________________
aaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् addedicials । अन्यकृतं-कालेश्वरस्वभावकर्मादिकृतं च भवेत् ? सुखं सैद्धिकं-सिद्धिभवं यदिवाऽसैद्धिकंसांसारिकं सुखं वा दुःखं वा न स्वयं कृतं न चान्यैः कृतं वेदयन्ति पृथक् पृथग्जीवाः, परं यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगति:-नियतिस्तस्यां भवं सांगतिकं तत्तथा तेषां जीवानां भवतीतीहैकैः नियतिवादिभि:आख्यातमिति तथा चोक्तम्-“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ।।२।। ।।३।। अधुनास्योत्तरदानायाहएवमेताई जंपंता, बाला पंडियमाणिणो | णियया-ऽणिययं संतं, अजाणता अबुद्धिया ||४||
एवमेतानि वचनानि जल्पन्तो बाला अपि सन्तः पण्डितमानिनो यतो नियतानियतं-सुखादिकं किञ्चिन्नियतम्-अवश्यंभाव्युदयप्रापितं तथा अनियतम्-आत्मपुरुषकारेश्वरादिप्रापितं सत् नियतिकृतं-नियतमेवैकान्तेनाश्रयन्ति, अत: अजानन्तः अबुद्धिका भवन्तीति ।।४।। तदेवं युक्त्या नियतिवादं दूषयित्वा तद्वादिनामपायदर्शयन्नाहएवमेगे उ पासत्था, ते भुज्जो विप्पगब्भिया । एवं उवहिता संता, ण ते दुक्खविमोक्खया ||५||
एवमेके एव नियतिवादिनः पार्श्वस्थाः पाशस्था वा तथाहि-युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्था: परलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्यं, यदिवापाश इव पाश: कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिता: पाशस्थाः अन्येप्येकान्तवादिन: कालेश्वरादिकारणिका: पार्श्वस्था: पाशस्था वा द्रष्टव्याः । एवंभूतास्ते-भूयो विप्रगल्भिता:-धाष्टोपगताः, यत एवं नियतिवादमाश्रित्यापि पुन: परलोकसाधिकासु क्रियासु उपस्थिता:- प्रवृत्ता अपि सन्तो असम्यक्प्रवृत्तत्वात् न ते दुःखविमोक्षका भवन्ति । गता नियतिवादिनः ।।५ ।। साम्प्रतमज्ञानवादिमतं दूषयितुं दृष्टान्तमाहजविणो मिगा जहा संता परिताणेण वज्जिता | असंकियाई संकंति, संकियाइं असंकिणो ||६||
जविन:-वेगवन्तः सन्तो मृगाः परित्राणेन वर्जिता यदिवा परितानेन-वागुरादिबन्धनेन तर्जिताः सन्त: अशङ्कनीयानि स्थानानि शङ्कन्ते शङ्कनीयानि चाशङ्किनस्तत्र तत्र पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धः ।।६।। पुनरप्येतदेवातिमोहाविष्करणायाहपरिताणियाणि संकेता, पासिताणि असंकिणो । अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं ||७||
अतिमूढत्वात् परित्राणितानि स्थानानि शङ्कमानाः पाशितानि चाशङ्किन : अज्ञान