्यत्वमभिधीयते हतो न काचित्क्षति: अस्मदभीष्टमेवाभ्युपगतमिति । तथा 'शाश्वतो न विनश्यति' द्रव्यविशेषापेक्षया इति यद्वैशेषिकैरभ्युपगम्यते तदप्यसदेव, यतः सर्वमेव वस्तू