________________
aadaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐadical२१]
भो ! जम्बू ! एते-पञ्चभूतवाद्यादिौराशिकान्ता जिता रागद्वेषादिभि: शब्दादिविषयैश्च तथा प्रबलमहामोहोत्थाऽज्ञानेन च न शरणं यतस्ते बाला अपि सन्तः पण्डितमानिनो हित्वा स्वजनधनादिकं पूर्वसंयोगं पुन: सिता: गृहस्थास्तेषां भूतोपमर्दकारि पचनपाचनादिकं कृत्यं तस्योपदेशं गच्छन्तीति सितकृत्योपदेशगाः, यदिवार्षत्वात् 'सिया' स्युः कृत्यं सावद्यानुष्ठानं तत्प्रधानाः कृत्या:-गृहस्थास्तेषामुपदेश: संरम्भसमारम्भारम्भरूप: स येषां ते कृत्योपदेशका इति । अयं भाव:- प्रव्रजिता अपि सन्त: कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव तेऽपि सर्वावस्थाः पञ्चसूनाव्यापारोपेता न स्वपरत्राणायेति ।।१।। एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाहतं च भिक्खू परिण्णाय, विज्जं तेसु ण मुच्छए । अणुक्कसे अप्पलीणे, मज्झेण मुणि जावते ।।२।।
भिक्षुः तं-पाखण्डिलोकं परिज्ञाय विदन्-विद्वान् तेषु-तीर्थिकेषु न मूर्च्छयेत्तथा अनुत्कर्ष:-आत्मप्रशंसां परिहरन् भावतश्च अप्रलीनो असंबद्धो मध्येन रागद्वेषयोरन्तरालेन संचरन् मुनिः आत्मानं यापयेद्-वर्तयेदिति ।।२।। किमिति ते तीथिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इहमेगेसि आहियं । अपरिग्गहे अणारंभे, भिक्खू ताणं परिवते ||३||
__ सपरिग्रहाः सारम्भाश्च तीथिकादय: सपरिग्रहारम्भकत्वेनैव च मोक्षमार्ग प्रतिपादयन्तीति दर्शयति-इहैकेषाम् आख्यातम्, यथा-किमनया शिरस्तुण्डमुण्डनादिकया क्रियया ? परं गुरोरनुग्रहात् परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्तीति । एवं सति ये अपरिग्रहा अनारम्भाश्च तान् भिक्षुस्त्राणं-शरणं परिव्रजेदिति ।।३।। कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाहकडेसु घासमेसेज्जा, विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को य, ओमाणं परिवज्जते ||४||
___ गृहस्थैः स्वार्थं कृतेषु षोडशोद्गमदोषशुद्धौदनादिषु ग्रासम् आहारम् एषयेत्-षोडशोत्पादनदोषान् परिहरन् याचेद् विद्वान् तथा दत्तैषणां चरेत्-दशैषणादोषान् वर्जयन् गृह्णीयाद् गृहीते चाहारे अगृद्धः पञ्चग्रासैषणादोषान् परिहरन्नभ्यवहरेत्तथा सर्वत्र रागद्वेषाभ्यां विप्रमुक्तः सन् परेषाम् अपमानं-परावमदर्शित्वं परिवर्जयेत्, न तपोमदं ज्ञानमदं च कुर्यादिति भावः ।।४।। एवं तीथिकान् गृहस्थोपमान दर्शयित्वाधुना तेषामेवाभ्युपगमं विपरीतप्रज्ञासंभूतं तथाऽविवेकिजनजल्पितानुगं दर्शयन्नाह