________________
5.
श्री सूत्रकृताङ्गसूत्रम्
पुढवी य आऊ अगणी य वाऊ, तण रुक्ख बीया य तसा य पाणा । जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिधाणा ||१|| एताइं कायाइं पवेदियाइं, एतेसु जाण पडिलेह सायं । एतेहिं कायेहि य आयदंडे, एतेसु या विप्परियासुविंति ॥२॥
८९
पृथ्व्यप्तेजोवायुकाया: वनस्पतिकायाश्च तृणवृक्षबीजादय: तथा त्रसाश्च प्राणिन:, तथाहि-ये चाण्डजा ; ये च जरायुजाः प्राणिनः संस्वेदजा:, ये चे रसजाभिधानाः । एते कायाः जीवनिकाया भगवद्भिः प्रवेदिताः । एतेषु जीवनिकायेषु सातं सुखं जानीहि यथा- एते सर्वे सुखैषिणो दुःखद्विषश्चेति ज्ञात्वा प्रत्युपेक्षस्व पर्यालोचय, यथा-एतैः कायैः समारभ्यमाणैः आत्मदण्डो भवति, आत्मा दण्ड्यते नि:सारीक्रियत इत्यर्थः । यथाऽऽत्मदण्डो भवति तथा दर्शयन्नाह-एतान् जीवनिकायान् ये समारम्भेण दण्डयन्ति ते एतेषु एव पृथिवीकायादिषु विपर्याशूपयान्ति विविधम् अनेकप्रकारं परि-समन्ताद् आशु- क्षिप्रम् उपयान्ति व्रजन्ति, भूयो भूयः समुत्पद्यन्त इत्यर्थः, यदिवा विपर्यासमुपयान्ति विपर्यासं जन्ममरणलक्षणं संसारमुपयान्ति, अथवा सुखार्थी तानारभ्य दुःखमाप्नोति, यद्वा मोक्षार्थी तानारभमाणः संसारमवाप्नोतीति ।।१।। ।।२।। एतदेव दर्शयति
जातीवहं अणुपरिमाणे, तस थावरेहिं विणिघायमेति ।
से जाति-जाती बहुकूरकम्मे, जं कुव्वती मिज्जति तेण बाले ॥३॥
जातीनाम् एकेन्द्रियादीनां पन्था जातिपथ: यदिवा जाति: जन्म वधश्च मरणं जातिवधं तद् अनुपरिवर्तमान: त्रसेषु स्थावरेषु च विनिघातं विनाशम् एति प्राप्नोति । स बहुक्रूरकर्मा जातिं जातिम् अवाप्य यत् पापकर्म करोति तेन पापकर्मणा स बाल : अज्ञः मीयते - भ्रियते पूर्यते, यदिवा मीयते-हिंस्यते, अथवा चौरोऽयं पारदारिक इति मीयते-परिच्छिद्यत इति ।। ३ ।। क्व मीयत इत्याह
अस्सि च लोगे अदुवा परत्था, सतग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधंति वेयंति य दुण्णियाई ||४||
संसारमापन्ना: जीवाः अस्मिन् लोके अथवा परत्र जघन्यतो दशगुणं शताग्रशस्तथा अन्यथा वा सहस्रशो वा यावत् कोटाकोटिगुणं परं परं प्रकृष्टं बघ्नन्ति वेदयन्ति दुःखमनुभवन्ति च दुर्नीतानि दुष्कृतानीति ।।४।। ओघतः कुशीला: प्रतिपादिताः, अधुना पाषण्डिनमधिकृत्याह